By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Cabinet Decisions : चिकित्सकेभ्य: अध्ययनावकाशे पूर्णं वेतनम्, अभियांत्रिकी-महाविद्यालयेषु नूतना: पाठ्यक्रमा:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Cabinet Decisions : चिकित्सकेभ्य: अध्ययनावकाशे पूर्णं वेतनम्, अभियांत्रिकी-महाविद्यालयेषु नूतना: पाठ्यक्रमा:
हिमाचलवार्ता

HP Cabinet Decisions : चिकित्सकेभ्य: अध्ययनावकाशे पूर्णं वेतनम्, अभियांत्रिकी-महाविद्यालयेषु नूतना: पाठ्यक्रमा:

डॉ मनोज शैल
Last updated: 2025/02/15 at 9:04 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

HP Cabinet Decisions : चिकित्सकेभ्य: अध्ययनावकाशे पूर्णं वेतनम्, अभियांत्रिकी-महाविद्यालयेषु नूतना: पाठ्यक्रमा:

हिमसंस्कृतवार्ता: – शिमला।

मुख्यमंत्रिण: सुखविंदरसिंहसुक्खो: अध्यक्षतायां शनिवासरे हिमाचलप्रदेशस्य मन्त्रिमण्डलस्य सभा सम्पन्ना।‌अस्मिन् काले अनेके महत्त्वपूर्णाः निर्णयाः कृताः । सभायां शिमलामण्डलस्य नेरवायां अग्निशामकस्थानकं उद्घाटयितुं तस्मिन् विविधवर्गस्य १७ पदानि निर्माय पूरयितुं च अनुमोदनं दत्तम्। मन्त्रिमण्डलेन राजस्वविभागे तहसीलदारस्य ०९ पदस्य निर्माणं पूरणं च अनुमोदितम्।

सभायां शिमलामण्डले कोटखाई पुलिस्थानकस्य अन्तर्गतं सद्यः एव उद्घाटिते बागीपुलिसचौकी इत्यत्र विभिन्नवर्गस्य षट् पदानि निर्माय पूरयितुं च अनुमोदनं दत्तम्। सभायां योजनाविभागे विभिन्नवर्गस्य त्रीणि पदानि पूरयितुं अनुमोदनं दत्तम्। कोष, लेखा, लॉटरी विभागे कोषाधिकारिणां त्रीणि पदानि पूरयितुं मन्त्रिमण्डलेन निर्णयः कृतः। सभायां सोलनमण्डलस्य बशीले नूतनं प्राथमिकस्वास्थ्यकेन्द्रं उद्घाटयितुं तथा च विभिन्नवर्गस्य त्रीणि पदानि निर्माय पूरयितुं च अनुमोदनं दत्तम्।

नूतन-मण्डलीय-कार्यालया:

सभायां काङ्गड़ायां जलविद्युत्विभागस्य नूतनविभागम् उद्घाट्य आवश्यकानि पदस्थानानि निर्माय पूरयितुं च निर्णयः कृतः। सभायां बिलासपुरजनपदस्य श्रीनयनदेवीजीविधानसभाक्षेत्रस्य जगातखानायां जलशक्तिविभागस्य नूतनविभागस्य उद्घाटनं, तस्य संचालनाय आवश्यकपदानां निर्माणं, पूरणं च निर्णयः कृतः। सभायां सोलनमण्डलस्य लोहारघाटे नूतनं उपतहसीलं उद्घाटयितुं आवश्यकपदानि निर्माय पूरयितुं च अनुमोदनं दत्तम्। सभायां शिमला-नगरस्य हिमाचलप्रदेशशासकीयदन्तचिकित्सामहाविद्यालयस्य विभिन्नविभागेषु सहायकाचार्यस्य १६ स्वीकृतपदानां उन्नयनार्थं सहाचार्यपर्यन्तं अनुमोदनं दत्तम्।

