By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: केन्द्रीयगृहमन्त्री अमितशाहेन सबलं प्रोक्तं यत् जनैः संस्कृतभाषाध्ययनं अभ्यासश्व करणीयः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > केन्द्रीयगृहमन्त्री अमितशाहेन सबलं प्रोक्तं यत् जनैः संस्कृतभाषाध्ययनं अभ्यासश्व करणीयः
संस्कृतगतिविधयः

केन्द्रीयगृहमन्त्री अमितशाहेन सबलं प्रोक्तं यत् जनैः संस्कृतभाषाध्ययनं अभ्यासश्व करणीयः

डॉ.अमनदीप शर्मा
Last updated: 2025/05/05 at 6:39 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
5 Min Read
SHARE

केन्द्रीयगृहमन्त्री अमितशाहेन सबलं प्रोक्तं यत् जनैः संस्कृतभाषाध्ययनं अभ्यासश्व करणीयः यतोहि भारतस्य सर्वमपि ज्ञानं संस्कृतभाषायामेव निहितं वर्तते।
हिमसंस्कृतवार्ता: – केन्द्रीयगृहमन्त्री अमितशाहेन प्रोक्तं यत् जनैः संस्कृतभाषाध्ययनं अभ्यासश्व करणीयः यतोहि भारतस्य सर्वमपि ज्ञानं संस्कृतभाषायामेव निहितं वर्तते। सः अवदत् यत् संस्कृतभाषा जगतः समाह्वानानां समाधानाय मार्गदर्शनं कर्तुं शक्नोति । गृहमन्त्री नवदेहल्यां संस्कृतभारत्या आयोजितानाम् अष्टोत्तरैकसहस्र-संस्कृतसम्भाषणशिबिराणां समापनकार्यक्रमं सम्बोधयन् एवम् उक्तवान्। संस्कृतभाषायाः महत्त्वं बोधयन् श्रीशाहः अवदत् यत् संस्कृतभाषा अधिकांशभाषाणां जननी अस्ति। सः अवदत् यत् देशे संस्कृतस्य प्रचारार्थ सर्वकारः कार्यं कुर्वन् अस्ति। अवधेयं वर्त्तते यत् संस्कृतभारत्या अप्रैलमासस्य त्रयोविंशतिः दिना‌ङ्कादाराभ्य मईमासस्य तृतीय-दिनाङ्कपर्यन्तं राष्ट्रियराजधान्याम् अष्टोत्तरैकसहस्र-संस्कृतसम्भाषणशिबिराणां आयोजनं विहितम्। एतेषु शिबिरेषु पञ्चविंशतिसहस्रजनाः भागं गृहीत्वा संस्कृतभाषां अधितवन्तः। अस्मिन् कार्यक्रमे देहल्या: मुख्यमन्त्री रेखा गुप्ता, दिल्ली-भाजपाध्यक्षः वीरेन्द्र सचदेवा, दिल्ली-विश्वविद्यालयस्य कुलपतिः प्रो. योगेशसिंहः, संस्कृतभारत्याः गणमान्यजनाः च उपस्थिताः आसन् ।

कृषिमन्त्री शिवराजसिंहचौहानः द्वयोः तण्डुल-प्रकारयोः विमोचनं कृतवान्।
हिमसंस्कृतवार्ता: – कृषिमन्त्री शिवराजसिंहचौहानः नवदेहल्यां भारतस्य द्वयोः जीनोम सम्पादितयोः तण्डुल-प्रकारयोः विमोचनं कृतवान्। आयोजनं सम्बोधयन् मन्त्री अवदत् तत् अद्य भारतस्य कृते ऐतिहासिकः दिवसः अस्ति। एतयोः प्रकारयोः उत्पादनव्ययः न्यूनी भविष्यति, देशे तण्डुलानां उत्पादनं च वर्धयिष्यते ।

भारत-अंगोलादेशौ द्विपक्षीय-सम्बन्धानां संवर्द्धनार्थं प्रतिबद्धौ स्तः – अंगोलादेशस्य राष्ट्रपतिः ।
हिमसंस्कृतवार्ता: – अंगोलायाः राष्ट्रपतिः जोआओ मैनुअल गोंकाल्वेस लौरेंको इत्यमुना प्रोक्तं यत् भारत-अंगोलादेशौ द्विपक्षीय-सम्बन्धानां संवर्द्धनार्थं प्रतिबद्धौ स्तः । नवदेहल्यां भारत-अंगोला-व्यापार-मञ्चोपरि तेन प्रोक्तं यत् भारतस्य सामान्यौषधीषु विशेषज्ञता वर्तते। उपस्थित-जनसमूहं सम्बोधयन् केन्द्रीय-विदेश-राज्यमन्त्री कीर्ति-वर्धन-सिंहः प्रोक्तवान् यत् भारत-अंगोलादेशयोः द्विपक्षीय-सम्बन्धः जीवन्तोर्जा क्षेत्रे आधारितः वर्तते।

