By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ताः- पाकिस्तान-प्रायोजितातङ्कवादविरुद्धं भारतस्य पक्षम् उपस्थापयितुं सप्त सर्वदलीय-प्रतिनिधिदलानि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रीयवार्ताः- पाकिस्तान-प्रायोजितातङ्कवादविरुद्धं भारतस्य पक्षम् उपस्थापयितुं सप्त सर्वदलीय-प्रतिनिधिदलानि
राष्ट्रीयवार्ताः

राष्ट्रीयवार्ताः- पाकिस्तान-प्रायोजितातङ्कवादविरुद्धं भारतस्य पक्षम् उपस्थापयितुं सप्त सर्वदलीय-प्रतिनिधिदलानि

डॉ.अमनदीप शर्मा
Last updated: 2025/05/18 at 6:54 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
4 Min Read
चित्र आभारः- अमर उजाला
SHARE

राष्ट्रीयवार्ताः- पाकिस्तान-प्रायोजितातङ्कवादविरुद्धं भारतस्य पक्षम् उपस्थापयितुं सप्त सर्वदलीय-प्रतिनिधिदलानि
हिमसंस्कृतवार्ता: – सिन्दूराभियानस्य परिप्रेक्ष्ये पाकिस्तान-प्रायोजित भयोत्पादनस्य विरुद्धं भारतस्य स्थितिम् उपस्थापयितुं प्रशासनं सप्त सर्वदलीय-प्रतिनिधिदलानि विभिन्नेषु देशेषु प्रेषयति। प्रतिनिधिमण्डलानि अस्मिन् मासान्ते संयुक्तराष्ट्र-सुरक्षा-सदस्य देशैः सह प्रमुख-सहभागि-देशान् प्रति भ्रमितारः। तेषु विभिन्नानां राजनैतिकदलानां सांसदाः, प्रमुखाः राजनीतिज्ञाः, विशिष्टाः कूटनीतिज्ञाः च सम्मिलिताः भविष्यन्ति। सर्व-दलीय-प्रतिनिधिदलं सर्वप्रकारेषु अभिव्यक्तिषु च भयोत्पादनस्य प्रतिकारार्थं भारतस्य राष्ट्रिय-सर्वसम्मतं दृढं च दृष्टिकोणम् उपस्थापयिष्यति। एतानि प्रतिनिधिमण्डलानि भयोत्पादनस्य विरुद्धं भारतस्य शून्य-सहिष्णुतायाः दृढं सन्देशं विश्वं प्रति अग्रे नेतुं शक्नुवन्ति। सप्त प्रतिनिधिमण्डलानां नेतृत्वं भाजपा-दलस्य रविशंकरप्रसादः, बैजयन्तपाण्डा, काङ्ग्रेस्-दलस्य शशि थरूर, जे. डी. (यू) दलस्य सञ्जयकुमारझाः, डी. एम्. के. दलस्य कनिमोळी करुणानिधिः, एन्. सी. पी. दलस्य सुप्रिया सुले, शिवसेना दलस्य श्रीकान्त एकनाथ शिन्दे च करिष्यन्ति। भाजपादलस्य सांसदः रविशङ्करप्रसादः अवोचत् यत् उपक्रमोऽयं प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदृष्टिं प्रतिबिम्बयति । सः एतदपि न्यगदयत् यत् भारतस्य सामूहिकः संकल्पः संयुक्तरूपेण भयोत्पादनस्य विरुद्धं वर्तते सममेव विश्वः अस्माकं एकतां दृश्यात्।