अभियांत्रिकी-महाविद्यालयेषु नवीनाः पाठ्यक्रमाः

सभायां काङ्गड़ामण्डले राजीवगान्धी राजकीय -अभियांत्रिकी महाविद्यालये, नगरोटाबागवांयां विभिन्नश्रेणीनां अष्टौ पदानां निर्माणेन पूरणेन साकं बी.टेक (कृत्रिमबुद्धि: तथा डाटाविज्ञानम्) तथा बी.टेक (कम्प्यूटरविज्ञानम्) पाठ्यक्रमप्रारम्भस्य अनुमोदनं दत्तम्। सभायां शिमला जनपदस्य प्रगतिनगरे स्थितस्य अटलबिहारीवाजपेयी- शासकीय- अभियांत्रिकी एवं प्रौद्योगिकीसंस्थाने बी.टेक (सिविल इंजीनियरिंग) पाठ्यक्रमस्य प्रारम्भेन साकं विभिन्नश्रेणीनां सप्तपदानां निर्माणस्य पूरणस्य चानुमोदनं‌कृतम्।‌ मन्त्रिमण्डलेन सुन्दरनगरस्य शासकीय-पॉलिटेक्निक-महाविद्यालये कम्प्यूटर-विज्ञान-इञ्जिनीयरिङ्ग-इत्यस्य (कृत्रिम-बुद्धि-मशीन-लर्निङ्ग) नूतनस्य डिप्लोमा-पाठ्यक्रमस्य आरम्भस्य अनुमोदनं कृतम् । तत्रैव नेरचौकस्थिते श्रीलालबहादुरशास्त्री- चिकित्सामहाविद्यालये परमाणु- चिकित्साविभागस्य स्थापनाया: निर्णय: अभवत्।‌ एतस्य अतिरिक्तं आचार्य:, सहाचार्य:, सहायकाचार्य:, वरिष्ठनिवासीचिकित्सकः, परमाणुचिकित्साप्रौद्योगिकीविदः, विकिरणसुरक्षापदाधिकारी च इत्यादीनि पदानि निर्मातुं पूरयितुं च सभायां अनुमोदनं दत्तम्। डॉ. वाई एस परमारशासकीयचिकित्सा महाविद्यालये जिला सिरमौरे मन्त्रिमण्डलेन विकृतिविज्ञानविभागस्य अन्तर्गतं इम्यूनोहेमेटोलॉजी तथा रक्ताधान विभागे सहायकाचार्यपदं पूरयितुं अनुमोदनं कृतम्।

एतेभ्य: पूर्णं वेतनम्

सभायां भारते विदेशे वा अध्ययनावकाशसमये एलोपैथिकवैद्येभ्यः पूर्णवेतनं प्रदातुं निर्णयः कृतः। मन्त्रिमण्डलेन राज्यस्य सर्वाणि १३५ पुलिसस्थानकानि जनसंख्या, क्षेत्रफलं, प्रमुखाः अपराधाः, यातायातः, अन्तरराज्यसीमाः, पर्यटनस्य आन्दोलनम् इत्यादीनां मापदण्डानां आधारेण षट् वर्गेषु वर्गीकृत्य निर्णयः कृतः अस्ति। पुलिसस्थानकेषु कर्मचारिणां परिनियोजनं तेषां वर्गानुसारं संशोधनं भविष्यति, येन क्षेत्रकार्यालयाः सुदृढाः भविष्यन्ति, जनसामान्यं च उत्तमसेवाः प्रदास्यन्ति।

 

राज्यसीमासु फास्टैग इति

सत्रे २०२५-२६ वित्तवर्षस्य प्रवेशकरसङ्ग्रहार्थं उद्घोष- सह-निविदाप्रक्रियायाः अनुमोदनं कृतम्, यया २०२४-२५ वित्तवर्षस्य तुलनायां ११.५६ कोटिरूप्यकाणां अतिरिक्तराजस्वं प्राप्तुं शक्यते। एतदतिरिक्तं राज्ये सर्वेषु प्रवेशशुल्कबाधासु FASTag सुविधां चरणबद्धरूपेण कार्यान्वितुं मन्त्रिमण्डलेन निर्णयः कृतः। प्रथमचरणस्य गरमोडा़ (बिलासपुरम्), परवाणु (मुख्यम्) तथा टियारा बाईपास (सोलनम्), गोविन्दघाट (सिरमौर:), कण्डवाल: (नूरपुरम्), मैहतपुरम् (ऊना) तथा बद्दी (सोलनम्) इत्येतेषु टोल-बैरियरेषु एषा सुविधा आरब्धा भविष्यति। मन्त्रिमण्डलेन बिलासपुरमण्डलस्य सदर तहसीलस्य पुनर्गठनार्थं नम्होल उपतहसीले अष्टौ पटवारवृत्तान् समावेशयितुं निर्णयः कृतः ।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article संस्कृतसम्भाषणं वास्तविकं कुंभ: – कृष्णकुमारतिवारी
Next Article HP News : इन्दौरायां स्थापिता भविष्यति शर्करा-चक्रम्, हिमाचलत् अपि च पञ्जाबत: जम्मू-कश्मीरत: च इक्षुः गृहीतः भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?