प्रधानमन्त्रिणा अमिलत् सांसद: हर्षमहाजनः, राष्ट्रियराजमार्गस्य याचना कृता
हिमसंस्कृतवार्ता: – नवदेहली।
हिमाचलप्रदेशस्य राज्यसभासांसदः हर्षमहाजनः गुरुवासरे दिल्लीनगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना मिलितवान्। अस्मिन् अवसरे महाजनः हिमाचलप्रदेशस्य विविधविकासकार्यविषये चर्चां कृतवान् । सः विशेषतया चम्बा, तीसा, पाङ्गी, किश्तवाड़, लेह च एतानि क्षेत्राणि संयोजयितुं नूतनस्य राष्ट्रियराजमार्गस्य निर्माणस्य आवश्यकतायाः उपरि बलं दत्तवान्।
सः प्रधानमंत्रिणम् अवदत् यत् एतेन प्रस्तावेन एतेषां क्षेत्राणां यातायातसुविधासु उन्नयनं भविष्यति, राज्यस्य समग्रविकासाय च प्रेरणा भविष्यति। प्रधानमन्त्री एतस्य विषये गम्भीरतापूर्वकं विचारं कर्तुं आश्वासनं दत्तवान्। हर्षमहाजनः अवदत् यत् आगामिषु कालेषु अयं राष्ट्रियराजमार्गः अतीव महत्त्वपूर्णः सिद्धः भविष्यति। अस्मिन् सत्रे प्रधानमन्त्री नरेन्द्रमोदी हर्षमहाजनस्य जन्मदिने हार्दिकं शुभकामनाम् अयच्छत्, तस्य प्रयत्नस्य च प्रशंसाम् अकरोत्। गुरुवासरः हर्षमहाजनस्य जन्मदिवसः अपि आसीत् तथा च राज्यसभायां उपराष्ट्रपतिः अन्ये च संसदसदस्याः अपि हर्षमहाजनस्य अभिनन्दनं कृतवन्तः। हर्षमहाजनः हिमाचलप्रदेशस्य वरिष्ठः नेता अस्ति तथा च राज्यस्य विकासाय स्वस्य प्रतिबद्धतां दृष्ट्वा सः सर्वदा हिमाचलहितस्य विषयान् उत्थापयति स्म। अधुना राज्यसभायां अपि सः सदने हिमाचलस्य कृते महत्त्वपूर्णान् विषयान् उत्थापयति। प्रधानमन्त्रिण: पुरत: राष्ट्रियराजमार्गस्य याचनां वर्धयित्वा राज्यस्य सुदूरक्षेत्रेषु विकासस्य नूतनमार्गस्य उद्घाटनस्य सम्भावना वर्तते।