देशे एतादृशानां विश्वस्तरीयनेतृणाम् आवश्यकता वर्तते ये प्रवृत्तिं निर्धारयितुं कठिनतायाः समाधानानि च अन्वेष्टुं शक्नुवन्ति-प्रधानमन्त्री
हिमसंस्कृतवार्ताः। भारतं वैश्विकशक्तिकेन्द्रत्वेन उद्भूतम् अस्ति इत्यस्मात् कारणात् देशस्य प्रत्येकस्मिन् क्षेत्रे ऊर्जावतां नेतृणाम् आवश्यकता वर्तते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना सबलतया प्रोदीरितं ।नवदिल्ल्याः भारतमण्डपे स्कूल्-आफ्-अल्टिमेट्-लीडर्शिप् सोल इत्येतस्य सम्मेलनस्य प्रथमसंस्करणस्य उद्घाटनानन्तरं सम्बोधयन् श्रीमोदी अवदत् यत्, देशे एतादृशानां विश्वस्तरीयनेतृणाम् आवश्यकता वर्तते ये प्रवृत्तिं निर्धारयितुं कठिनतायाः समाधानानि च अन्वेष्टुं शक्नुवन्ति। अत्रावधौ जनसमागमं सम्बोधयन् प्रधानमन्त्री विश्वस्तरीयस्य नेतृत्वस्य निर्माणे सोल् इत्यस्य महत्त्वम् उद्घाटितवान्। श्रीमोदी अवदत् यत् राष्ट्रस्य विकासे मानवसंसाधनं प्रमुखां भूमिकां निभालयति इति। वैश्विक-उत्तम-अभ्यासैः सह सम्पर्क स्थापयित्वा विश्व-स्तरीय-शासनस्य तथा च नीति-निर्माण-पर्यावरणव्यवस्थायाः निर्माणार्थम् आवश्यक-पदक्षेपाः उत्थापनीयाः इति प्रधानमन्त्री कथितवान्। असौ इत्यपि अवदत् यत् स्कूल्-आफ्-अल्टिमेट्-लीडर्शिप् इत्यस्य स्थापना विकसित-भारतस्य यात्रां प्रति महत्त्वपूर्ण सोपानमिति अस्ति इति। अस्मिन् अवसरे भूटान-देशस्य प्रधानमन्त्री दाशो शेरिङ्ग् तोब्गे इत्यसौ अवदत् यत् सोल इति प्रामाणिकनेतृणां पोषणार्थं प्रधानमन्त्रिणः नरेन्द्रमोदिनः अविचलप्रतिबद्धतायाः अन्यं प्रमाणमस्ति इति। सः अवदत् यत्, भारतं विकसितभारतं भवितुं सज्जम् अस्ति इति। द्विदिवसात्मकं सोल्-इति सम्मेलनम् एकं प्रमुखं मञ्चरूपेण कार्य करिष्यति यत्र राजनीतिः, क्रीडाः, कलाः, प्रसारमाध्यमाः, आध्यात्मिकं जगतः, सार्वजनिकनीतिः, व्यवसायः, सामाजिकक्षेत्रम् इत्यादीनां विविधक्षेत्राणां नेतारः स्वस्य प्रेरकजीवनयात्रां विनिमयीकरिष्यन्ति। द-स्कूल्-आफ्-अल्टिमेट्-लीडर्शिप् इतीदं गुजरातराज्ये आगामिनी नेतृत्व-संस्था अस्ति, या प्रामाणिकनेतृभ्यः सार्वजनिक-कल्याणं प्रवर्तयितुं समर्थं कर्तुं च परिकल्पिता अस्ति।
अखिलभारतीयमराठीसाहित्यसम्मेलनं समुद्घाटितवान् प्रधानमन्त्री
प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्याः विज्ञानभवने अष्टनवतितम् अखिलभारतीयमराठीसाहित्यसम्मेलनं समुद्घाटितवान्। त्रिदिवसात्मके एतस्मिन् सम्मेलने सांस्कृतिक प्रदर्शनन सह प्रख्यातसाहित्य कारैः सह संवाद सत्रम् आयोजयिष्यते।
हिमपातस्य कारणेन जम्मू-कश्मीरे द्विपक्षीयं यातायातं प्रतिबंधितम्
हिमसंस्कृतवार्ताः। जम्मू-कश्मीरे द्विपक्षीयं यातायातं प्रतिबंधितम् अस्ति। बनिहालस्य रामसू इत्यस्य च मध्ये निरन्तरं जायमानस्य हिमपातस्य कारणेन अस्थायी रूपेण अवरुद्धः एनएच चतुश्चत्वारिंशत् इत्याख्यः जम्मू-श्रीनगर-राष्ट्रीय राजमार्गः पुनः प्रवर्तितः। सूच्यते यत् यात्रि-वाहनानि सम्प्रति उभयपक्षतः चलन्ति सन्ति। यातायातारक्षिबलेन प्रतिपादितं यत् भारवाहि-वाहनानाम् अपि गमनागमनं शीघ्रमेव अनुमंस्यते। यात्रिणां सुरक्षित यात्रायै मार्गपक्तेरनुशासनस्य पालनार्थम् परामर्शः प्रदत्तः अस्ति। इतः पूर्व, राष्ट्रिय-राजमार्गः ह्यः चिरसायं वाहनानां यातायातार्थं पिहितः आसीत्।