देशे खाद्यान्नस्य पर्याप्तं भण्डारमस्ति-केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः
हिमसंस्कृतवार्ताः। देशस्य केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः एकस्मिन् सन्देशे उक्तवान् यत् देशे पर्याप्तखाद्यान्नभण्डारः वर्तते, येन देशस्य जनैः चिन्ता न करणीया, तेनोक्तं यत् पञ्जाबजम्मूसदृशेभ्यः राज्येभ्यः यदि जनाः युद्धकारणात् पलायनं कुर्वन्ति, तर्हि तेषां सहयोगं समस्तदेशस्य दायित्वमस्ति। तेन स्पष्टीकृतं यत् पञ्चायतीराजविभागः अपि अस्यां दिशि कार्यं कुर्वन्नस्ति। जनाः यत्रकुत्रापि शरणं प्राप्तुं शक्नुवन्ति, तेषां कृते दैनिकवृत्तेः अवसराः पञ्चायतीविभागः परिकल्पयिष्यति।
देशे गैसस्य तैलस्य च पर्याप्तं भण्डारमस्ति- ओ.एन.जी.सी
भारतस्य ओएनजीसी इति संस्थय़ा स्पष्टं कृतं यत् देशे गैसस्य तैलस्य च पर्याप्तं भण्डारमस्ति, अतः जनाः सामाजिकपटलेषु प्रसरितानां दुष्प्रचारस्य सन्देशानां चिन्तां मा कुर्युः।
ए.टी.एम यन्त्राणि सम्यकतया चलन्ति
सर्वकारेणोक्तं यत् सञ्चारपटलेषु भ्रामकसन्देशानां प्रसारं जायमानमस्ति यत् धनग्रहणस्य ए.टी.एम यन्त्राणि न चलिष्यन्ति, अतः एतादृशानां सन्देशानां विश्वासः नैव कर्तव्यः,. देशे सर्वत्र ए.टी.एम यन्त्राणि नैरन्तर्येण कार्यावस्थायां सन्ति।
देशे खाद्यान्नस्य पर्याप्तं भण्डारमस्ति-केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
