HP Vidhan Sabha Winter Session : ख्यातिप्राप्तुं संवेदनं मा प्रसारयेत् विपक्षीदलम्, तथ्याधारितं वार्तालापं कुर्यात्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – धर्मशाला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् भाजपानेतारः नादौननगरे विद्युत्बस-आगारस्य कृते हिमाचलपथपरिवहननिगमाय यत् स्थानं दत्तं तस्य २०१५ वर्षस्य मूल्यं कथयित्वा निराधार-आरोपान् कुर्वन्ति। तस्मिन् समये विचारदरेण परस्परं सहमतिः आधारेण एतत् स्थानं क्रीतम् आसीत्। पञ्जीकरणं तथैव दरेण कृतम्। सर्कलदरेण ४.७५ लक्षरूप्यकाणां स्टाम्पशुल्कं प्रदत्तम् अस्ति। इयं ८० कनालभूमिः ६.८२ कोटिरूप्यकेण हिमाचलपथपरिवहननिगमाय स्थानान्तरिता। यतः, भाजपासर्वकारस्य समये २०१९-२० तमे वर्षे वृत्तदरः परिवर्तितः आसीत्। एषा भूमिः अपि राष्ट्रियराजमार्गात् १०० मीटरमित: अन्तः आगच्छति। अस्याः भूमे: वृत्तदरः प्रतिवर्गमीटर् १२५१ रुप्यकाणि भवति, अधिग्रहणसमये तस्मात् द्विगुणा राशिः दीयते, अतः ८० कनालस्य दरः ६.८२ कोटिरूप्यकाणि भवति विपक्षस्य विधायकाः तालीसङ्ग्रहार्थं संवेदनभूततां न सृजन्तु, तथ्याधारितं वार्तालापं कुर्वन्तु।