HP Govt Budget 2025-26: हिमाचलसर्वकारेण २०२५-२६ वर्षस्य आयव्ययकस्य कृते परामर्शा: याचिता:
हिमसंस्कृतवार्ता: – शिमला ।
हिमाचलराज्यसर्वकारेण २०२५-२६ वित्तवर्षस्य राज्यस्य आय-व्ययकस्य निर्माणस्य प्रक्रिया आरब्धा। आय-व्ययकम् अधिकं जनकेन्द्रितं कर्तुं समाजस्य विभिन्नानां हितधारकाणां सहभागिता, मतं च आय-व्ययके समावेशयितुं आवश्यकम्। सर्वकारेण सामान्यजनात्, उद्योगेभ्यः, व्यापारिकेभ्यः, कृषकसङ्घटनेभ्यः च आयव्ययकस्य कृते परामर्शा: आमन्त्रिता सन्ति।
राज्यसर्वकारस्य प्रवक्ता अवदत् यत् परामर्शा: ३१ जनवरी २०२५ यावत् budgetidea.hp@gmail.com इत्यत्र ई- मेलद्वारा अथवा मुख्यसचिवस्य (वित्तस्य) कार्यालये, कक्षसङ्ख्या ३१९ आर्म्सडेल भवनं हिमाचलप्रदेशसचिवालय: इत्यत्रापि पत्रद्वारा प्रस्तूय कर्तुं शक्यते। एतदतिरिक्तं वित्तविभागस्य जालपुटे अपि परामर्श: प्रेषयितुं शक्यते। राजस्वप्राप्तिवर्धनं, व्ययनियन्त्रणम् इत्यादिषु विषयेषु आय-व्ययकस्य परामर्श: दातुं शक्यते इति सः अवदत्। एतेन बजटे पारदर्शिता, प्रतिक्रियाशीलः, सहभागिता च दृष्टिकोणः प्रवर्धितः भविष्यति।