By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ताः-ज्ञानपीठपुरस्कारम्- जगद्गुरु-रामभद्राचार्यः, प्रख्यातः उर्दू कविः गीतकारः गुलजारः च अस्य प्रतिष्ठितपुरस्काराय चितौ
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रीयवार्ताः-ज्ञानपीठपुरस्कारम्- जगद्गुरु-रामभद्राचार्यः, प्रख्यातः उर्दू कविः गीतकारः गुलजारः च अस्य प्रतिष्ठितपुरस्काराय चितौ
राष्ट्रीयवार्ताः

राष्ट्रीयवार्ताः-ज्ञानपीठपुरस्कारम्- जगद्गुरु-रामभद्राचार्यः, प्रख्यातः उर्दू कविः गीतकारः गुलजारः च अस्य प्रतिष्ठितपुरस्काराय चितौ

डॉ.अमनदीप शर्मा
Last updated: 2025/05/17 at 7:06 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

राष्ट्रीयवार्ताः-ज्ञानपीठपुरस्कारम्- जगद्गुरु-रामभद्राचार्यः, प्रख्यातः उर्दू कविः गीतकारः गुलजारः च अस्य प्रतिष्ठितपुरस्काराय चितौ
हिमसंस्कृतवार्ता: – राष्ट्रपतिः द्रौपदीमुर्मूः संस्कृत-विदुषे जगद्गुरु-रामभद्राचार्याय त्रयोविंशत्यधिक-द्वि-सहस्र-तम-वर्षस्य कृते नवदेहल्याम् अष्टपञ्चाशत्तमं ज्ञानपीठपुरस्कारं प्रदत्तवती। जगद्गुरु-रामभद्राचार्यः प्रख्यातः उर्दू कविः गीतकारः गुलजारः च अस्य प्रतिष्ठितपुरस्काराय चितौ स्तः। साहित्यक्षेत्रे उत्कृष्टयोगदानाय प्रख्यात-जनाः अस्मिन् पुरस्कारेण सम्मानिताः सन्ति। अस्मिन् अवसरे प्रवदन् राष्ट्रपतिः उभयोः अभिनन्दनं कृतवती ।

भारतेन अन्ताराष्ट्रिय-मुद्राकोषाय उक्तं यत् सः पाकिस्तानाय दीयमानायाः वित्तीय-सहायतायाः विषये पुनर्विचारं कुर्यात्
हिमसंस्कृतवार्ता: – भारतेन उक्तं यत् अन्ताराष्ट्रिय-मुद्राकोषेन पाकिस्तानाय दीयमानायाः वित्तीय-सहायतायाः विषये पुनर्विचारः करणीयः। गुजरातस्य भुज-स्थले वायुसेना-स्थानके सैनिकान् सम्बोधयन् रक्षा-मन्त्री राजनाथ सिंहः अवोचत् यत् अस्याः वित्तीय सहायतायाः बृहत्-भागः पाकिस्तानेन आतङ्कवादस्य संरचनायां प्रयोक्ष्यते। अधुना पाकिस्तानाय कीदृशी अपि आर्थिक-सहायता प्रदानस्य अर्थः आतङ्कवादि-गतिविधिभ्यः धनोपलब्धता वर्तते। रक्षामन्त्री राजनाथसिंहः सिन्दूराभियाने भारतीय वायुसेनायाः त्वरित-निर्णायक-कार्याचरणस्य प्रशंसा-कुर्वन् अवदत् यत् अनेन देश-विदेशे च समेपि भारतीयाः गौरवान्विताः। वायुसेनायै पाकिस्ताने स्थितातङ्ङ्क-संरचनायाः समाप्तये केवलं त्रयोविंशतिः निमेषाः एव पर्याप्ताः आसन्। रक्षामन्त्री अवोचत् यत् अनेन अभियानेन आतङ्कवादं विरूध्य कठोर-सन्देशः प्रदत्तः अथ च भारतस्य सैन्य-शक्तिः सन्नद्धता च प्रदर्शिता। अपि च सिन्दूराभियाने भारतीय-सेनया न केवलं शत्रुषु स्वस्य वर्चस्वं स्थापितम् अपितु शत्रूणां नाशः अपि विहितः।

