अद्य योगः विश्वस्य विभिन्नेषु भागेषु वर्धमानस्य मनस्संतापस्य, अशान्तेः, अस्थिरतायाः च मध्ये शान्तेः मार्गम् प्रददाति- प्रधानमन्त्री नरेन्द्रमोदी।
हिमसंस्कृतवार्ता: – प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् अद्य योगः विश्वस्य विभिन्नेषु भागेषु वर्धमानस्य मनस्संतापस्य, अशान्तेः, अस्थिरतायाः च मध्ये शान्तेः मार्गम् प्रददाति, तथा च शान्तियुतं, सन्तुलितं, सुस्थिरं च विश्वं प्रवर्तयितुं सामूहिकप्रयासस्य आह्वानम् करोति। सः अवदत् यत् योगः विश्वं संघर्षात् सहकारं प्रति नयेदिति। अस्मिन् वर्षे दिवसस्यास्य विषयवस्तुः ‘योगा फ़ोर् वन् अर्थ, वन् हेल्थ’ इति अस्ति।आन्ध्रप्रदेशस्य विशाखापट्नं-नगरस्य रमणीय-समुद्रतटं निकषा एकादशम् अन्ताराष्ट्रिय-योग-दिवसोत्सवम् संबोधयन् प्रधानमन्त्री अवदत् यत् योगः एकः विरामचिह्नः अस्ति यतोहि मानवजातीनां श्वासोच्छवासयोः सन्तुलनं कर्तुं, पुनः स्वस्थं भवितुं च आवश्यकं भवति। प्रधानमन्त्री अवदत् यत्, अस्मिन् वर्षे दिवसस्यास्य विषयवस्तुः ‘योगा फ़ोर् वन् अर्थ, वन् हेल्थ’ इति अस्ति। सः अवदत् यत् जगति योगस्य प्रसाराय, भारतं आधुनिकशोधमाध्यमेन योगविज्ञानं इतोऽपि सुदृढं करोति, यस्मिन् देशस्य प्रमुखाः चिकित्सा-संस्थाः योगविषयिक- संशोधने निरताः सन्ति ।
अन्ताराष्ट्रिय-योगदिवसः सम्पूर्णे देशे सोत्साहं समाचरित:
हिमसंस्कृतवार्ता: – अन्ताराष्ट्रिय-योगदिवसः सम्पूर्णे देशे सोत्साहं समाचरित:। देहरादून्-नगरस्य ‘पुलिस लाइन’ इति क्षेत्रे आयोजिते योगशिविरे राष्ट्रपतिः द्रौपदी मुर्मुः भागम् अगृह्णात्। विश्व-मञ्चे योगस्य प्रोत्साहने भारतस्य महत्त्वपूर्णा भूमिकां प्रकाशयन्ती सा अवदत् यत्, अधुना विश्व-समुदायः योगस्य विषये अधिकम् आदरं धारयति, येन महाद्वीपेषु जनाः तस्य लाभमपि अनुभवन्ति। लद्दाख-नगरे कार्गिल्-क्षेत्रस्य क्री-सुल्तान्-चू-क्रीडाङ्गणे अन्ताराष्ट्रिय-योगदिवसः अत्यन्तोत्साहेन आचर्यत। गोवाराज्ये मुख्यमन्त्री डा. प्रमोद सावन्तः तालीगांव-नगरस्य श्यामा प्रसाद मुखर्जी-क्रीडाङ्ङ्गणे योगदिवसस्य कार्यक्रमस्य नेतृत्वं कृतवान्। सः योगः विश्वस्य कृते भारतस्य महान् उपहारः इति च उद्घोषितवान्। गोवाराज्ये एकादशः अन्ताराष्ट्रिय-योगदिवसः वैभवेन आध्यात्मिकशक्त्या च आचर्यते। केन्द्रीय-नवीन-पुनर्नवीकरणीय ऊर्जा-राज्यमन्त्री श्रीपाद-नायकः ओल्ड्-गोवा-नगरस्य भव्य-चर्च्-कन्वेण्ट्-इति विश्वविदितस्थले उत्सवस्यास्य नेतृत्वं कृतवान्। सभाम् सम्बोधयन् सः, कथं योगः न केवलं शरीरम् अपितु मनसः आत्मनश्च पोषणं करोतीति उक्तवान्।