संसद-ःधर्माधारेण आरक्षणस्य विषयः सप्तचत्त्वारिंशदधिक-एकोनविंशतितमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू
हिमसंस्कृतवार्ताः। कर्नाटकराज्यस्य उपमुख्यमन्त्रिणः डीके शिवकुमारस्य विशेषाल्पसंख्यकसमूहाय आरक्षणप्रदानोक्त्या सदने कोलाहलं समुत्पन्नम्। अस्मात् कारणात् संसदः उभयोः सदनयोः कार्यजातं मध्याह्न-द्विवादनं यावत् स्थगितमभवत् । राज्यसभायां सदननेत्रा जे.पी. नड्डा इत्यमुनापि कांग्रेसदलम् अनया रीत्या संविधानं दुर्वलीकरोतीत्याक्षिप्तम् । तेनोदीरितं यत् कर्नाटकराज्यस्य कांग्रेससर्वकारेण पूर्वमेव सार्वजनिकस्थलेषु धर्माधारेण चतुःप्रतिशतं आरक्षणं पारितमस्ति। अस्य प्रत्युत्तररूपेण विपक्षनेत्रा मल्लिकार्जुनखडगे इत्यनेन कथितं यत् डॉ. अम्बेडकरेण विनिर्मितम् संविधानं न कोऽपि परिवर्तितुं शक्नोति सहैव देशस्य आरक्षणव्यवस्थां कोऽपि समापयितुं नार्हति । तेन भाजपादलं संविधानस्य शिथिलीकरणाय प्रत्याक्षिप्तम्। कोलाहलाधिक्यम् दृष्ट्वा सभापतिः जगदीप-धनखडः सदनस्य कार्याचरणम् स्थगितवान्। लोकसभायां यदा द्वादशवादने स्थगितं कार्याचरणं पुनः समारब्धं तदा श्रीमान् रिजिजू इत्येषः अवदत् यत् धर्माधारेण आरक्षणस्य विषयः सप्तचत्त्वारिंशदधिक-एकोनविंशतितमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः। तेन एतदपि प्रोक्तं यत् कांग्रेसदलेन स्वनेतारः असंवैधानिक-कथनार्थं पदात् निष्कासनीयाः।
लोकसभायां वित्तविधेयकस्य विषये चर्चा संवृत्ता
लोकसभायाम् पञ्चविंशत्युत्तर-द्विसहस्रतम वित्तविधेयकस्य विषये चर्चा संवृत्ता। चर्चायां भागं भजन् भाजपायाः निशिकान्त दुवे इत्येषः अवदत् यत् सम्पूर्ण विश्वम् आर्थिकसङ्कटं सम्मुखीकरोति, तत्रैव भारतं विगतदशवर्षेषु अत्युञ्ज्वलतया समेधमानमस्ति ।श्रीदुबे इत्येषः अवदत् यत् ऑनलाइन-क्रीडायाः अनियन्त्रित-विकासं निरोद्धं तस्यामुपरि अष्टाविंशति-प्रतिशतमितं वस्तुसेवाकरः आरोपितः । सः प्रोक्तवान् यत् ऑनलाइन-क्रीडया युवानः क्षर्ति प्राप्नुवन्ति, सहैव ते स्वजनकयोः श्रमसंपादितां सम्पत्तिमपि द्यूतक्रीडायाम् अपव्ययन्ति। चर्चायामस्यां भागग्रहणं कुर्वन् समाजवादी-पार्टीतिदलस्य नीरजमौर्यः प्रोक्तवान् यत् सर्वकारेण आयव्ययके अनुसूचितजातयः, अल्पसंख्यकाञ्च विशेषरूपेण अवधातव्याः । तेनोक्तं यत् एतेषां विकासेन विना विकसित-भारतस्य स्वप्नः नैव सफलीभविष्यति।
दिल्ल्युच्चन्यायालयस्य न्यायाधीशगृहात् निगृहीतधनराशेः विषयः राज्यसभायां तप्तः
दिल्ल्युच्चन्यायालयस्य न्यायाधीशगृहात् अग्निप्रसङ्गोत्तरं निगृहीतधनराशेः प्रकरणमालक्ष्य राज्यसभायाः सभापतिः जगदीप-धनखडः जेपी नड्डा मल्लिकार्जुन खड्गे इत्येताभ्यां सहोपवेशनम् अकरोत्। अत्रान्तरे दिल्ल्युञ्चन्यायालयेन तत्क्षणप्रभावेण न्यायमूर्तेः यशवन्तवर्मणः न्यायिककार्यं प्रत्याहृतम्। उच्चन्यायालयेन पत्रक-सूचनामाध्यमेन एतदुद्धोषितम् । न्यायमूर्तिः वर्मा आरोपान् निराकुर्वन् उक्तवान् यत्तेन अथ तस्य पारिवारिक सदस्येन च स्वगृहस्य सङ्ग्रहकक्षे धनराशिः नैव स्थापितः।
संसद-ःधर्माधारेण आरक्षणस्य विषयः 1947 तमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
