भारतीय-व्यय-लेखाकार-संस्थाने अस्य वर्षस्य राष्ट्रिय-छात्र-दीक्षान्तसमारोहं सम्बोधितवती राष्ट्रपतिः द्रौपदीमुर्मूः
हिमसंस्कृतवार्ता: – राष्ट्रपतिः द्रौपदी मुर्मू: अकथयत् यत् संसारोऽयं जलवायु-परिवर्तनसङ्कटं सम्मुखीकरोति तथा च सुस्थिरता इदानीमुद्धोषः नास्ति अपितु आवश्यकता वर्तते। नवदेहली-नगरे भारतीय-व्यय-लेखाकार-संस्थानस्य अस्य वर्षस्य राष्ट्रिय-छात्र-दीक्षान्तसमारोहं सम्बोधयन्ती राष्ट्रपतिः अवदत् यत्, छात्राः स्वकौशलैः राष्ट्रियवाणिज्यजगति महत्परिवर्तनमानेतुं शक्नुवन्ति। सा अवोचत् यत्, भारतीय अर्थव्यवस्थां अद्यतनीयस्य विश्वस्य प्रबलतमासु अर्थव्यवस्थासु अन्यतमा कर्तुं भारतीय-व्यय-लेखाकार-संस्था महत्त्वपूर्णां भूमिकां निर्वहति ।
भारतीय-व्यय-लेखाकार-संस्थाने अस्य वर्षस्य राष्ट्रिय-छात्र-दीक्षान्तसमारोहं सम्बोधितवती राष्ट्रपतिः द्रौपदीमुर्मूः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
