By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > विविध > भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः
विविध

भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः

डॉ.अमनदीप शर्मा
Last updated: 2025/06/08 at 7:02 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः
भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति । यतो हि लौहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लौहपुरुषस्य भारतैकतायाः विचाराः सन्ति । विनोबा भावे-महाभागस्य मते भारतीयेतिहासे लौहपुरुषस्य अमरत्वस्य बहूनि कारणानि सन्ति । परन्तु तेषु द्वे मुख्ये कारणे स्तः । एकं तु बारडोली-सत्याग्रहः (१९२८), अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम सगर्वं गृह्यते। ‘सरदार’ इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः ।
एकतामूर्तिप्रकल्पे लौहपुरुषस्य १८२ मी. उन्नतमूर्तेः निर्मिता अस्ति। सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं जातम्। तस्मात् जलबन्धात् ३.२ कि.मी. दूरे निर्मिता भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिः । भारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके (Sadhu island of Narmada River) द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तिः विद्यते ।
एकतामूर्तिप्रकल्पे अन्यलघुप्रकल्पानामपि समावेशो भवति । यथा – साधुसेतुः (a bridge connecting the statue on Sadhu island to the bank), सरदार-स्मारकः, अभ्यागतभवनानि (buildings for visitors), स्मारकोद्यानम्, अतिथिभवनं (a five star hotel), सम्मेलनभवनं, मनोरञ्जनवाटिका, संशोधनकेन्द्रम्, अभ्यासकेन्द्रम् इत्यादिकम्।
एकतामूर्तिप्रकल्पाय सरदार वल्लभभाई पटेल राष्ट्रियैकतासंस्थायाः – सवपरास (Sardar Vallabhbhai Patel Rashtriya Ekta Trust – SVPRET) गुजरातसर्वकारेण स्थापना कृता अस्ति ।
निर्माणम्
२०१० तमस्य वर्षस्य ‘अक्तूबर’-मासस्य सप्तमे दिनाङ्के एकतामूर्तिनिर्माणस्य घोषणा जाता आसीत् । निर्माणं च २०१८ अक्तूबर मध्ये समाप्तम्। आधारसहितमूर्तेः औन्नत्यम् आहत्य २४० मी. विद्यते। उपप्रकल्पैः सह एकतामूर्तिप्रकल्पस्य विस्तारः आहत्य १९,५०० च.कि.मी. अस्ति । तत्र १८२ मी. उन्नता एकतामूर्तिः, ५८ मी. उन्नतः मूर्त्याधारः च अस्ति। एतत् सम्पूर्णं निर्माणं सारलोहेन (with steel) क्लृप्तं (prepared) विद्यते । जलरक्षकेण वज्रचूर्णेन (reinforced cement concrete) एकतामूर्तेः, एकतामूर्त्याधारस्य च निर्माणम् अभवत् । सम्पूर्णस्य निर्माणस्य आवेष्टनं (coating) कांस्य(bronze)धातुना अभवत्।
एकतामूर्तेः सहनिर्मातारौ सम्पूर्णप्रकल्पस्य पर्यवेक्षकत्वेन (supervisors) दायित्वं वहिष्यतः । तौ Michel Graves and Associates, Meinhardt Group स्तः । एकतामूर्तेः सम्पूर्णः प्रकल्पः ५६ मासानन्तरं समाप्तिं प्रापयिष्यति । उपप्रकल्पैः सह सम्पूर्णस्य एकतामूर्तिप्रकल्पस्य समाप्त्यर्थं १२५५ सप्ताहाः अर्थात् चतुर्विंशतिः (२४) वर्षाणि भविष्यन्ति । परन्तु उपप्रकल्पैः विना एकतामूर्तिनिर्माणस्य कालः पञ्चवर्षं यावत् अनुमानितः सर्वकारेण । सम्पूर्णप्रकल्पस्य मानितराशिः २०६३ कोटिरूप्यकाणि सन्ति । लोहपुरुषविचारान् अनुसृत्य जनसाहाय्येनैव एकतामूर्तिप्रकल्पाय धनसङ्ग्रहः भविष्यति । प्रकल्पाय गुजरातराज्यस्य सर्वकारेण २०१२-१३ वर्षे १०० कोटिरूप्यकं मानधनं प्रदत्तमस्ति ।
२०१३ तमस्य वर्षस्य ‘अक्तूबर’-मासस्य एकत्रिंशत्तमे (३१) दिनाङ्के, लौहपुरुषस्य १३८ तमे जन्मजयन्त्यवसरे गुजरातराज्यस्य मुख्यमन्त्री नरेन्द्र मोदी एकतामूर्तिप्रकल्पस्य शिलान्यासमकरोत् । शिलान्यासानन्तरं लाल कृष्ण आडवाणी, नरेन्द्र मोदी च अघोषयत् यत्, एकतामूर्तेः निर्माणं न केवलं विश्वस्य अत्युन्नतमूर्तेः निर्माणम् अपि तु लौहपुरुषस्य सर्वेषां विचाराणां समग्रस्य विश्वस्य पुरतः उपस्थापनम् । तौ अघोषयतां यत्, २०१४ तमस्य वर्षस्य ‘जनवरी’-मासस्य षड्विंषति(२६)तमे दिनाङ्के अर्थात् गणतन्त्रदिवसे प्रकल्पस्य निर्माणकार्यस्य प्रारम्भं भविष्यति ।

You Might Also Like

Banana-: कदलीफलस्य लाभाः गुणाः च

महात्मानारायणदासग्रोवरमहोदयस्य व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

September 23, 2025

प्रभाताभिलाषः (सत्यान्वेषणम्)

त्वं खलु जानासि

TAGGED: लौहपुरुष
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article अमेरिकीराष्ट्रपतिः डोनाल्डट्रम्पः एलोन् मस्कः इत्यनयोः मध्ये वर्धितः विवादः
Next Article पार्ले जी पिष्टकम् विदेशे २३४२ रुप्यकेषु विक्रीयते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?