देशस्य शीर्ष-प्रमुख-वाणिज्य-समवायाः तुर्की-अजरबैजान-देशयोः सह यात्रा-पर्यटनं च समेत्य सर्वविधव्यापार-बहिष्कारस्य निर्णयं कृतवन्तः।
हिमसंस्कृतवार्ता: – देशस्य पञ्चविंशत्यधिकैक-शततोप्यधिकाः शीर्ष-प्रमुखा: वाणिज्य-नेतारः तुर्की-अजरबैजान-देशयोः सह यात्रां पर्यटनं च समेत्य सर्वविधव्यापार-बहिष्कारस्य निर्णयं कृतवन्तः। नवदेहल्याम् अखिल-भारतीय-व्यापार-परिसङ्घेन आहूते राष्ट्रिय-व्यापारनेतृ-सम्मेलने एषः निर्णयः स्वीकृतः। एकस्मिन् वक्तव्ये सी.ए.आई.टी इत्यनेन उक्तं यत्, यदा भारतं संवेदनशीलं गम्भीरं च राष्ट्रिय-सुरक्षास्थितिं सम्मुखीकरोति स्म तस्मिन् समये तुर्की-अजरबैजान देशाभ्यां पाकिस्तानस्य पूर्णसमर्थनं कृतम्। सद्यः एव कृतस्य वृत्तेः प्रतिक्रियारूपेण एषः संकल्पः स्वीकृतः। तत्र उक्तं यत्, भारतीय-व्यापार-समुदायः एतत् विश्वासघातरूपेण पश्यति, विशेषतः पूर्व संकटस्थितौ भारतेन द्वयोः देशयोः कृते मानवीयं कूटनीतिकं च समर्थनं प्रदत्तम्। सभां सम्बोधयन् C.A.I.T इत्यस्य महासचिवः संसद सदस्यः च प्रवीणखण्डेलवालः अवदत् यत् दुर्भाग्यं यत् भारतस्य सद्भावनायाः, सहायतायाः, सामरिक-समर्थनस्य च लाभं प्राप्तवन्तौ तुर्की-अजरबैजान-देशौ अधुना पाकिस्तानस्य साहाय्यं कृतवन्तौ । सः अवदत् यत् तयोः स्थितिः न केवलं भारतस्य सार्वभौमत्वं राष्ट्रहितं च आहतं करोति अपितु चत्वारिंशदधिकैक-शतकोटि-भारतीयानां भावनानां प्रत्यक्षतया अपमानं करोति ।

निर्वाचनायुक्तः डॉ. विवेक-जोशी आगामि-बिहार-विधानसभा निर्वाचनानां सज्जतां समीक्षितुं बिहारे गतवान्
हिमसंस्कृतवार्ता: – निर्वाचनायुक्तः डॉक्टर विवेक-जोशी आगामि-बिहार-विधानसभा निर्वाचनानां सज्जतां समीक्षितुं चतुर्दिवसीय बिहारयात्रायां प्रतिष्ठितः। निज यात्रावधौ असौ व्यवस्थां मतदातृभ्यः सौविध्यान् सुरक्षा स्थितिं च ज्ञास्यति। सममेव असौ ई.वी.एम. यन्त्राणां प्रथमस्तरीय-निरीक्षणम् अपि अवलोकयिष्यति।

सिक्किमराज्यदिवसे शुभकामनाः प्रदत्तवन्तौ राष्ट्रपतिः प्रधानमन्त्री च
हिमसंस्कृतवार्ता: – सिक्किम-स्थापना दिवसे राष्ट्रपतिः द्रौपदी मुर्मुः प्रधानमन्त्री नरेन्द्र मोदी च सिक्किमस्य जनान् तेषां राज्य-दिवसावसरे शुभकामनाः प्रदत्तवन्तौ। सामाजिक सञ्चार-पटले राष्ट्रपतिना मुर्मुवर्यया उक्तं यत् सिक्किमः स्वस्य असीम-प्राकृतिक सुन्दरतायै समृद्ध-सांस्कृतिक-रिक्थाय जनानाम् उत्साहाय च व्यापक-रूपेण प्रशंसितो वर्तते। राष्ट्रपतिनोक्तं यत् राज्येन भारतस्य सर्वाधिक पर्यावरणं प्रति जागरूक-राज्यरूपेण प्रकृत्या सह सामंजस्यपूर्ण सह-अस्तित्वं प्रदर्शयिता सतत विकासस्य उल्लेखनीयोदाहरणानि स्थापितानि। प्रधाननमन्त्री नरेन्द्रमोदी अवोचत् यत् सिक्किमः शांत-सुंदरता-समृद्ध सांस्कृतिक-परम्पराणाम् अथ परिश्रमी जनैः सम्बद्धः अस्ति। सामाजिक संचार-पटले श्रीमोदी अवोचत् यत् राज्येन विविधक्षेत्रेषु प्रगतिः कृता। तेन इदमपि उक्तं यत् अयम् अवसरः इतोऽपि विशिष्टः अस्ति यतोहि सिक्किमस्य स्थापनायाः पञ्चाशत्-तमः वर्षः अस्ति। प्रधानमन्त्रिणा राज्यस्य नागरिकाणां समृद्धेः कामना कृता ।