महाराष्ट्रस्य पुणेनगरे प्रतिबन्धितस्य आई.एस.आई.एस. आतङ्कवादीसङ्गठनस्य स्लीपरमॉड्यूलेत्यस्य द्वौ सदस्यौ गृहीतौ
हिमसंस्कृतवार्ता: – एनआईए आईईडी पुणे महाराष्ट्रस्य पुणेनगरे त्रयोविंशत्यधिक द्विसहस्रतमे वर्षे तात्कालिकविस्फोटकयन्त्राणां (आई.ई.डी.) निर्माण-परीक्षणयोश्च सम्बद्ध-प्रकरणे प्रतिबन्धितस्य आई.एस.आई.एस. आत‌ङ्कवादीसङ्गठनस्य स्लीपरमॉड्यूलेत्यस्य द्वौ सदस्यौ गृहीतौ। एन.आई.ए. त्यिनेन एकस्मिन् वक्तव्ये सूचितं यत् द्वौ जनौ मुम्बई अन्तार्राष्ट्रीयविमानस्थानकस्य टर्मिनल् द्वितीये अप्रवासनाभिकरणेन अवरुद्धौ आस्ताम् अभिकरणेन सूचितं यत् अभियुक्तौ विगतवर्षद्वयं यावत् पलायितौ आस्ताम् तथा च एन.आई.ए. विशिष्ट मुम्बई न्यायालयेन तयोः विरुद्धं निगडनादेशोपि प्रसारिता। तत्र उक्तं यत् अन्यैः गृहीतैः अभियुक्तयोः कृते पूर्वमेव आरोपपत्रं पञ्जीकृतम्, निगडितौ जनौ पुणेनगरस्य भाटकगृहे IED-विस्फोटकसङ्ग्रहे प्रवृत्तौ आस्ताम्। अस्मिन् प्रकरणे अन्वेषणं निरन्तरं प्रचलति।

निर्वाचनायुक्तः बिहारे निर्वाचनानां सज्जताम् समीक्षितुं पूर्वचम्पारण-जनपदम् अगच्छत्
हिमसंस्कृतवार्ता: – निर्वाचनायुक्तः डॉक्टर विवेक-जोशी आगामि-बिहार-विधानसभा निर्वाचनानां सज्जताम् समीक्षितुं पूर्वचम्पारण-जनपदम् अगच्छत्। अवधेयमस्ति यत् गतदिवसे बिहारस्य चतुर्दिवसीय यात्रायाः द्वितीयदिवसः आसीत् । निज यात्रावधौ असौ व्यवस्थां मतदातृभ्यः सौविध्यान् सुरक्षा-स्थितिं च निरीक्षयति । सममेव असौ ई.वी.एम. यन्त्राणां प्रथमस्तरीय-निरीक्षणम् अपि अवलोकयति।

भारतीय अर्थव्यवस्था वर्तमान-वित्तवर्षे षड् दशमलव त्रिप्रतिशतं यावत् वृद्धिं प्राप्स्यति – संयुक्तराष्ट्रसङ्घ:
हिमसंस्कृतवार्ता: – संयुक्तराष्ट्रसङ्घस्य प्रतिवेदनानुसारं पञ्चविंशत्युत्तर द्विसहस्र तमे वर्षे भारतं द्रुतगत्या वर्धमाना प्रमुख अर्थव्यवस्था भविष्यति। प्रतिवेदने उल्लिखितम् यत् भारतीय अर्थव्यवस्था वर्तमान वित्तवर्षे चीन-देशम्, अमेरिका-देशम्, यूरोपीय सङ्घ च अतिक्रम्य षड् दशमलव त्रिप्रतिशतं यावत् वृद्धिं प्राप्स्यति। विश्व-आर्थिक-स्थिति-सम्भावनायाः विषये संयुक्तराष्ट्रसङ्घस्य नवीनतमं प्रतिवेदनं प्रतिवेदयति यत् भारतस्य जी. डी. पी. वृद्धिः आन्तरिकव्ययेन, प्रबलसर्वकारीय-निवेशेन, सेवा-नियतिन च प्रेरिता । यद्यपि वैश्विक अर्थव्यवस्था मन्दीभूता विद्यते तथापि भारतीय अर्थव्यवस्था तीव्रगत्या प्रवर्धते।

आगामिषु सप्तदिनेषु झंझावातः वायु-विद्युद्योतनेन सह वृष्टेः सम्भावना – भारतर्तुविज्ञानविभाग:
हिमसंस्कृतवार्ता: – भारतर्तुविज्ञानविभागेन पूर्वोत्तर-पूर्व-मध्य-दक्षिणभारतेषु आगामिषु सप्तदिनेषु झंझावातः वायु-विद्युद्योतनेन सह वृष्टेः पूर्वानुमानं कृतम् । ऋतुविभागेन कोड्ङ्कन-गोवा-मध्यमहाराष्ट्र-मराठवाडा-क्षेत्रेषु आगामिषु चत्वारि-पञ्चदिनेषु पश्चिमभारते अपि एतादृशेः स्थितेः पूर्वानुमानं प्रकटितम्। उत्तर-पश्चिम-भारते जम्मू-कश्मीर-लद्दाख गिल्गित-बाल्टिस्तान-मुजफ्फराबाद-हिमाचल-प्रदेश-उत्तराखण्ड-राज्येषु च आगामिषु त्रीणि चत्वारि-दिनानि यावत् वज्रपातस्य, विद्युद्योतनस्य, तीव्रवायोः च संभावना प्रकटिता।

