By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: शिवमहापर्व-‘शिवरात्रिः’ -नारदोपाध्यायः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > शिवमहापर्व-‘शिवरात्रिः’ -नारदोपाध्यायः
धर्मसंस्कृतिः

शिवमहापर्व-‘शिवरात्रिः’ -नारदोपाध्यायः

डॉ.अमनदीप शर्मा
Last updated: 2025/02/26 at 6:40 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

शिवमहापर्व-‘शिवरात्रिः’ -नारदोपाध्यायः
महाशिवरात्रिपर्व परमात्म-शिवस्य दिव्यावतरणस्य मङ्गलसूचकं वर्तते। अस्मिन् विषये लिखन् अस्माकम् असमप्रदेशस्य विज्ञानशिक्षकः नारदोपाध्यायः विस्तृतरूपेण विवेचनं कृतवान्। ध्यातव्यमस्ति यत् नारदोपाध्यायः विज्ञानशिक्षकः सन्नपि संस्कृतभाषायाम् अगाधगत्या लिखति भाषति च। प्रस्तूयते अत्र शिवरात्रिविषये तस्य चिन्तनम्-

ओं नमः शिवाय ! ‘शिवरात्रिः’ इति शब्दस्य तात्पर्यं यत् सा रात्रिः, या शिवतत्त्वेन सह घनिष्ठसम्बन्धम् आवहति । भगवतः शिवस्य अतीव प्रिया रात्रिः, ‘शिवरात्रिः’ इति नाम्ना निर्दिश्यते ।
शिवार्चनं तथा जागरणं हि एतस्य व्रतस्य विशेषता । अत्र आरात्रि जागरणस्य एवं शिवाभिषेकस्य विधानं वर्तते ।
श्रीपार्वत्याः जिज्ञासां पुरस्कृत्य शिवः उक्तवान् यत् फाल्गुनकृष्ण-चतुर्दशीतिथिर्हि शिवरात्रिः उच्यते, अस्मिन् दिने मनुष्यैः आचरितः उपवासः विशेषतः मां प्रसादयति इति ।
“फाल्गुने कृष्णपक्षस्य या तिथिः स्याच्चतुर्दशी ।
तस्यां या तामसी रात्रिः सोच्यते शिवरात्रिका ।।”
ईशानसंहितायाम् उक्तमस्ति यत् फाल्गुनकृष्ण-चतुर्दशीरात्रौ आदिदेवः भगवान् श्रीशिवः कोटिसूर्याणां प्रभायुक्तः लिङ्गरूपेण प्रकटीभूतः ।
“फाल्गुनकृष्णचतुर्दश्यामादिदेवो महानिशि ।
शिवलिङ्गतयोद्भूतः कोटिसूर्यसमप्रभः ।।”
महाशिवरात्रिपर्व परमात्म-शिवस्य दिव्यावतरणस्य मङ्गलसूचकं वर्तते । तस्य निराकारतः साकारत्वेन अवतरणसम्बद्धा रात्रिर्हि ‘महाशिवरात्रिः’ कथ्यते । सः भक्तान् काम-क्रोध-लोभ-मत्सरादिविकारैः मुक्तान् विधाय, तेभ्यः परमं सुखैश्वर्यशान्त्त्यादिकं प्रददाति । ज्योतिषशास्त्रानुसारं फाल्गुनकृष्णचतुर्दश्यां तिथौ चन्द्रमाः सूर्यस्य समीपे भवति । अतः सः हि समयः जीवरूप-चन्द्रमसः शिवरूप-सूर्येण साकं योगः, सम्मेलनं वा भवति । अतः अस्यां चतुर्दश्यां यदि मनुष्यः सव्रतं शिवपूजां कुर्यात् तर्हि सः अभीष्टतमं पदार्थं प्राप्नुयात् इत्येतत् शिवरात्रेः रहस्यम् ।
