CM Sukhu : विधानसभायाः शिशिरसत्राय धर्मशालां प्राप्तवान् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – धर्मशाला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः विधानसभायाः शिशिरसत्राय धर्मशालां प्राप्तवान्। धर्मशालानगरस्य साई-क्रीडाङ्गणे मुख्यमंत्रिण: सुखविंदरसिंहसुक्खो: हार्दिकं स्वागतं विहितम् । मुख्यमन्त्री विधानसभायाः शिशिरसत्राय मंगलवासरे सायं धर्मशालानगरं प्राप्तवान्। कृषिमन्त्री चन्द्रकुमार:, आयुषमन्त्री यदविन्द्रगोमा, विधायक: किशोरीलाल, उपमुख्यसचेतक: केवलसिंह: पठानिया, विधायक: संजय: अवस्थी, विधायक: सुदर्शन: बबलू, धर्मशालाया: पूर्वप्रत्याशी देवेन्द्र: जग्गी, सुरेन्द्र: मनकोटिया इत्येतै: सह शतशै: जनै: मुख्यमंत्रिण: सुखविंदरसिंहसुक्खो: स्वागतं कृतम्।