महाराजविक्रमादित्यस्य नवरत्नेषु अन्यतमस्य आचार्यवराहमिहिरस्य जन्मस्थानस्य कायथा इत्यस्य सांस्कृतिकभ्रमणं कृतम्
डॉ. दिनेश चौबे, उज्जयिनी (प्रेषक:)
उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य ज्योतिर्विज्ञानविभागस्य तत्त्वावधाने आचार्यवराहमिहिरजयन्ती
मुपलक्क्षे चैत्रशुक्लाष्टमी, एप्रिलमासस्य पञ्चतमे दिनाङ्के वराहमिहिरस्यजन्मस्थाने कपित्थक (कायथा) इत्यस्मिन् स्थले सांस्कृतिकभ्रमणस्य आयोजनं विश्वविद्यालयस्य माननीयस्य कुलगुरौ आचार्यविजयकुमारसीजीवर्यस्य मार्गदर्शने अभवत्। अस्मिन्नवसरे ज्योतिर्विज्ञानविभागाध्यक्ष: डॉ.शुभमशर्मा, ज्योतिषविभागाध्यक्ष: डॉ.उपेन्द्रभार्गव:, विभागीया: आचार्या: डॉ.पवनमिश्र:, डॉ.मृत्युंजयकुमारतिवारी, डॉ.अविनाशमिश्र:, डॉ.योगेशकुमार:, डॉ.खोकनपरमानिक:, छात्रा:,सामाजिकाश्च उपस्थिता: आसन्। कुलगुरु: आचार्यवराहमिहिरस्य कृतकार्याणाम् उल्लेखं कृत्वा आचार्यवराहमिहिरं ज्योतिषजगतः सूर्यः अवन्तिकाया: गौरव: च उक्तवान्। विभागप्रमुखाः अवदन् यत् आचार्यवराहमिहिरः सम्राट् महाराजविक्रमादित्यस्य नवरत्नेषु अन्यतमः सम्पूर्णे विश्वे च महान् ज्योतिर्विद् इति रूपेण प्रख्यातः आसीत् । आचार्यवराहमिहिर: भारतीयज्ञानपरम्परायाः प्रवर्तक: सम्पोषक: च आसीत्। आचार्येण नैका: ग्रन्थाः रचिताः तस्य कृतयः अद्यापि पठ्यन्ते। आचार्यस्य स्मरणं कृत्वा वयं तस्य कृतिभिः व्यक्तित्वेन च सर्वान् परिचियितुं तस्य जन्मस्थले एकत्रिताः अभवन् । तस्मै श्रद्धांजलिं च अर्पितवन्तः।