पाकिस्तानस्य गुप्तचर्यायाः आरोपेण हरियाणाराज्ये त्रयः जनाः गृहीताः।
हरियाणापुलिसदलेन पाकिस्तानस्य गुप्तचर्यायाः आरोपेण यूट्यूबर इत्येषा ज्योतिरानी गृहीता। हिसारस्य सिविल लाइन्स् पुलिसस्थानके ज्योत्या विरुद्धं प्रकरणं पञ्जीकृतम् अस्ति। सा न्यायालये उपस्थापिता, पञ्चदिवसीयनिरोधाय प्रेषिता च। हिसारस्य पुलिस उपाधीक्षकः कमलजीतः अवदत् यत् ज्योतिः पाकिस्तानस्य गुप्तचरसंस्थाभिः सह सम्पर्कं कुर्वती अस्ति तथा च सा सोशल मीडियाद्वारा गोपनीयसूचनाः प्रेषयति। सः अवदत् यत् ज्योतिः चतुर्वारं पाकिस्तानदेशं गतवती। अस्य कारणात् भारतीयसुरक्षासंस्थाः तस्याः उपरि दृष्टिम् आचरन्ति स्म । हरियाणापुलिसदलेन कैथलस्य मस्तगढग्रामस्य २५ वर्षीयः देवेन्द्रसिंहः अपि पाकिस्तानस्य गुप्तचरसंस्थायाः आईएसआई इत्यस्य गुप्तचर्यायाः आरोपेण गृहीतः। कैथलपुलिसदलस्य अधीक्षिका आस्था मोदी इत्यनया उक्तं यत् देवेन्द्रसिंहेन भारतीयसेनायाः गोपनीयसूचनाः, यत्र ऑपरेशन सिन्दूर इत्यादीनि च पाकिस्तानदेशं प्रेषिताः। सा अवदत् यत् अयं युवकः प्रथमवारं मे १३ दिनाङ्के सोशल मीडिया फेसबुक् इत्यत्र अवैधशस्त्रसम्बद्धे निरुद्धः अभवत्। प्रश्नोत्तरकाले सः अनेकानि आश्चर्यजनकानि प्रकाशनानि कृतवान्।
पुलिसदलेन मेवातस्य नगिनापुलिसक्षेत्रे रजकाग्रामं समीपे एकः संधिग्धः गृहीतः। गृहीताः अभियुक्ताः देशस्य सैन्यक्रियाकलापानाम् सूचनां व्हाट्सएप्-माध्यमेन पाकिस्तानदेशं प्रति प्रेषयन्ति स्म । अयं अभियुक्तः अरमान इति परिचितः अस्ति। पुलिस अधीक्षकः राजेशकुमारः अवदत् यत् आरोपी गृहीतः अस्ति तथा च देशद्रोहसम्बद्धविभिन्नधाराणाम् अन्तर्गतं प्रकरणं पञ्जीकृतम् अस्ति। सः अवदत् यत् तेन प्रश्नोत्तरं क्रियते, अन्ये जनाः अपि दृष्टौ स्थापिताः सन्ति।

गाजियाबादनगरस्य नमोभारतस्थानके यात्रिकाणां सुविधायै द्वौ अपि नूतनौ प्रवेशद्वारौ
गाजियाबादनगरस्य नमोभारतस्थानके यात्रिकाणां सुविधायै द्वौ अपि नूतनौ प्रवेशद्वारौ उद्घाटितौ। आरआरटीएस इत्यनेन सूचितं यत् गाजियाबाद-स्थानके अधुना आहत्यचत्वारि प्रवेशद्वाराणि आवागमनाय च सन्ति। आरआरटीएस-अनुसारं एतेन यात्रिकाः अधिकयातायातयुक्तानां मार्गाणां पारगमनस्य कष्टात् मुक्ताः भविष्यन्ति।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

TAGGED: पाकिस्तान
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article अजय देवगनस्य ‘धमाल ४’ इत्यस्य प्रसारणतिथ्या: घोषणा जाता, चलच्चित्रम् ईद-दिवसे प्रसारितं भविष्यति
Next Article दक्षिणस्य नायकस्य ‘सूर्या’ इत्यस्य रेट्रो इति चलच्चित्रम् अस्मिन् दिने ओटीटी इत्यत्र प्रदर्शितं भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?