रक्षानुसन्धान-विकाससङ्गठनेन समतापमण्डलीय-वायुयानपद्धत्याः प्रथमोड्डयन-परीक्षणं साफल्यपूर्वकं समाचरितम्।
हिमसंस्कृतवार्ता: – रक्षानुसन्धान-विकाससङ्गठनेन (डीआरडीओ) इत्यनेन मध्यप्रदेशस्य श्योपुर-परीक्षण-स्थलात् समतापमण्डलीय-वायुयानपद्धत्याः प्रथमोडुयन-परीक्षणं साफल्यपूर्वकं समाचरितम्। उत्तरप्रदेशस्य आगरायां एरियल-डिलीवरी-अनुसन्धान-विकास-प्रतिष्ठानेन निर्मितः अयं वायुपोतः सप्तदश-किलोमीटरमितं यावदौन्नत्ये इंस्ट्रूमेंटल-पेलोड इत्यस्य साहाय्येन प्रक्षिप्तः। रक्षामन्त्री राजनाथसिंहेन सफलोड्डयनार्थं डीआरडीओ-सङ्गठनाय शुभकामनाः प्रकल्पिताः। तेनोदीरितं यत् एषा प्रणाली भारतस्य भूम्यवलोकनस्य अन्वीक्षण-क्षमतायाश्व अद्वितीयरुपेण दृढीकरणं करिष्यति ।

प्रधानमन्त्री-वायुसेनाप्रमुखयो: मेलनम् ।
प्रधानमन्त्री नरेन्द्रमोदी वायुसेनाप्रमुखेन एयर चीफ मार्शल एपि-सिंहेन सह तस्य आवासे मिलितवान्। पहलगामे आतङ्क्याक्रमणात्परं भारतपाकिस्तानयोः सीम्नि अतिक्रमम् उद्दिश्य मेलनमिदं सुसम्पन्नम्।

पाकिस्तानदेशाय गुप्तसूचनाप्रदानार्थं अमृतसरे पञ्जाबारक्षिदलेन द्वौ आरोपिणौ निगृहितौ ।
हिमसंस्कृतवार्ता: – पहलगाम-आतङ्क्याक्रमणानन्तरं एकस्मिन् घटनाक्रमे पाकिस्तानदेशाय गुप्तसूचनाप्रदानार्थं अमृतसरे पञ्जाबारक्षिदलेन द्वौ आरोपिणौ निगृहितौ । तत्र पलक-शेर-मसीहः अपरः सूरज-मसीहः इत्येतौ आरोपिणौ वर्तेते । एतयोः उपरि आरोपः वर्तते यत्तौ अमृतसरे स्थितानां विमानपत्तनानां सैन्यप्रतिष्ठानानाञ्च संवेदनशील-सूचनां गुप्ततया प्रसारितवन्तौ । वरिष्ठारक्षिसूत्रानुसारं प्रारम्भिकान्वेषणे तयोः सम्बन्धः पाकिस्तानदेशस्य गुप्तचरैस्सह सम्प्राप्तः । अधिकारिणां अभिमतं वर्तते यत् अन्वेषणस्य अनवरतत्वात् इतोऽपि गूढरहस्यानाम् उद्घाटनं भवितुमर्हति ।

भारत-निर्वाचनायोगः शीघ्रमेव एकीकृत-प्राविधिक-मञ्चत्वेन ई-सी-आई-एन-ई-टी इत्येतस्य चलदूरभाषीय-तन्त्रांशस्य अनावरणं करिष्यति।
हिमसंस्कृतवार्ता: – निर्वाचनायोगः शीघ्रमेव एकीकृत प्राविधिक-मञ्चत्वेन ई-सी-आई-एन-ई-टी इत्येतस्य चलदूरभाषीय-तन्त्रांशस्य अनावरणं करिष्यति। अनेन निर्वाचनसम्बद्ध-गतिविधयः हितधारकाः एकस्मिन्नेव स्थाने प्राप्तुमर्हन्ति। आयोगेन एकस्मिन् वक्तव्ये कथितं यत् वन-स्टॉप प्लेटफ़ॉर्म, ई-सी-आई-नेट इत्येतत् निर्वाचनायोगस्य चत्त्वारिंशदधिकानां चलदूरभाषीय-तन्त्रांशानाम् एकीकरणं पुनर्संरचनञ्च करिष्यति। एतत् उपयोगकर्तानुकूलं प्राविधिक-फलकम् मतदातृभिस्सह निर्वाचनाधिकारिभ्यः, राजनैतिक दलेभ्यः, अन्येभ्यः हितधारकेभ्यश्च निर्मीयते। ई-सी-आई-नेट इत्यस्मिन् उपयोगकर्तारः आकर्षकं सरलञ्चानुभवं प्राप्स्यन्ति। अस्योद्देश्यं वर्तते यत् उपयोगकर्तृणां विविधानुप्रयोगानां संग्रहणभारं दूरीभवेत् ।

