By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: वार्ताः- राष्ट्रपति: द्रौपदीमुर्मुः पुर्तगाल-स्लोवाकिया-देशयो: स्वयात्रायाः प्रथमे चरणे लिस्यननगरं सम्प्राप्ता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > वार्ताः- राष्ट्रपति: द्रौपदीमुर्मुः पुर्तगाल-स्लोवाकिया-देशयो: स्वयात्रायाः प्रथमे चरणे लिस्यननगरं सम्प्राप्ता
राष्ट्रीयवार्ताः

वार्ताः- राष्ट्रपति: द्रौपदीमुर्मुः पुर्तगाल-स्लोवाकिया-देशयो: स्वयात्रायाः प्रथमे चरणे लिस्यननगरं सम्प्राप्ता

डॉ.अमनदीप शर्मा
Last updated: 2025/04/08 at 7:17 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
4 Min Read
SHARE

राष्ट्रपति: द्रौपदीमुर्मुः पुर्तगाल-स्लोवाकिया-देशयो: स्वयात्रायाः प्रथमे चरणे लिस्यननगरं सम्प्राप्ता ।
हिमसंस्कृतवार्ता-
राष्ट्रपति: द्रौपदीमुर्मुः पुर्तगाल स्लोवाकिया-देशयो: स्वयात्रायाः प्रथमे चरणे लिस्यननगरं सम्प्राप्य पुर्तगालदेशीयेन स्वसमकक्षेण मार्सेलो-रेवेलो-डी-सूसा-इत्येतेन सह प्रतिनिधिमण्डलस्तरीयां वार्तां कृतवती। उपवेशनानन्तरं संयुक्तवार्ताहराणां सम्मेलने सा अवोचत् यत् भारत-पुर्तगालयोर्मध्ये ऐतिहासिकाः सम्बन्धाः सन्ति ये अधुना आधुनिकरूपेण बहुपक्षीयरुपेण विकसिताः क्रियन्ते । राष्ट्रपतिवर्यया प्रोक्तं यत् तया स्वकीयेन पुर्तगालीय समकक्षेन सह द्विपक्षीयसम्बन्धानां विविधक्षेत्रेषु व्यापकी रचनात्मकी च चर्चा कृता अस्ति ।

गृहमन्त्री अमितशाहः जम्मू-कश्मीरस्य कठुआ-नगरे सीमा सुरक्षा-दलस्य सैनिकान् सम्वोधितवान् ।
हिमसंस्कृतवार्ता-
केन्द्रीय-गृह-मन्त्री अमितशाहः अवदत् यत्, सीमा सुरक्षाम् अधिकं सुदृढं कर्तुं सर्वकारः विद्युन्मान-निरीक्षण-व्यवस्थां प्रवर्तयति। गृहमन्त्री जम्मू-कश्मीरस्य कठुआ-नगरे सीमा सुरक्षा-दलस्य सैनिकान् सम्वोधयन् आसीत्। सः अवदत् यत्, भूमिगत-सीमापारस्य सुर‌ङ्गानाम् अन्वेषणार्थं प्रौद्योगिक्याः उपयोगः भविष्यति । गृहमंत्री कठुआ-जनपदस्य उपरक्षणस्थानम् अपि अवलोकितवान्। पश्चात्दिने, श्रीशाहः तथा च जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हाः च राजभवने आतंकप्रहारेषु वीरगतिं प्राप्तवतां एकादश संख्यकानां सैनिकानां परिवारान् मिलितवन्तौ ।

