दक्षिणस्य नायकस्य ‘सूर्या’ इत्यस्य रेट्रो इति चलच्चित्रम् अस्मिन् दिने ओटीटी इत्यत्र प्रदर्शितं भविष्यति
वार्ताहर: – जगदीश डाभी, मुम्बई ।
दक्षिणस्य नायकस्य ‘सूर्या’ इत्यस्य रेट्रो इति चलच्चित्रं मई मासस्य १-दिनाङ्के प्रदर्शितम् अभवत् । अस्मिन् चलच्चित्रे सूर्या इत्येन सह पूजा हेग्डे मुख्यभूमिकायां दृश्यते स्म । काङ्गुवा चलच्चित्रं पश्चाद् सूर्या इत्यस्य प्रथमं चलच्चित्रम् एतत् आसीत् । अस्य चलच्चित्रस्य अतीव उत्तमं प्रतिक्रिया भविष्यति इति अपेक्षा आसीत् । किन्तु एतत् न अभवत् । तथापि चलच्चित्रं निष्फलं न अभवत् ।
प्राप्तसमाचारानुसारं सूर्या इत्यस्य रेट्रो ६५-कोटिरूप्यकाणाम् आय-व्ययकेन निर्मितम्। ६५ कोटिरूप्यकाणाम् आय-व्ययकेन निर्मितस्य अस्य चलच्चित्रस्य अधुना यावत् बक्स् आफिस इत्यत्र ९५.३५ कोटिरूप्यकाणि अर्जितानि सन्ति । बक्स् आफिस इत्यत्र ९५ कोटिरूप्यकाणाम् अधिकम् अर्जनं कृत्वा अधुना एतत् चलच्चित्रं ओटीटी इत्यत्र प्रदर्शितं भविष्यति । अतीव शीघ्रमेव प्रशंसकाः गृहे एव एतत् चलच्चित्रं द्रष्टुं शक्नुवन्ति। वार्तानुसारं नेटफ्लिक्स् इत्यनेन रेट्रो इत्यस्य ओटीटी अधिकारः क्रीतवान् । नेटफ्लिक्स् अतीव शीघ्रमेव एतत् चलच्चित्रं प्रदर्शयिष्यति। नेटफ्लिक्स् इत्यनेन अद्यापि विमोचनस्य तिथिः न घोषिता । परन्तु रेट्रो नेटफ्लिक्स् इत्यत्र जूनमासस्य ५-दिनाङ्के प्रदर्शितं भविष्यति इति कथ्यते।