प्रथमस्य विश्व-दृश्य-श्रव्य-मनोरञ्जन-शिखर सम्मेलनस्य वेव्स् इत्यस्य समापनम् अभवत् ।
हिमसंस्कृतवार्ता: – प्रथमस्य विश्व-दृश्य-श्रव्य-मनोरञ्जन-शिखर सम्मेलनस्य वेव्स् इत्यस्य समापनम् अभवत् । चतुर्दिवसीयस्य आयोजनस्य अन्तिमदिने चलचित्रनिर्माणस्य कार्याशाला, सांस्कृतिककार्यक्रमाश्च च मुख्याकर्षणम् आसन् । अवधेयमस्ति यत् गुरुवासरे आरब्धस्यास्य आयोजनस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदिना विहितम्।

राष्ट्रिय-परीक्षणाभिकरणेन नीट्-परीक्षा आयोजिता ।
हिमसंस्कृतवार्ता: – राष्ट्रिय-परीक्षणाभिकरणेन गतदिवसे अशेष-देशे पञ्च-सहस्राधिकेषु केन्द्रेषु विदेशेषु त्रयोदशसु नगरेषु च पञ्चविंशत्यधिक-द्वि-सहस्रतमाब्दीया नीट्-यूजीति राष्ट्रिय-पात्रता-प्रवेश-परीक्षा आयोजिता। परीक्षायाः कृते द्वाविंशति दशमलव सप्तलक्षाधिकाः अभ्यर्थिनः पञ्जीकरणं कृतवन्तः। अभिकरणेन उक्तं यत् सुरक्षित-संरक्षित-परीक्षायोजनाय सर्वविधाः व्यवस्थाः प्रकल्पिताः आसन्।

प्रसिद्धयोगसाधकस्य स्वामी-शिवानन्द बाबावर्यस्य वाराणस्यां निधनम् ।
हिमसंस्कृतवार्ता: – पद्मश्री सम्मानेन सम्मानितस्य प्रसिद्धयोगसाधकस्य स्वामी-शिवानन्द बाबावर्यस्य वाराणस्यां निधनमभवत् । सः अष्टाविंशोत्तरैकशतवर्षीयः आसीत्। प्रधानमन्त्री नरेन्द्रमोदी, मुख्यमन्त्री योगी आदित्यनाथः च शिवानन्दबाबवर्यस्य देहावसाने शोकं प्रकटितवन्तौ। स्वसन्देशे श्रीमोदी अवदत् यत् योगाय आध्यात्मिकाभ्यासाय च समर्पितं तस्य जीवनं देशस्य प्रत्येकं जनं प्रेरयिष्यति।

उत्तराखण्डस्य चमोलीमण्डले बद्रीनाथधाम्नः पवित्रद्वारं पारम्परिकरीत्या समुद्घाटितम्।
हिमसंस्कृतवार्ता: – उत्तराखण्डस्य चमोलीमण्डले बद्रीनाथधाम्नः पवित्रद्वारं पारम्परिकरीत्या समुद्घाटितम्। अनेन सहैव उत्तराखण्डस्य चत्वारि अपि तीर्थस्थलानि केदारनाथ-गङ्गोत्री-यमुनोत्री-बद्रीनाथादयः तीर्थयात्रीणां कृते दर्शनार्थम् उद्घटितानि सन्ति । अत्रावसरे सैन्यसमूहस्य वाद्ययन्त्रैः सामञ्जस्यपूर्णध्वनिना मन्दिरपरिसरः “जय बद्री विशाल” इति ध्वनिना प्रतिध्वनितम् आसीत् । अस्मिन् अवसरे बहुसंख्यायां श्रद्धालवः पूजार्चनां कृतवन्तः। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी अपि बद्रीनाथधाग्नि प्रार्थनां कृतवान् । पश्चात् वार्ताहरैः सह प्रवदन् श्रीधामी अवदत् यत् भक्तानां सहजता, सुरक्षा, सुविधा च सुनिश्चित्य विस्तृतव्यवस्थाः कृताः सन्ति ।

पञ्चविंशत्यधिक – द्विसहस्र तमाब्दीया ‘खेलो इण्डिया’- युवक्रीडा बिहारस्य पटनायां पाटलिपुत्र-खेल-परिसरे समारब्धा।
हिमसंस्कृतवार्ता: – पञ्चविंशत्यधिक – द्विसहस्र तमाब्दीया ‘खेलो इण्डिया’ युवक्रीडा बिहारे पटनायां पाटलिपुत्र-खेल-परिसरे भव्यसमारोह-पूर्वकम् समारब्धा । मुख्यमन्त्री नीतीश कुमारः केन्द्रीयः खेलमन्त्री डॉ. मनसुख मांडविया च अस्य समारोहस्य उद्घाटनं कृतवन्तौ । प्रधानमन्त्रिणा नरेन्द्रमोदिना चलच्चित्र-सन्देश-माध्यमेन प्रतिभागिनः सम्बोधिताः। मई-मासस्य पञ्चदश-दिनाङ्क यावत् एताः स्पर्धाः प्रचलिष्यन्ति।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article विद्यालय–प्रार्थनासभायां वाचनार्थं पञ्चप्रमुखवार्ता: संस्कृतभाषायाम्।
Next Article इण्डियनआइडल १२ इत्यस्य विजेता गायक: पवनदीप: मार्गदुर्घटनायां व्रणित:। गम्भीरा स्थिति: 😳😢।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?