बाहुबली चलच्चित्रस्य अनुष्का शेट्टी इत्यस्याः ‘घाटी’ इति चलच्चित्रम् अप्रैलमासे प्रदर्शितं भविष्यति
वार्ताहर: – जगदीशडाभी (मुम्बई)
प्राप्तनूतनावार्तानुसारं प्रसिद्ध-बाहुबली इत्यस्मिन् चलच्चित्रे देवसेना इत्यस्या: भूमिकां निर्वहति दक्षिणस्य अभिनेत्री अनुष्का शेट्टी अतीव शीघ्रमेव घाटी चलच्चित्रे दृश्यते। अस्य चलच्चित्रस्य प्रदर्शनस्य तिथिः घोषिता जाता। इति अनुष्कायाः घाटी चलच्चित्रम् अप्रैलमासे प्रेक्षागृहेषु प्रदर्शितं भविष्यति। निर्मातारः सामाजिकमाध्यमेषु एकं छायाचित्रं प्रसारितं कृत्वा विमोचनस्य तिथ्या: घोषणां कृतवन्तः। निर्मातारः लिखितवन्तः यत् घाटी इत्यस्या: राज्ञ्याः दृष्टौ अग्निस्य, क्रोधस्य च कथा अस्ति। इति घाटी चलच्चित्रम् अप्रैलमासस्य १८-दिनाङ्के प्रेक्षागृहेषु प्रदर्शितं भविष्यति।