स्वास्थ्यस्य स्वास्थ्य-व्यवहारस्य च विषये जागरूकतां वर्धयितुं गतदिवसे सम्पूर्ण विश्वे विश्व-स्वास्थ्य-दिवसः हर्षोल्लासेन मानित:
हिमसंस्कृतवार्ता: – विश्व-स्वास्थ्य-दिवसः ।
स्वास्थ्यस्य स्वास्थ्य-व्यवहारस्य च विषये जागरूकतां वर्धयितुं गतदिवसे सम्पूर्ण विश्वे विश्व-स्वास्थ्य-दिवसः मानित: । विश्व-स्वास्थ्य-सङ्घट्टनेन अस्मिन् वर्षे स्वस्थारम्भः, आशान्वितं भविष्यं इत्येषः शीर्षकः उद्घोषितः अस्ति, येन मातृणां नवजातशिशूनां च मृत्युनिवारणं भवेत्, सहस्रमहिलानां दीर्घकालिक स्वास्थ्याय कल्याणाय च प्राथमिकतां दातुं शक्येत् । अस्मिन् अवसरे, प्रधानमन्त्री नरेन्द्रमोदी एकस्य स्वस्थविश्वस्य निर्माणाय स्वकीयां प्रतिवद्धतां पुष्टीकृतवान् । स्वकीये संदेशे सः प्रोक्तवान् यत् सर्वकारः स्वास्थ्यसेवाभ्यः निरन्तरं ध्यानं केंद्रितं करिष्यति, जनकल्याणस्य विभिन्नक्षेत्रेषु च निवेशं करिष्यति। श्रीमोदिना अस्मिन् विषये वलं प्रदत्तमस्ति यत् उत्तमस्वास्थ्यं संपन्नसमाजस्य आधारशिला वर्तते । स्वास्थ्य-परिवार-कल्याण-राज्य मंत्रिणा अनुप्रिया पटेल इत्यनया उक्तं यत् स्वास्थ्य-क्षेत्रे देशस्य प्रशंसनीयोपलब्धयः प्रकाशिताः, यासु मातृणां शिशुनां च मृत्युप्रतिशततायां उल्लेखनीया अपचितिः सम्मिलिता अस्ति। तया सर्वेऽपि नागरिकाः स्वस्थजीवनशैल्याः अनुपालनाय सम्प्रार्थिताः ।

सर्वकारेण पेट्रोल-डीजल इत्यनयोः उत्पादशुल्के प्रतिलीटरमितं प्रति द्वयोः रुप्यकयोः वृद्धिः कृता अस्ति।
हिमसंस्कृतवार्ता – सर्वकारेण पेट्रोल-डीजल इत्यनयोः उत्पादशुल्के प्रतिलीटरमितं प्रति द्वयोः रुप्यकयोः वृद्धिः कृता अस्ति। यद्यपि तेल विपणन-संस्थानेन स्पष्टीकृतं यत् द्वयोः पेट्रोलियम उत्पादयोः विक्रयणशुल्केषु कीदृशी अपि वृद्धिः न करिष्यते । पेट्रोलियम-प्राकृतिक-वात्यीधन-मन्त्रिणा हरदीप सिंहपुरी इत्यनेन प्रोक्तं यत् उत्पाद शुल्के कारितया वृद्ध्या उपभोक्तृषु कीदृशः अपि प्रभावः न भविष्यति । वित्तमंत्रालयेन प्रख्यापितया अधिसूचनया अनुसारं पेट्रोल-डीजलयोः उत्पादशुल्के द्वयोः रुप्वकयोः वृद्धिः कृता अस्ति, या अद्यारभ्य प्रभावमानेष्यति । मंत्रिणा इदमपि प्रोक्तं यत् एलपीजी सिलेंडर इत्येतेषां शुल्केषु अपि पञ्चाशत् रुप्यकाणां वृद्धिः कृता अस्ति। श्रीपुरी प्रोक्तवान् यत् उज्ज्वलायोजनायाः लाभार्थिभ्यः एलपीजी इत्यस्य क्रयणशुल्कं अधुना पञ्चाशदधिक-पञ्चशतम् अन्येषां कृते च त्रिपञ्चाशदधिक-अष्टशतम् इति भविष्यति ।

