By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News सिन्दूराभियानानन्तरं पञ्जाबप्रान्तस्य आदमपुरवायुसेनास्थानकं प्राप्तवान् प्रधानमन्त्री मोदी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > National News सिन्दूराभियानानन्तरं पञ्जाबप्रान्तस्य आदमपुरवायुसेनास्थानकं प्राप्तवान् प्रधानमन्त्री मोदी
राष्ट्रीयवार्ताः

National News सिन्दूराभियानानन्तरं पञ्जाबप्रान्तस्य आदमपुरवायुसेनास्थानकं प्राप्तवान् प्रधानमन्त्री मोदी

डॉ.अमनदीप शर्मा
Last updated: 2025/05/14 at 7:14 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
4 Min Read
SHARE

सिन्दूराभियानानन्तरं पञ्जाबप्रान्तस्य आदमपुरवायुसेनास्थानकं प्राप्तवान् प्रधानमन्त्री मोदी
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी एकं दृढं सन्देशं प्रदत्तवान् यत् पाकिस्ताने एतादृशं एकमपि स्थानं न अवशिष्टं यत्र आतङिकनः शान्त्या श्वासमपि ग्रहीतुं शक्नुयुः । भारतम् आतङ्ककेन्द्राणि सटीकतया नष्टीकर्तुं पूर्णतया समर्थम् अस्ति। प्रधानमन्त्री अमुं सन्देशं पञ्जाबप्रान्तस्य आदमपुरवायुसेनास्थानके वीरसैनिकैः सह संवादावधौ प्रदत्तवान्। तेन सैन्यस्य साहसं सिन्दूराभियानावधौ देशरक्षार्थं भूरिशः प्रशंसितम्। सिन्दूरभियानस्य साफल्यविषये श्रीमोदी उक्तवान् यत् अस्य अभियानस्य अन्तर्गतं न केवलम् आतङ्ककेन्द्राणि नष्टीकृतानि अपितु शताधिकाः आत‌ङ्किङ्कनः अपि निहताः । प्रधानमन्त्रिणा उक्तं यत् प्रत्येकं सैनिकस्य केवलं ‘भारत माता की जय’ इति जयघोषमेव संकल्पः अस्ति यः हि देशाय आत्मबलिदानं कर्तुं सर्वथा सिद्धः तिष्ठति। तेनोक्तं यत् एषः प्रत्येक नागरिकस्य स्वरः यः हि स्वदेशार्थमेव जीवितुम् इच्छति तथा च किमपि कर्तुं वाञ्छति। भारतस्य आयुधः स्वलक्ष्याणां विभेदनं सटीकतया केवलं पञ्चविंशनिमेषाभ्यन्तरे एव कृतम्।

भारतस्य पश्चिमसीम्नः सुरक्षास्थितेः समीक्षां कृतवान् रक्षामन्त्री राजनाथसिंह:
हिमसंस्कृतवार्ता: – रक्षामन्त्री राजनाथसिंहः नवदेहल्याम् एकस्मिन् उच्चस्तरीये उपवेशने भारतस्य पश्चिमसीम्नः सुरक्षास्थितेः समीक्षां कृतवान् । उपवेशने अस्मिन् रक्षाप्रमुखः श्री-अनिलचौहानः नौसैन्यप्रमुखः एड्मिरल् दिनेशके त्रिपाठी सैन्यप्रमुखः उपेन्द्रद्विवेदी तथा च वायुसैन्योपप्रमुखः एयर् मार्शल् नर्मदेश्वरतिवारी च सहभागितां कृतवन्तः ।

शोपिया-जनपदस्य शुकरू-केलर-वनक्षेत्रे सुरक्षाबलैः त्रयः आतङ्किनः मारिता: ।
हिमसंस्कृतवार्ता: – जम्मू-कश्मीरस्य शोपिया-जनपदस्य शुकरू-केलर-वनक्षेत्रे सुरक्षाबलैः सह जाते संघर्षे त्रयो आतंकिनः मारिता: । कश्मीरजनपदस्य आरक्षिमहानिदेशकः वी. के. बिरदी इत्यसौ अकथयत् यत् मारिताः त्रयः आतंकिनः सम्भवतः लश्कर-ए-तैयबा इत्यातंकिगुल्मस्य द-रेजिस्टेंस-फ्रंट-संघटनस्य च सदस्याः आसन् । मृतानाम् आतंकिनाम् अभिज्ञानाय प्रयासः क्रियते । इतः पूर्वं सुरक्षाबलैः आतंकिनाम् अन्वेषणाय क्षेत्रे अन्वेषणाभियानं प्रचालितम् । अभियानावधौ च, आतंकवादिभिः भीषणगोलिकाप्रहारः विहितः यस्य प्रत्युत्तरे त्रयो आतंकिनः मारिताः सन्ति।

पंजाबस्य अमृतसरजनपदे विकृतमदिरायाः सेवनेन एकविंशति-जनाः मृत्युमुपगताः
हिमसंस्कृतवार्ता: – पंजाबस्य अमृतसरजनपदे मजीथा-क्षेत्रे कथितरूपेण विकृतमदिरायाः सेवनेन एकविंशतिजनाः मृत्युमुपगताः षट् जनाः च चिकित्सालये उपचाररताः सन्ति । मुख्यमन्त्री भगवन्तमानः पीडितानां परिवारान् अमिलत् आश्वासनं च प्रायच्छत् यत् घटनायै उत्तरदायिनः आरोपिणः अवश्यमेव दण्ड्यन्ते । अस्मिन् घटनाप्रकरणे द्वौ अधिकारिणौ, एकः आरक्ष्युपाधीक्षकः, आरक्षिकेन्द्राधिकारी च निलम्बिताः अभवन् । अमृतसरजनपदस्य उपायुक्ता साक्षीसाहनी इत्येषा अकथयत् यत् एषा घटना दुर्भाग्यपूर्णा वर्तते। तया आश्वासितं यत् सर्वकारेण यथासंभवं सहाय्यप्रदानं क्रियते। सा उक्तवती यत् आरोपिणः आपूर्तिकर्तारः निगडिताः सन्ति, अस्याः घटनायाः अन्वीक्षणं च प्रवर्तते ।

