हिमाचले प्रथमवारं जाइका स्वास्थ्यक्षेत्रे प्रवेशं करोति
हिमसंस्कृतवार्ताः। केन्द्रीयवित्तमन्त्रालयस्य आर्थिककार्यविभागस्य परीक्षणसमित्या हिमाचलसर्वकारस्य महत्त्वाकांक्षिणी परियोजनायाः सिद्धान्ततः अनुमोदनं दत्तं यत् हिमाचलस्य सर्वकारीयचिकित्सालयानां व्यवस्थां परिवर्तयितुं शक्यते। मंगलवासरे आर्थिककार्याणां विभागस्य अपरसचिवः बाह्यवित्तपोषितपरियोजनानां विषये विभिन्नराज्यैः सह संगोष्ठीं कृतवान्। हिमाचलस्य १३८४ कोटिरूप्यकाणां एषा परियोजना अपि तस्मिन् समाविष्टा आसीत् । केन्द्रसर्वकारेण अस्याः परियोजनायाः सिद्धान्ततः अनुमोदनं दत्त्वा आगामिदिनत्रयेषु त्रयाणां आक्षेपाणां उत्तराणि अपि याचितानि सन्ति। तथापि मन्त्रालयाय अपि एषा परियोजना रोचते। पूर्वं केन्द्रीयस्वास्थ्यमन्त्रालयेन नीतिआयोगेन च अस्याः परियोजनायाः सहमतिः दत्ता अस्ति। कुल १३८४ कोटिरूप्यकाणां एषा परियोजना हिमाचल-सर्वकारेण जापान-अन्तर्राष्ट्रीयनिगम-संस्थायाः अर्थात् जाइका-संस्थायाः वित्तपोषणार्थं प्रेषिता अस्ति । हिमाचले प्रथमवारं जाइका स्वास्थ्यक्षेत्रे प्रवेशं करोति। केन्द्रसर्वकारेण राज्येभ्यः बाह्यसहायकपरियोजनानि दातुं टोपिका स्थापिता अस्ति।
हिमाचले प्रथमवारं जाइका स्वास्थ्यक्षेत्रे प्रवेशं करोति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment

