कुमारभास्करवर्मसंस्कृतपुरातनायनविश्वविद्यालये ‘शास्त्रमन्थनम्’ इत्यस्यान्तर्गतं सप्तमं व्याख्यानम् सफलतया सम्पन्नम्
हिमसंस्कृतवार्ता डॉ.निशिकान्तपाण्डेयःनमाटि,नलबारी, असमप्रदेशः। कुमारभास्करवर्मसंस्कृतपुरातनायनविश्वविद्यालयस्य सर्वदर्शनविभागेन आयोज्यमानायाः ‘शास्त्रमन्थनम्’ नामकस्य १०८-व्याख्यानमालायाः सप्तमं व्याख्यानम् अद्य आभासीयमाध्यमेन सुष्ठुतया सम्पन्नम्।अस्मिन् व्याख्याने भारतस्य विविधानप्रदेशेभ्यः आगतानां शास्त्रजिज्ञासूनां छात्राणां, शोधार्थिनां, अध्यापकानां च सक्रियं सहभागित्वं दृष्टम्।अस्मिन् सत्रे मुख्यवक्तृत्वं केन्द्रीयसंस्कृतविश्वविद्यालयस्य अगरतलापरिसरस्थः सहायकाचार्यः डॉ श्रीकरः जी. एन. अवहत्। अद्यतनीयस्य वेदान्तसारग्रन्थस्य अन्तिमे व्याख्याने अद्वैतवेदान्तदृष्ट्या जीवनमुक्तेः तत्त्वं सुस्पष्टं दार्शनिकरीत्या विवृण्वन्, श्रोतॄणां जिज्ञासां परिपूर्त्यै गूढार्थपूर्णं भाषणं दत्तम्।कार्यक्रमस्य अध्यक्षस्थानं विश्वविद्यालयस्य कुलपतयः आचार्यप्रह्लाद रा. जोशी महोदयाः समलङ्कृतवन्तः।एतेन सह सर्वदर्शनमन्थनपरिषदः अध्यक्षः श्री पुलक उपाध्यायः, सम्पादिका सुश्री जिमि डेका, प्रचारप्रमुखः श्री हरिप्रसन्न अधिकारी, विभागस्य अतिथ्यध्यापकः श्री लिराज काफ्ले, अतिथ्यध्यापिका सुश्री मयूरी काकती च प्रमुखतया उपस्थिताः आसन्।कार्यक्रमस्य आरम्भे संगीता राय इत्यनया छात्रया मङ्गलाचरणम् कृतम्। संचालनकार्यं विभागीयपूर्वच्छाया मधुरिमा शर्मा इत्यनया सम्यक् संपादितम्। धन्यवादवाक्यानि छात्रया डीम्पि शर्मा इत्यनया समर्पितानि। सत्रान्ते शान्तिमन्त्रपाठः सञ्चालिकया एव सम्पन्नः।अस्य व्याख्यानस्य साक्षिणि भूत्वा बहवः विद्वांसः उपस्थिताः, यथा – डॉ रणजीतकुमारतिवारी (सर्वदर्शनविभागाध्यक्षः), डॉ चम्पककलिता (मीमांसाविभागाध्यक्षः), श्री विवेकाचार्यः (पुराणइतिहासविभागाध्यक्षः), डॉ कमललोचनात्रेयः (साहित्यविभागे अध्यापकः), डॉ लोपामुद्रा गोस्वामी (सर्वदर्शनविभागे सहाध्यापिका) च।सत्रस्य समापनसन्ध्यायां जीवनमुक्तेः विषयकं परमपुरुषार्थावाप्तिसन्दर्भं प्रति छात्रैः समुपस्थापिताः जिज्ञासाः मुख्यवक्त्रा तात्त्विकदृष्ट्या विशदीकृताः। तेन वेदान्ततत्त्वानां गभीरं दार्शनिकमन्थनं सम्यगुपपन्नं कृतम्।एवं व्याख्यानमालायाः सप्तमं व्याख्यानम् शोधप्रियायाः विद्याविश्वस्य समृद्ध्यै महत्वपूर्णं पृष्ठं समारब्धम् इति वक्तुं युज्यते।
कुमारभास्करवर्मसंस्कृतविश्वविद्यालये ‘शास्त्रमन्थनम्’ इत्यस्यान्तर्गतं सप्तमं व्याख्यानम् सम्पन्नम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