केंद्रीय-माध्यमिक शिक्षणसंस्थानेन दशमकक्षायाः द्वादशकक्षायाः च परीक्षापरिणामः समुद्धोषितः
हिमसंस्कृतवार्ता: – केंद्रीय-माध्यमिक शिक्षणसंस्थानेन दशमकक्षायाः द्वादशकक्षायाः च परीक्षापरिणामः समुद्धोषितः अस्ति। द्वादशकक्षायाम् अस्मिन् वर्षे चतुर्नवत्युत्तर-सप्तशताधिक-द्विनवतिसहस्रोत्तर-षोडशलक्ष-छात्राः परीक्षायै उपस्थिताः आसन्। एतेषु अष्टाशीति-दशमलव-नवत्रिंशत्प्रतिशतं छात्राः समुत्तीर्णाः अभवन्, येन विगतवर्षस्य तुलनायां शून्य दशमलव-एकचत्वारिंशत्प्रतिशतम् अंकानां वृद्धिः द्योतते । छात्रैः तुल्यं छात्राभिः उत्तमप्रदर्शनं विहितमस्ति यासु एकनवतिप्रतिशततः अधिकाः छात्राः उत्तीर्णाः अभवन् । केंद्रीय-माध्यमिक शिक्षणसंस्थानस्य परीक्षानियंत्रकः संयमभारद्वाजः अकथयत् यत् अस्य वर्षस्य द्वादशकक्षायाः परीक्षायां शतप्रतिशतं किन्नर-छात्राः उत्तीर्णाः अभवन् । एतदतिरिक्तं दशमकक्षायाः परीक्षायां नवत्रिंशदधिक-नशतोत्तरैकसप्ततिसहस्राधिक-त्रयोविंशतिलक्षं छात्राः उपस्थिताः आसन् । एतेषु त्रिनवत्यधिक दशमलव-षट्षष्टि-प्रतिशतं छात्राः उत्तीर्णाः अभवन् । अस्यां परीक्षायामपि छात्राभिः सर्वाधिकाः पञ्चनवति-प्रतिशतम् अङ्काः सम्प्राप्ताः। प्रधानमन्त्री नरेन्द्रमोदी दशम-द्वादश-कक्षयोः समुत्तीर्णेभ्यः छात्रेभ्यः वर्धापनं प्रायच्छत् ।

विमानसेवासमवायद्वारा वायुसेवानिरस्तीकरणं कृतम्
हिमसंस्कृतवार्ता: – एयर् इण्डिया द्वारा उक्तं यत् वर्तमानपरिस्थितिम् अभिलक्ष्य तथा च यात्रिणां सुरक्षां मनसि निध्याय जम्मू-लेह-जोधपुर-अमृतसर-भुज-जामनगर-चण्डीगढ-राजकोटान् प्रति ततश्च सर्वाः विमानसेवाः स्थगिताः स्थास्यन्ति। एकस्मिन् सामाजिकतन्त्रसन्देशे विमानसेवासमवायद्वारा लिखितं यद् एषा परिस्थिति: सम्यक्तया निरीक्षयन् अस्ति यात्रिणः च यथासमयं सूचयिष्यति । इण्डिगोवायुसेवासमवायेनापि जम्मू-लेह-अमृतसर-चण्डीगढ़-राजकोटान् प्रति ततश्च सर्वाः निरस्तीकृताः । दिल्लीवायुयानस्थानके सेवासञ्चालनं सामान्यतया एव प्रचलिष्यति।

तिरङ्गायात्रा अभियानस्य प्रारम्भ:, इदम् अभियानं त्रयोविंशतिः दिनाङ्क यावत् प्रचलिष्यति।
हिमसंस्कृतवार्ता: – भारतीयसैन्यस्य ‘सिन्दूराभियानान्तर्गतम्’ पाकिस्तानं विरुध्य साफल्यस्य आराष्ट्रे प्रचारप्रसाराभ्यां एकादशदिवसात्मकम् अभियानं समारब्धम् । इदम् अभियानं तिरङ्गायात्रेति नाम्ना सर्वैः परिचेष्यते। सेवानिवृत्ताधिकारिणः सामाजिककार्यकर्तारः सामाजिकसंस्थाः तथा च भाजपादलस्य प्रमुखनेतारः अस्मिन् कार्यक्रमे सहभागितां करिष्यन्ति। एतदभियानं त्रयोविंशतिः दिनाङ्क यावत् प्रचलिष्यति।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

TAGGED: प्रधानमन्त्री मोदी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article Nuclear Power : परमाणु शक्ति: एकम् चिन्तनम् – डॉ मनोज शैल:।
Next Article अरुणाचलप्रदेशे संस्कृतस्य उत्थानम् रोनो हिल्स: – अरुणाचलप्रदेशस्य राजीव-गान्धी – विश्वविद्यालये “संस्कृतं संस्कृतिश्च: पारम्परिकभारतीयज्ञानपरम्परायां ज्ञानभण्डारस्य उत्खननम्” इति द्विदिवसीयसंस्कृतोन्मुखीकरणकार्यशाला सुसम्पन्ना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?