मणिपुरस्य सप्तजनपदेषु जनैः शस्त्राणि स्थापितानि
मणिपुरे राष्ट्रपतिशासनस्य आरोपणानन्तरं कठोरकार्याणां भयात् दुष्टाः स्वशस्त्राणि समर्पयितुम् आरब्धाः सन्ति। बुधवासरे पुलिसेन उक्तं यत् सप्तजनपदानां जनाः स्वेच्छया ८७ प्रकारस्य शस्त्रं, गोलाबारूदं, विविधानि वस्तूनि च समर्पितवन्तः। इम्फालपूर्व, बिष्णुपुर, थौबल, कांगपोक्पी, जिरिबाम, चुराचन्दपुर, इम्फाल पश्चिम जनपदेषु शस्त्राणि समर्पितानि। अत्र राज्यपालः अजयकुमारभल्ला मेइतेई सशस्त्रसमूहस्य अरम्बई टेङ्गोल् इत्यस्य प्रतिनिधिमण्डलं मिलितवान् अस्ति। तदनन्तरं प्रतिनिधिमण्डलेन उक्तं यत् राज्यपालेन राज्यस्य शान्तिं निर्वाहयितुम्, राज्यस्य स्थितिं सामान्यीकर्तुं च तेभ्यः साहाय्यं याचितम्। उल्लेखनीयं यत् फेब्रुवरी-मासस्य १३ दिनाङ्के केन्द्रसर्वकारेण मणिपुरे राष्ट्रपतिशासनं आरोपितम् आसीत् । मुख्यमन्त्री एनबीरेनसिंहस्य त्यागपत्रस्य चतुर्दिनानन्तरं एषः निर्णयः कृतः। राज्ये २१ मासान् यावत् (मे ३, २०२३) प्रचलति जातीयहिंसायाः कारणेन ३०० तः अधिकाः मृताः अभवन् ।