By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: रमणायनम्- श्रीरमणमहर्षिः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > विविध > रमणायनम्- श्रीरमणमहर्षिः
विविधधर्मसंस्कृतिः

रमणायनम्- श्रीरमणमहर्षिः

डॉ.अमनदीप शर्मा
Last updated: 2025/06/12 at 8:39 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

रमणायनम्- श्रीरमणमहर्षिः

आमुखम्-भगवान् श्रीरमणमहर्षि: विंशतितमशतकस्य सर्वश्रेष्ठ: आध्यात्मिकसत्पुरुष:, अद्वैतवेदान्तस्य सर्वश्रेष्ठ: आचार्य: च इति जना: मन्यन्ते। १८७९ मध्ये तमिळनाडुराज्ये लब्धजन्मायं वयस: षोडशे वर्षे आत्मानुभवं प्राप्तवान्। तत: परं स: स्वगृहं त्यक्त्वा अरुणाचलक्षेत्रमागत्य तत्र आमरणं वयस: सप्ततितमवर्षपर्यन्तं निरन्तरं निवासम् अकरोत् जन्येभ्यश्च आध्यात्मिकं मार्गदर्शनं प्रादात्। तस्य आश्रम: अरुणाचलपर्वतस्य उपत्यकायां तिरुवण्णमलै इत्यस्मिन् नगरे अस्ति।
महर्षे: विषये श्रुत्वा तस्य उपदेशं ग्रन्थेषु पठित्वा वा देशविदेशेभ्य: भक्ता: तस्य समीपम् आगच्छन्ति स्म। महर्षि: १९५० तमे वर्षे स्थूलदेहत्यागं कृतवान्। तथापि अद्यापि तस्य समाधिस्थले स: अशरीरम् उपस्थित: अस्तीति भक्तानां भावना। अत: भक्तजना: रमणाश्रमं गच्छन्ति। तस्य समाधे: सन्निधौ ध्यानादिकं कृत्वा मन:शान्तिम् अधिगच्छन्ति।
यद्यपि महर्षि: शाङ्कराद्वैतवेदान्तस्य अनुमन्ता तथापि महर्षे: उपदेश: अन्येषां सर्वेषामाध्यात्मिकगुरूणाम् उपदेशात् भिन्न: असाधारणश्चास्ति। ब्रह्मेश्वरादीनां अज्ञातवस्तूनाम् उपासनापेक्षया स: आत्मोपासनमेव उपदिशति स्म। प्रतिजीवं विद्यमाना या अहंवृत्ति: सा एव ब्रह्मण: प्रत्यक्षगम्या प्रथमाभिव्यक्ति:। अत: तस्या: वृत्ते: मूलस्य अन्वेषणं कोऽहमिति सन्ततविचारणया कृत्वा तन्मूलभूतम् आत्मत्त्वं हृदि एव अनुभवितव्यम् इति महर्षे: उपदेशस्य केन्द्रीभूत: भाव:। एष: आत्मानुभूते: प्रत्यक्षतम: मार्ग: (Direct Method) तस्य उपदेशम् अन्योपदेशात् विशिनष्टि। महर्षे: जीवनचरित्रं त्रिभि: लेखकै: भिन्नभिन्नभाषासु लिखितम् अस्ति। तेषु प्रथम: आसीत् बी वी नरसिंह-स्वामी। तेन आङ्गलभाषया लिखितं महर्षे: जीवनचरित्रं महर्षे: जीवनकाले एव १९३१ मध्ये Self realisation इति नाम्ना प्रकाशतां गतम्। द्वितीयं तमिलभाषया रमणविजयम् इति नाम्ना लिखितं चरित्रमपि १९३१ मध्ये प्रकाशितम् अभवत्। एतस्य लेखक: आसीत् स्वामी शुद्धानन्दभारती। तेलुगुभाषया लिखितं महर्षे: चरित्रं श्रीरमणलीला इति शीर्षकेण १९३६ मध्ये प्रसिद्धिं प्राप्नोत्। एतस्य लेखक: आसीत् श्रीकृष्णभिक्षु:।
एतेषु मया रमणलीला तथा self realisation एतद्द्वयं पठितम् अस्ति। एतयो: आधारेण रमणमहर्षे: संस्कृतचरित्रस्य लेखनस्य प्रयासोऽयं मया विधीयते। अनेन रमण: प्रीयताम्।

-अभिजित तोडकर
9145908156

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

लोकसभायां ५४३ सदस्यसङ्ख्या किमर्थं ५४३ एव भवेत्?

बालिका-संस्कृत-विद्यापीठे रक्षाबन्धन-संस्कृतदिवसयोः भव्यः समारोहः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article गल्ल कोई नी सुणदे
Next Article Ahmadabad Plane Crash : एअर इंडिया इत्यस्य बोइङ्ग् ७८७-८ ड्रीमलाइनर- विमानस्य दुर्घटना, २४२ जनान् स्वीकृत्य अहमदाबादतः लन्दनं प्रति गच्छति स्म विमानम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?