स्वास्थ्याय AI इत्यस्य क्रान्तियुक्तं परिवर्तनं, रक्तपरीक्षा केवलं मुखस्य स्कैन् इत्यनेन एव भविष्यति,
हिमसंस्कृतवार्ताः। अद्यतनव्यस्तजीवने स्वास्थ्यपरीक्षायै समयं प्राप्तुं कठिनं भवति। विशेषतः रक्तपरीक्षायाः विषये सूचिका द्वारा रक्तं निष्कासयितुं भयं, उपद्रवं च जनान् अधिकं भयभीतं करोति । परन्तु अधुना कृत्रिमबुद्ध्या सूचिकां-पट्टिकां विना रक्तस्य परीक्षणं भविष्यति तथा च मुख-स्कैन्-माध्यमेन एव रक्तपरीक्षा सम्भवति। एतत् एव न, भवतः शरीरस्य विषये बह्व्यः महत्त्वपूर्णाः सूचनाः मुखस्य स्कैन् मार्गेण अपि ज्ञातुं शक्यन्ते । आर्टिफिशियल इंटेलिजेन्स् स्वास्थ्यनिरीक्षणे क्रान्तिकारीपरिवर्तनं कर्तुं गच्छति तथा च केवलं फेसस्कैनद्वारा २० सेकेण्ड् मध्ये भवतः स्वास्थ्यस्य स्थितिः प्रकाशिता भविष्यति। Quick Vital इति एआइ-आधारितं एप् इदानीं स्वास्थ्यनिरीक्षणस्य मार्गं परिवर्तयितुं गच्छति। एतत् एप् २०२४ तमे वर्षे प्रारब्धम् आसीत्, तस्य उपयोगः प्रथमवारं हैदराबादस्य सर्वकारीयचिकित्सालये ‘निलोफेर्’ इत्यत्र अभवत् ।
स्वास्थ्याय AI इत्यस्य क्रान्तियुक्तं परिवर्तनं, रक्तपरीक्षा केवलं मुखस्य स्कैन् इत्यनेन एव भविष्यति,

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
1 Comment
1 Comment
हिम संस्कृत वार्ता : प्रदातुं ये वाग्देव्याः ये सुपुत्राः संलग्नाः सन्ति तेभ्यः कोटिशः साधुवादाः ।
अहं अस्य अन्तर्जाल -पुट -संस्कृत – समाचारपत्रस्य नित्यग्राहिका अस्मि । एतत् पत्रं प्रातः प्रार्थना सभायां छात्राणां बहु उपकारं करोति ।
अहं दिल्ली सर्वकारस्य सर्वोदय विद्यालये संस्कृत प्रवक्त्री रूपेण संस्कृत मातुः चरणयोः सेवारता अस्मि ।
हिमसंस्कृत वार्ता परिवारे काञ्चित् सहायतां कृत्वा अहं स्वात्मानं धन्यां मन्स्ये ।