HPBOSE Dharamshala: हिमाचलप्रदेशस्य विद्यालयशिक्षामण्डलेन तृतीयकक्षायाः पाठ्यक्रमे परिवर्तनम् कृतम्
हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:, धर्मशाला।
हिमाचलप्रदेशस्थेषु सर्वकारीयविद्यालयेषु तथा शिक्षामण्डलेन मान्यतान्वितेषु निजीविद्यालयेषु अपि अस्य वर्षस्य तृतीयकक्षायाः पाठ्यक्रमः पूर्णतः परिवर्तितः अस्ति। एतद् परिवर्तनं नूतनशिक्षानीतिम् (एनईपी) अधिगत्य एनसीईआरटी संस्थया कृतानां पाठ्यवस्तूनां परिवर्तनानुसारम् कृतः अस्ति। प्रदेशशिक्षामण्डलेन तृतीयकक्षायाः कृते नवीनाः पाठ्यपुस्तिकाः सज्जीकृत्य सर्वेषु विद्यालयेषु प्रेषिताः, यत् नवीनसत्रस्य शिक्षायाः सुचारुरूपेण आरम्भः स्यात्।
नवीनपाठ्यक्रमानुसारं हिन्दीविषये ‘रिमझिम भाग- 3’ इत्यस्य स्थाने ‘वीणा’ इत्यस्या: पुस्तकस्य अध्ययनं भविष्यति। गणितविषये ‘मैथ मैजिक बुक- 3’ इत्यस्य स्थाने ‘मैथ मेला’ नामकं पुस्तकं च, आङ्ग्लभाषायाम् ‘मैरीगोल्ड बुक- 3’ इत्यस्य स्थाने ‘सन्तूर’ नामकं पाठ्यपुस्तकम् अधीयते। एतेशानि परिवर्तनानि छात्रेभ्यः अधिकं रोचकं, व्यावहारिकं च समग्रज्ञानं दातुं लक्ष्यीकृत्य कृतानि सन्ति। एनसीईआरटी संस्थायाः निर्देशानुसारं एतद् पाठ्यक्रमपरिवर्तनं सर्वेषु सर्वकारीय विद्यालयेषु तथा मान्यतान्वितेषु निजीविद्यालयेषु अपि प्रवर्तितम् अस्ति। अस्य परिणामस्वरूपं बालानां अध्ययनप्रक्रिया अधिका सरला, सुलभा, प्रभावशाली च भविष्यति इत्याशा अस्ति।
पाठ्यवस्तूनां नवीनत्वम् किम्?
तृतीयकक्षायाः नूतनपाठ्यक्रमे क्षेत्रीयभाषाः, लोकगीतानि च, प्रमुखनगराणि च सम्मिलितानि सन्ति। गणितविषये आयुगणना, आङ्ग्लविषये कठिनशब्दानां हिन्दी-उच्चारणं च यथाविधिं पाठ्यक्रमे संस्थापितम्। एषः पाठ्यक्रमः 360 डिग्री- होलिस्टिक- प्रोग्राम इत्यस्य अधीनं सज्जीकृतः अस्ति, येन बालानां शारीरिकं प्रायोगिकं च सामर्थ्यं वृद्ध्यर्थं यतितव्यम्।
विद्यालये पुस्तकानि प्राप्तानि
प्रदेशशिक्षामण्डलेन तृतीयकक्षायाः पुस्तकानां नामसु पाठ्यवस्तुषु च परिवर्तनं कृतम्। नवीनपाठ्यक्रमानुसारं मुद्रितानि पुस्तकानि विद्यालयेषु छात्रेभ्यश्च सम्यक् प्राप्तानि सन्ति।
–डॉ. (मेजर) विशाल: शर्मा, सचिवः, विद्यालयशिक्षामण्डलम्, धर्मशाला।