डा. मुखर्जी-वर्येण देशस्य अक्षुण्ण-अखण्डतायै अतुल्यसाहसेन सह सत्प्रयासाश्च प्रदर्शिताः- प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – डा. मुखर्जी-वर्येण देशस्य अक्षुण्ण-अखण्डतायै अतुल्यसाहसेन सह सत्प्रयासाश्च प्रदर्शिताः।
तेनोक्तं यत् कृतज्ञराष्ट्रम् डा. श्यामा प्रसाद मुखर्जी-वर्यस्य बलिदानदिवसावसरे, तस्मै श्रद्धाञ्जलिम् अर्पयति। प्रधानमन्त्रिणा नरेन्द्रमोदिना डा. मुखर्जीवर्यं प्रति श्रद्धाञ्जलिः समर्पिता। सामाजिक-प्रसारमाध्यमे श्रीमोदी अलिखत् यत् डा. मुखर्जी-वर्येण देशस्य अक्षुण्ण-अखण्डतायै अतुल्यसाहसेन सह सत्प्रयासाश्च प्रदर्शिताः। राष्ट्रनिर्माणार्थं तस्य अमूल्यं योगदानं सर्वदा श्रद्धया स्मर्यते इत्यपि प्रधानमन्त्री अवदत्। डा. मुखर्जीवर्यः त्रिपञ्चाशदुत्तरैकोनविंशतितमवर्षे अस्मिन्नेव दिने श्रीनगरस्य कारागारे निगूढपरिस्थितौ राष्ट्राय हुतिम् अगच्छत्। भाजपादलस्य राष्ट्रिय-अध्यक्षः जे. पी. नड्डाः नवदेहली-नगरस्य दल-मुख्यालये डा. मुखर्जी-वर्याय पुष्पाञ्जलिम् समर्पितवान्। श्री नड्डाः अवदत् यत्, डा. मुखर्जीवर्यः एकः स्वातन्त्र्ययोद्धा, समाजपरिष्कारकश्च आसीत् यो हि जम्मू-कश्मीरस्य भिन्नविशिष्टतायाः विरोधम् अकरोत्।
डा. मुखर्जी-वर्येण देशस्य अक्षुण्ण-अखण्डतायै अतुल्यसाहसेन सह सत्प्रयासाश्च प्रदर्शिताः- प्रधानमन्त्री नरेन्द्रमोदी
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
