By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Amritsar News : अमृतसरे स्वर्णमन्दिरस्य द्वारे अकालीदलस्य अध्यक्षस्य सुखबीरसिंहबादलोपरि प्राणघातकम् आक्रमणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > Amritsar News : अमृतसरे स्वर्णमन्दिरस्य द्वारे अकालीदलस्य अध्यक्षस्य सुखबीरसिंहबादलोपरि प्राणघातकम् आक्रमणम्
प्रादेशिकवार्ता

Amritsar News : अमृतसरे स्वर्णमन्दिरस्य द्वारे अकालीदलस्य अध्यक्षस्य सुखबीरसिंहबादलोपरि प्राणघातकम् आक्रमणम्

डॉ मनोज शैल
Last updated: 2024/12/04 at 9:12 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Amritsar News : अमृतसरे स्वर्णमन्दिरस्य द्वारे अकालीदलस्य अध्यक्षस्य सुखबीरसिंहबादलोपरि प्राणघातकम् आक्रमणम्

हिमसंस्कृतवार्ता: – अमृतसरम्। पञ्जाबप्रान्तस्य अमृतसरे स्वर्णमन्दिरस्य मुख्यद्वारे शिरोमणि- अकालीदलस्य अध्यक्षस्य सुखबीरसिंहबादलोपरि प्राणघातकाक्रमणम् अभवत्। स्वर्णमन्दिरे तस्योपरि गुलिकाप्रहार: कृत: यद्यपि स: सुरक्षित: अस्ति। असौ अकालतख्तसाहिब- इत्यस्य पक्षत: धार्मिकदण्डं निर्वोढुं श्रीहरमिंदरसाहिबं प्राप्त: आसीत्। पुलिसदलेन आक्रमकः नारायणसिंहः चौरा इत्याख्यः गृहीतः। जनमतानुसारं सः बब्बरखालसा- अन्ताराष्ट्रीयस्य आतङ्कवादी आसीत्। सः १९८४ तमे वर्षे पाकिस्तानं गतवान्। पंजाबे आतङ्कवादस्य प्रारम्भिककाले शस्त्रविस्फोटकानां च विपणने सहाय्यं कृतवान्। पाकिस्ताने स्थित्वा सः गुरिल्लायुद्धे च राष्ट्रद्रोहिणः साहित्ये च पुस्तकं रचितवान्। असौ बुड़ैल-कारागार-खण्डनस्य प्रकरणेऽपि अभियुक्तः वर्तते। पूर्वं च पंजाबस्य कारागारे अपि दण्डं भुक्तवान् अस्ति।

प्रातःकाले सार्धनववादने घटिता घटना

बुधवासरे प्रातःकाले प्रायः ९:३० वादने सुखबीरसिंह बादलः घंटाघरद्वारस्य समीपे श्रीहरमन्दिरसाहिबे स्थितः। तत्कालेन कश्चन पुरुषः आगत्य स्वहस्तगत- भुशुण्डिकया गुलिकाप्रहारं कृतवान्। गुलिका सुखबीरसिंहस्य समीपं गत्वा भित्तौ अलगत्।

सुरक्षाकर्मिभिः तत्क्षणमेव सुखबीरसिंहस्य सुरक्षायाम् परिक्रमणं कृतम्, आरोपी चापि गृहीत:। अभियुक्त: पुलिसस्य नियन्त्रणे समर्पितः। प्रकरणस्य गवेषणं च प्रवर्तमानं वर्तते।

 

आरोपिणः परिचयः

आरोपिणः नाम नारायणसिंहः चौरा इति वर्तते। सः डेरा बाबानानकस्थानातः आगतः। स: दलखालसासंबद्धः इति वक्तुं शक्यते। गुलिकाप्रहारानन्तरं सुखबीरसिंहस्य समीपस्थितैः व्यक्तिभिः स: द्रुतं निगृहीत:, तस्य हस्तं चोपरि स्थापितम्। घटना मुख्यद्वारसमीपे अभवत्। सुखबीरसिंहस्य पादे पूर्वं भङ्गः अस्ति, तस्मात् सः आसन्दे उपविष्टः सेवां कुर्वन्नासीत्।

 

मंगलवारे अपि स्वर्णमन्दिरमागत: आसीत् आरोपीयुवक:

सूत्राणां मतानुसारम्, आरोपीयुवक: मंगलवारे अपि श्रीहरमन्दिरसाहिबं प्राप्य दृष्टः। गुप्तसूचना प्राप्ते सत्यपि पुलिसदलं सचेतितमासीत्, आरोपिण: उपरि: दृष्टि: चासीत्।

अमृतसरस्य पुलिस-आयुक्तः गुरुप्रीतसिंहः भुल्लरः उक्तवान् यत् पुलिससदस्यैः सतर्कतया प्रवर्तनं कृत्वा आक्रमणस्य योजना विफला कृता। आरोपी नारायणसिंहः चौरा पूर्वं विभिन्नापराधं कृतवान्। अभियोगं पञ्जीकृतम् तस्य अपराधवृत्तान्तंपरिशील्यते।

You Might Also Like

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

Kangra Valley Carnival – झमाकड़ानृत्यद्वारा २५०० महिलाभिः चिट्टाविरोधी सशक्तः सन्देशः प्रदत्तः

TAGGED: Amritsar, Himachal news, himsanskritnews headlines, National News, national News Headlines, News Headlines, Punjab News, अन्तर्राष्ट्रीय समाचार, पंजाब समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Shimla News- लोकनिर्माणमन्त्री बठोरातः ८ कोटिरूप्यकाणां व्ययेन निर्मितानाम् त्रयाणां मार्गानाम् उद्घाटनं कृतवान्
Next Article KKSU Ramtek : भारतीययोगशास्त्राधारितसंशोधनस्य वैश्विकस्तरे उद्घाटनम् आवश्यकम्- डॉ. महेश करंदीकर:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?