अरुणाचलप्रदेशे संस्कृतस्य उत्थानम् रोनो हिल्स: – अरुणाचलप्रदेशस्य राजीव-गान्धी – विश्वविद्यालये “संस्कृतं संस्कृतिश्च: पारम्परिकभारतीयज्ञानपरम्परायां ज्ञानभण्डारस्य उत्खननम्” इति द्विदिवसीयसंस्कृतोन्मुखीकरणकार्यशाला सुसम्पन्ना
वार्ताहर: – शिवमत्रिपाठी
एषा कार्यशाला अरुणाचलप्रदेशस्य राजीव-गान्धी – विश्वविद्यालये राजीव-गान्धी-विश्वविद्यालयस्य दूरस्थ-एवम्-ऑनलाइन-शिक्षा-केन्द्रं तथा च केन्द्रीय-संस्कृत-विश्वविद्यालयस्य संस्कृताध्ययनकेन्द्रम् इत्यनयोः द्वयोः संयुक्त-तत्वावधानेन आयोजिता।
अस्यां कार्यशालायां मुख्यातिथि-रूपेण अरूणाचलविधनासभाया: मान्यमान्याः श्रीतेसाम् पोङ्क्ते वर्याः, मुख्यवक्ता-रूपेण कुमार-भास्कर-वर्मा – संस्कृतपुरतानाध्ययन-विश्वविद्यालयस्य मान्याः कुलपतयः प्रो.प्रह्लाद राजोशीवर्याः आसन।अस्याम् कार्यशालायाम् राजीव-गान्धी-विश्वविद्यालयस्य कुलपतयः प्रो.एस.के. नायकवर्याः , कुलसचिवः डॉ. एन.टि.रिकाम् वर्याः,राजीव-गान्धी-विश्वविद्यालयस्य दूरस्थ-एवम्-ऑनलाइन-शिक्षा-केन्द्रस्य निदेशकाः प्रो.आशानरिड्डीवर्याः
विश्वविद्यालयस्य वित्ताधिकारी प्रो.ओतम् पादूङ्गवर्याः,अन्ये विभागाध्यक्षाः, शिक्षकाः, शोधच्छात्राः , छात्राः च उपस्थिताः आसन्।
इयं कार्यशाला द्विस्तरीयछात्रान् कौशलविकास सम्बर्द्धनाय असीत्। प्रथमे दिवसे विश्वविद्यालय- महाविद्यालय स्तरीयछात्रेषु एवं द्वितीये दिवसे विद्यालयस्तरीय छात्रेषु संस्कृतभाषापरिचयार्थम् आसीत् ।अनेन छात्राणां कौशलविकासार्थं अनेका: संस्कृतगतिविधयः च कारिता:।
प्रथमे दिवसे विश्वविद्यालयस्य छात्राः तु आसन् एव निर्जूलीस्थ विवेकानन्द- केन्द्र – शिक्षकप्रशिक्षणमहाविद्यालयस्य छात्राः अपि भागग्रहणं कृतवन्तः। एवञ्च द्वितीये दिवसे ओजु मिशन विद्यालयस्य छात्राणामपि संस्कृतभाषापरिचयः संस्कृतगतिविधयः च कारितवान। अस्यां कार्यशालायां छात्राणां मार्गदर्शक-रूपेण आसन् राजीव-गान्धी-विश्वविद्यालयस्थ संस्कृताध्ययनकेन्द्रस्य केन्द्रशिक्षिका टिङ्कुदेवी , एवं तेजपुरस्थ दरङ्गमहाविद्यालयस्य संस्कृतविभागस्य सहायकाचार्यः
श्रीनीलकमलपण्डितः,कुमार-भास्कर-वर्मा – संस्कृतपुरतानाध्यायन -विश्वविद्यालयस्य शोधच्छात्रा सुश्रीऋतुपर्णाशर्मा,कुमार-भास्कर-वर्मा – संस्कृतपुरतानाध्यायन-विश्वविद्यालयस्य शोधच्छात्रा सुश्रीनीतादेवी च आसन्न। अस्यां कार्यशालायां प्रमुख उद्देश्यं आसीत् यत्। छात्राणां अंशत्वेन संस्कृतं प्रति जनानां रुचिवर्धनाय संस्कृतप्रदर्शनी अपि आसीत्। इयं कार्यशाला भव्यरूपेण आयोजिता। सम्पूर्णे अरुणाचलप्रदेशे संस्कृतविषयिनी प्रथमा कार्यशाला सकुशलसुसम्पनम् अभवत् ।