प्रवर्तन-निदेशालयस्य अधिकारिणः तमिलनाडु-राज्ये अनेकेषु निवासस्थानेषु सहसान्वेषणकार्यं कृतवन्त:
हिमसंस्कृतवार्ता: प्रवर्तन निदेशालयस्य अधिकारिणः तमिलनाडु-राज्ये, राज्य-नगरपालिका प्रशासनस्य, नगरीय जलापूर्ति-मन्त्रिणः के. एन्. नेहरू-इत्यस्य, तस्य च भ्रातुः रविचन्द्रन्-इत्यस्य टू-वेल्यू होम्स् इत्यस्य व्यावसायिकसहभागिनः, मणिवन्नन्-इत्यस्य पेरम्बलूर-मण्डलस्य सांसदस्य पुत्रस्य अरुण नेहरू-इत्यस्य च निवासस्थानेषु सहसान्वेषणकार्यं कुर्वन्तः सन्ति। द्वयोः वित्कोषयो: ऋणयोः संलग्नतायाः प्रवञ्चनारोपेण सह एतानि अन्वेषणकार्याणि सम्बद्धानि इति कथ्यते। तिरुचिरापल्ल्यां द्वाभ्यां वित्तकोष-अधिकारिणाभ्यां तेषां व्यवहारविषये परिपृच्छाः जाता। चेन्न कोयम्वत्तूर-नगरयोः अपि अनेकेषु स्थानेषु, नेहरू-इत्यस्य भ्रातुः मणिवन्नन्-इत्यस्य स्वामित्वस्य रियल्-एस्टेट्-संस्थासु अपि, अन्वेषणकार्याणि प्रचलन्ति।

नौसेना-सम्मेलनम्- नौसेनाध्यक्षणां 2025 सम्मेलनस्य प्रथमसंस्करणस्य द्वितीयं चरणं नवदिल्ल्यां आरभत
हिमसंस्कृतवार्ताः। नौसेनाध्यक्षणां पञ्चविंशत्यधिक द्विसहस्रतमवर्षस्य इत्यस्य सम्मेलनस्य प्रथमसंस्करणस्य द्वितीयं चरणं
नवदिल्ल्याम् आरभत। इदं सम्मेलनं सर्वोच्चस्तरीयं अर्द्धवार्षिक आयोजनं अस्ति, वद्धि शीर्ष-नीसेनायाः सेनापतिनां मध्ये
महत्त्वपूर्ण-सामरिक-परिचालन-प्रशासनिक-विषयेषु चर्चा सुकरबति। हिन्दमहासागरप्रदेशे प्राधान्येन सुरक्षापक्षसहभागीरूपेण भारतस्य भूमिकायाः महत्त्वं प्रतिपादयितुं, क्षेत्रीयशान्ती, सुरक्षायां, स्थिरतायां च भारतीय-नीसेनायाः योगदानं वर्धयितुं च चतुर्दिवसीय सम्मेलनम् महत्त्वपूर्णा भूमिकां निर्वहति। सम्मेलनस्य समये, रक्षाध्यक्षः, सेनाध्यक्षः, वायुसेनाध्यक्षः तिसृणां सेवानां मध्ये समन्वयं वर्धयितुं, अभिसरणप्रयासान् च अधिकं चालयितुं नौसेनायाः सेनापतिभिः सह संलग्नाः भविष्यन्ति।

फिजीदेशस्य स्वास्थ्यमन्त्रिणा डॉ. रातू-एण्टोनियो रबिसी-लाल-बालावू इत्येतेन समं उपवेशनं विहितवान् विदेशमन्त्री एस्. जयश‌ङ्करः
हिमसंस्कृतवार्ताः। विदेशमन्त्री एस्. जयश‌ङ्करः गतदिने फिजीदेशस्य स्वास्थ्यमन्त्रिणा डॉ. रातू-एण्टोनियो रबिसी-लाल-बालावू इत्येतेन समं उपवेशनं विहितवान्। सामाजिकसन्देशपटले एकस्मिन् डॉ. जयशङ्करः अवोचत् यत् एतस्मिन् उपवेशने उभयोः देशयोः मध्ये प्रचल्यमानेषु स्वास्थ्य-चिकित्सा-सहयोगेषु चर्चा समनुष्ठिता।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

TAGGED: नौसेना सम्मेलन, पेट्रोल दाम, राष्ट्रपति: द्रौपदी मुर्मू, विदेश मन्त्री
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article भारतम् आगमिष्यति मुम्बई आक्रमणस्य अभियुक्तः तहबूरराणा
Next Article HPSEBL : राज्यविद्युत्मण्डले क्षेत्रकर्मचारिणां बृहत्परिमाणेन नियुक्तिः भविष्यति- मुख्यमंत्री सुखविंद्रसिंहसुक्खु:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?