शिवमहापर्व-‘शिवरात्रिः’ -नारदोपाध्यायः
महाशिवरात्रिपर्व परमात्म-शिवस्य दिव्यावतरणस्य मङ्गलसूचकं वर्तते। अस्मिन् विषये लिखन् अस्माकम् असमप्रदेशस्य विज्ञानशिक्षकः नारदोपाध्यायः विस्तृतरूपेण विवेचनं कृतवान्। ध्यातव्यमस्ति यत् नारदोपाध्यायः विज्ञानशिक्षकः सन्नपि संस्कृतभाषायाम् अगाधगत्या लिखति भाषति च। प्रस्तूयते अत्र शिवरात्रिविषये तस्य चिन्तनम्-
ओं नमः शिवाय ! ‘शिवरात्रिः’ इति शब्दस्य तात्पर्यं यत् सा रात्रिः, या शिवतत्त्वेन सह घनिष्ठसम्बन्धम् आवहति । भगवतः शिवस्य अतीव प्रिया रात्रिः, ‘शिवरात्रिः’ इति नाम्ना निर्दिश्यते ।
शिवार्चनं तथा जागरणं हि एतस्य व्रतस्य विशेषता । अत्र आरात्रि जागरणस्य एवं शिवाभिषेकस्य विधानं वर्तते ।
श्रीपार्वत्याः जिज्ञासां पुरस्कृत्य शिवः उक्तवान् यत् फाल्गुनकृष्ण-चतुर्दशीतिथिर्हि शिवरात्रिः उच्यते, अस्मिन् दिने मनुष्यैः आचरितः उपवासः विशेषतः मां प्रसादयति इति ।
“फाल्गुने कृष्णपक्षस्य या तिथिः स्याच्चतुर्दशी ।
तस्यां या तामसी रात्रिः सोच्यते शिवरात्रिका ।।”
ईशानसंहितायाम् उक्तमस्ति यत् फाल्गुनकृष्ण-चतुर्दशीरात्रौ आदिदेवः भगवान् श्रीशिवः कोटिसूर्याणां प्रभायुक्तः लिङ्गरूपेण प्रकटीभूतः ।
“फाल्गुनकृष्णचतुर्दश्यामादिदेवो महानिशि ।
शिवलिङ्गतयोद्भूतः कोटिसूर्यसमप्रभः ।।”
महाशिवरात्रिपर्व परमात्म-शिवस्य दिव्यावतरणस्य मङ्गलसूचकं वर्तते । तस्य निराकारतः साकारत्वेन अवतरणसम्बद्धा रात्रिर्हि ‘महाशिवरात्रिः’ कथ्यते । सः भक्तान् काम-क्रोध-लोभ-मत्सरादिविकारैः मुक्तान् विधाय, तेभ्यः परमं सुखैश्वर्यशान्त्त्यादिकं प्रददाति । ज्योतिषशास्त्रानुसारं फाल्गुनकृष्णचतुर्दश्यां तिथौ चन्द्रमाः सूर्यस्य समीपे भवति । अतः सः हि समयः जीवरूप-चन्द्रमसः शिवरूप-सूर्येण साकं योगः, सम्मेलनं वा भवति । अतः अस्यां चतुर्दश्यां यदि मनुष्यः सव्रतं शिवपूजां कुर्यात् तर्हि सः अभीष्टतमं पदार्थं प्राप्नुयात् इत्येतत् शिवरात्रेः रहस्यम् ।
भगवान् शङ्करः संहारशक्त्याः तथा तमोगुणस्य अधिष्ठाता वर्तते, तमोमयीरात्र्या सह तस्य प्रीतिः स्वाभाविकी एव । रात्रिः नाम संहारकालस्य प्रतिनिधिभूता, तस्याः आगमनस्य समनन्तरं हि प्रथमं प्रकाशस्य संहारः, प्राणिनां दैनिककर्मचेष्टानां संहारः तथाच अन्ते निद्राद्वारा चेतनां हि संहारः, इत्येवं प्रकारेण सम्पूर्णं विश्वं हि संहारिणीरात्र्याः अङ्के अचेतनतां प्राप्य निपतेत् । एतादृश्यां दशायां प्राकृतिकदृष्ट्या शिवस्य रात्रिप्रियता सहजा स्वाभाविकी च । अतः एतदेव कारणं यत् भगवतः शङ्करस्य आराधना विशेषतः रात्रौ तथा सततं प्रदोषकाले च विधीयते ।
ऋषि-महर्षयः समस्ताध्यात्मिकानुष्ठानेषु उपवासस्य महत्त्वं प्रत्यपादयन् । गीतायाम् –
‘विषया विनिवर्तन्ते निराहारस्य देहिनः’ इत्युक्त्यनुसारम् उपवासः विषयेभ्यः निवृत्तिप्राप्त्यर्थम् उत्तमं साधनं वर्तते इति । अतः आध्यात्मिक-साधनार्थम् उपवासः अवश्यं कर्तव्यः ।
रात्रिजागरणसम्बद्धं कथनं गीतायां सुप्रसिद्धमस्ति –
‘या निशा सर्वभूतानां तस्यां जागर्ति संयमी’ इति । एतस्योक्तेः सरलं तात्पर्यं यत् उपवासादिद्वारा मनःइन्द्रियाणां नियन्त्रकः संयमी पुरुषः रात्रिजागरणपूर्वकं स्वलक्ष्यप्राप्तये सततं प्रयतते इति ।
एतस्य पर्वणः लोकाय सन्देशः यत् भगवति शङ्करे अनुपमं सामञ्जस्यम्, अद्भूतः समन्वयः, उत्कृष्ट-सद्भावः इत्यादीनां महतां गुणानां दर्शनं प्राप्य, तस्माच्च शिक्षाग्रहणं कृत्वा मानवाः विश्वकल्याणसदृशे महति कार्ये प्रवृत्ताः भवेयुः इत्ययमेव एतस्य परमपवित्रस्य पर्वणः मानवमात्रस्य कृते दिव्यः सन्देशः वर्तते । शिवः अर्धनारीश्वरः सन्नपि कामविजेता वर्तते, एवं गृहस्थः सन्नपि परमविरक्तः, हलाहलविषस्य पानकारणतः नीलकण्ठः सञ्जातः चेदपि विषेण निर्लिप्तः, ऋद्धि-सिद्धीनां स्वामी सन्नपि सदा निरासक्तः, उग्रः सन्नपि सौम्यरूपः, अकिञ्चनः सन्नपि सर्वेश्वरः, भयङ्करः विषधरनागः तथा सौम्यरूपः चन्द्रमाः इतिद्वयमपि तस्य आभूषणमस्ति, मस्तके प्रलयकालिक-अग्निः एवं शिरसि शीतलगङ्गाधारा इति तस्य अनुपमः शृङ्गारः वर्तते । तस्य परिवारे वृषभ-सिंहयोः, मयूर-सर्पयोश्च पारस्परिकीं वैरतां विहाय या प्रीतिपूर्वकं सम्पाद्यमाना क्रीडा दृश्यते, सा समस्तविरुद्धभावरहितां विलक्षण-समन्वययुताञ्च शिक्षां लोकाय प्रददाति । अनेन शिवपरिवारेण सहास्तित्वस्य अङ्गीकरणस्य चाद्भूतशिक्षा लोकाय दत्ता वर्तते इति ।
ओं नमश्शिवाय ! शुभम् ।