समेकित-गुप्तसूचनाप्रसारयितुं नूतनस्य बहुविभागीयकेन्द्रस्य उद्घाटनम् अकरोत् गृहमन्त्री अमितशाह:
हिमसंस्कृतवार्ता: – केन्द्रीय-गृहमन्त्री अमितशाहः उक्तवान् यत् सिन्दूराभियानं प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृढ-राजनितिकेच्छायाः, गुप्तचर विभागानां समीचीनसूचनायाः, अस्माकं त्रयाणां सैन्यबलानाम् अचूक-प्रहारक्षमतायाः च अद्वितीयं प्रतीकम् अस्ति। ध्यातव्यं वर्त्तते यत् राजधान्यां नवदेहल्यां समेकित-गुप्तसूचनाप्रसारयितुं नूतनस्य बहुविभागीयकेन्द्रस्य उद्घाटनानन्तरम् एतत् अवदत् गृहमन्त्री।

सिन्दूर-कार्यक्रमः सर्वकारस्य दृढराजनैतिकइच्छायाः, त्रयाणां सेनानां अचूक-अग्निशक्तेः च अद्वितीयं प्रतीकम्-अमितशाहः
केन्द्रीयगृहमन्त्री अमितशाहः उक्तवान् यत् सिन्दूर-कार्यक्रमः सर्वकारस्य दृढराजनैतिकइच्छायाः, त्रयाणां सेनानां अचूक-अग्निशक्तेः च अद्वितीयं प्रतीकम् अस्ति। अत्र उत्तरखण्डे नूतनस्य बहु एजेन्सीकेन्द्रस्य उद्घाटनं कुर्वन् शुक्रवासरे शाहमहोदयेन एतत् उक्तम्। गृहमन्त्री ऑपरेशन सिन्दूरस्य कृते सशस्त्रसेनानां प्रशंसाम् अकरोत् तथा च उक्तवान् यत् एतत् अभियानं सर्वकारस्य राजनैतिकइच्छायाः, गुप्तचरसंस्थानां समीचीनसूचनायाः, त्रयाणां बलानां अचूकप्रहारशक्तेः च अद्वितीयं प्रतीकम् अस्ति। बहु एजेन्सी केन्द्रं देशे आन्तरिकसुरक्षां सुदृढं कर्तुं महत्त्वपूर्णं सोपानं मन्यते। अस्मिन् केन्द्रे देशे सर्वत्र गुप्तचरब्यूरो, शोधविश्लेषणविभागः, पुलिसगुप्तचरविभागः, अर्धसैनिकबलानाम् गुप्तचर-एककाः च परस्परं समन्वयेन कार्यं करिष्यन्ति। उल्लेखनीयं यत् भारतीयसशस्त्रसेनाभिः मेमासस्य ६ दिनाङ्के रात्रौ सिन्दूर-कार्यक्रमः आरब्धः आसीत्, पाकिस्ताने पाकिस्तान-कब्जित-कश्मीरे च नव आतङ्कवादीनां निगूढस्थानानि नष्टानि आसन् अस्मिन् कार्ये १०० तः अधिकाः पाकिस्तानी आतङ्कवादिनः मारिताः ।

You Might Also Like

कनाडा-देशस्य प्रधानमंत्री मार्ककार्नी-महोदयस्य भारतयात्रा

राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकस्य डॉ. मोहनरावभागवतस्य संबोधनम्

इज़राइल-संसदि प्रधानमंत्री-मोदिनं ‘स्पीकर ऑफ द नेसेट मेडल’ इति पुरस्कारेण सम्मानम्

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article प्रार्थनासभायां वाचनार्थं प्रमुखवार्ता:
Next Article अजय देवगनस्य ‘धमाल ४’ इत्यस्य प्रसारणतिथ्या: घोषणा जाता, चलच्चित्रम् ईद-दिवसे प्रसारितं भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?