संस्कृतिं रक्षितुं संस्कृतम् आवश्यकम् – डॉ. अङ्कुरत्सः
वार्ताहर: – सचिन शर्मा, मोदीनगरम् , उत्तरप्रदेश: ।
उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चाल्यमानायाः ऑनलाइनभाषाशिक्षणयोजनायाः 2025 तमवर्षस्य फरवरी मासस्य प्रेरणासत्रम् अभवत् । संस्थानस्य प्रशिक्षकेण शचिकान्तत्रिपाठिना बोधितं यत् अस्य प्रेरणासत्रस्य शुभारम्भ: वैदिकमङ्गलाचरणैः प्रशिक्षुणा कौशलेन्द्रपाण्डेयेन कृतः । संस्थानगीतिका लक्ष्मीगुप्तया कृता तथा स्वागतगीतं परमप्रकाशपाण्डेयेन कृतम् । अतिथिपरिचयः प्रशिक्षकेण सत्यममिश्रेण कृतः । संस्थानस्य समग्रवृत्तकथनं सहसमन्वयिकया राधाशर्मणा कृता । मञ्चसञ्चालनदायित्वं दिवाकरमणित्रिपाठिना एवं सचिनशर्मणा कृतम् । अनुभवकथनं प्रशिक्षुभिः रागिणिद्विवेदिवीणाविनोदाम्बरकरै: कृतम् । अनन्या संस्कृतगीतेन सर्वेषाम् उत्साहवर्धनम् अकरोत् । मुख्यवक्तृभिः डॉ. अङ्कुरवत्सै: प्रेरितं यत् ” संस्कृतभाषां पठनाय ज्ञानस्य न अपितु दृढेच्छाया: आवश्यकता भवति। भयं विना अवरोधं विना संस्कृतेन वदिष्यन्ति चेत् अस्माकं संस्कृतेः रक्षा भविष्यति अतः वयं निश्चयेन संस्कृतेनैव वार्तालापं कुर्मः ।” अनेन तत्र उपस्थिताः संस्थानस्य निदेशकाः , प्रबन्धकाः , योजनासर्वेक्षका: , शिक्षणप्रमुखाः , प्रशिक्षकाः प्रशिक्षवः च सङ्कल्पं स्व्यकुर्वन् । अन्तिमे धन्यवादज्ञापनं डॉ. सत्यप्रकाशमिश्रेण कृतं तथा शान्तिपाठ: जीवनप्रकाशतिवारिणा कृतः । अस्मिन् प्रेरणासत्रे प्रायः शताधिकजना: उपस्थिता: आसन् ।