भगवान् शङ्करः संहारशक्त्याः तथा तमोगुणस्य अधिष्ठाता वर्तते, तमोमयीरात्र्या सह तस्य प्रीतिः स्वाभाविकी एव । रात्रिः नाम संहारकालस्य प्रतिनिधिभूता, तस्याः आगमनस्य समनन्तरं हि प्रथमं प्रकाशस्य संहारः, प्राणिनां दैनिककर्मचेष्टानां संहारः तथाच अन्ते निद्राद्वारा चेतनां हि संहारः, इत्येवं प्रकारेण सम्पूर्णं विश्वं हि संहारिणीरात्र्याः अङ्के अचेतनतां प्राप्य निपतेत् । एतादृश्यां दशायां प्राकृतिकदृष्ट्या शिवस्य रात्रिप्रियता सहजा स्वाभाविकी च । अतः एतदेव कारणं यत् भगवतः शङ्करस्य आराधना विशेषतः रात्रौ तथा सततं प्रदोषकाले च विधीयते ।
ऋषि-महर्षयः समस्ताध्यात्मिकानुष्ठानेषु उपवासस्य महत्त्वं प्रत्यपादयन् । गीतायाम् –
‘विषया विनिवर्तन्ते निराहारस्य देहिनः’ इत्युक्त्यनुसारम् उपवासः विषयेभ्यः निवृत्तिप्राप्त्यर्थम् उत्तमं साधनं वर्तते इति । अतः आध्यात्मिक-साधनार्थम् उपवासः अवश्यं कर्तव्यः ।
रात्रिजागरणसम्बद्धं कथनं गीतायां सुप्रसिद्धमस्ति –
‘या निशा सर्वभूतानां तस्यां जागर्ति संयमी’ इति । एतस्योक्तेः सरलं तात्पर्यं यत् उपवासादिद्वारा मनःइन्द्रियाणां नियन्त्रकः संयमी पुरुषः रात्रिजागरणपूर्वकं स्वलक्ष्यप्राप्तये सततं प्रयतते इति ।
एतस्य पर्वणः लोकाय सन्देशः यत् भगवति शङ्करे अनुपमं सामञ्जस्यम्, अद्भूतः समन्वयः, उत्कृष्ट-सद्भावः इत्यादीनां महतां गुणानां दर्शनं प्राप्य, तस्माच्च शिक्षाग्रहणं कृत्वा मानवाः विश्वकल्याणसदृशे महति कार्ये प्रवृत्ताः भवेयुः इत्ययमेव एतस्य परमपवित्रस्य पर्वणः मानवमात्रस्य कृते दिव्यः सन्देशः वर्तते । शिवः अर्धनारीश्वरः सन्नपि कामविजेता वर्तते, एवं गृहस्थः सन्नपि परमविरक्तः, हलाहलविषस्य पानकारणतः नीलकण्ठः सञ्जातः चेदपि विषेण निर्लिप्तः, ऋद्धि-सिद्धीनां स्वामी सन्नपि सदा निरासक्तः, उग्रः सन्नपि सौम्यरूपः, अकिञ्चनः सन्नपि सर्वेश्वरः, भयङ्करः विषधरनागः तथा सौम्यरूपः चन्द्रमाः इतिद्वयमपि तस्य आभूषणमस्ति, मस्तके प्रलयकालिक-अग्निः एवं शिरसि शीतलगङ्गाधारा इति तस्य अनुपमः शृङ्गारः वर्तते । तस्य परिवारे वृषभ-सिंहयोः, मयूर-सर्पयोश्च पारस्परिकीं वैरतां विहाय या प्रीतिपूर्वकं सम्पाद्यमाना क्रीडा दृश्यते, सा समस्तविरुद्धभावरहितां विलक्षण-समन्वययुताञ्च शिक्षां लोकाय प्रददाति । अनेन शिवपरिवारेण सहास्तित्वस्य अङ्गीकरणस्य चाद्भूतशिक्षा लोकाय दत्ता वर्तते इति ।
ओं नमश्शिवाय ! शुभम् ।

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

TAGGED: असम, नारदोपाध्यायः, शिवरात्रि
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article सज्जनकुमाराय सिक्खविरोधिदङ्गेषु आजीवनकारावासस्य दण्डः
Next Article अधुना चन्द्रे नासा-संस्था मोबाईल-अन्तर्जाल-सेवायाः प्रारम्भं कर्तुं गच्छति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?