By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Sanskrit News: बाङ्लादेशे इस्कॉन…… भारतीयसंस्कृतिविषये विश्वोत्साहः…….संसदवार्ताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Sanskrit News: बाङ्लादेशे इस्कॉन…… भारतीयसंस्कृतिविषये विश्वोत्साहः…….संसदवार्ताः
राष्ट्रीयवार्ताःदिवसविशेषः

Sanskrit News: बाङ्लादेशे इस्कॉन…… भारतीयसंस्कृतिविषये विश्वोत्साहः…….संसदवार्ताः

डॉ.अमनदीप शर्मा
Last updated: 2024/11/29 at 7:15 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

Sanskrit News: बाङ्लादेशन्यायालयेन इस्कान् हिंसायाः विषये हस्तक्षेपं कर्तुम् अस्वीकृतम्
हिमसंस्कृतवार्ताः। बाङ्गलादेशस्य उच्चन्यायालयेन अद्य इस्कॉन् हिंसासम्बद्धेषु विषयेषु हस्तक्षेपं कर्तुं अस्वीकृतम्। अस्मिन् विषये सम्बन्धिताधिकारिभिः आवश्यकानि पदानि कृतानि इति न्यायालयेन उक्तम्। न्यायाधीशः फराह महबूबः, न्यायाधीशः देवाशीषः रायचौधरी इत्यनयोः पीठेन सर्वकारस्य प्रतिक्रियायाः विषये सन्तुष्टिं प्रकटयन् नागरिकानां जीवनस्य सम्पत्तेश्च च रक्षणार्थं प्रयत्नाः निरन्तरं कर्तुं निर्देशं दत्तम्। ततः पूर्वं कालः उच्चन्यायालयेन हिन्दुधार्मिकसङ्गठनस्य इस्कॉन् विषये सर्वकारस्य स्थितिं स्पष्टीकर्तुं कथितं यत्, इस्कॉनस्योपरि प्रतिबन्धं स्थापयितुं निवेदनं कृतमासीत्।
…………………………

Sanskrit News: भारतीयेतिहासं संस्कृतिं च प्रति वैश्विकोत्साहः आनन्ददायकः- प्रधानमन्त्री
हिमसंस्कृतवार्ताः। भारतीय-इतिहास-संस्कृतयोः विषये वैश्विक-उत्साहं दृष्टवा प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रसन्नता प्रकटिता । सामाजिकमाध्यमेषु एकस्मिन् सन्देशे प्रधानमन्त्री अवदत् यत् भारतीयसंस्कृतिः वैश्विकरूपेण प्रतिध्वनितुं शक्नोति। स्वस्य विदेशयात्राणां साक्ष्यचित्राणि परस्परं प्रकाशयन् प्रधानमन्त्री अवदत् यत् अस्माकं इतिहासं संस्कृतिं च प्रति एषः अपारः उत्साहः अत्यन्तं प्रसन्नताकारकं अस्ति।
…………………………….

Sanskrit News: भारतीयोद्योगसङ्घस्य व्यापारसुलभता-नियामककार्याणां पटलस्य प्रारम्भं कृतवान् उद्योगमन्त्री पीयूषगोयलः
हिमसंस्कृतवार्ताः। केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः नवदिल्लीनगरे भारतीयोद्योगसङ्घस्य व्यापारसुलभता-नियामककार्याणां पटलस्य प्रारम्भं कृतवान्। एतत् पटलं केन्द्रसर्वकारेण भारतीयोद्योगसङ्घेन च व्यावसायिकसौलभ्यविषये कृतानां प्रमुखपरिकल्पनानां सम्बद्धानां नवीनाः सूचनाः प्रदास्यति।
अस्मिन् अवसरे वदन् श्री गोयलः अवदत् यत् सर्वकारस्य राष्ट्रियैकलगवाक्षप्रणाल्याः व्यापारस्य सुगमतायां परिष्कारः अभवत्। एषा व्यवस्था विभिन्नक्षेत्राणाम्, उद्योगानां, विभागानां च एकत्रीकरणे सफला अभवत् ।
श्री गोयलः अवदत् यत् जनविश्वासतः शून्यबिन्दुविधेयकस्य अन्तर्गतं सर्वकारः ३०० तः अधिकान् अधिनियमान् निरसयितुं सक्रियरूपेण विचारयति। तेन परिसंघं स्वसदस्येभ्यः अधिनियमान् प्रति संवेदनशीलं कर्तुं, अधिनियमभावनायाः आदरं कर्तुं आग्रहं कृतम्। गोयलमहोदयः अधिनियमानां न्यूनतायाः लाभं ग्रहीतुं प्रवृत्तेः विरुद्धं सचेतना अददात् तेनोक्तं यत् अर्थव्यवस्थायाः कृते एतत् हानिकारकम् अस्ति।
श्री गोयलः सूचितवान् यत् सर्वकारस्य पैन टू प्वाइट जीरो इति अभियानं पुरातनप्रौद्योगिक्याः स्थाने उत्तमां नवीनतमां च प्रौद्योगिकीम् प्रवर्तयितुं योजनायाः भागः अस्ति।
…………………………………………

केन्द्रसर्वकारः शयनयानवर्गं सहितं दशसहस्राणां कोचयानानां निर्माणस्य योजनां करोति
लोकसभायां सर्वकारेण उक्तं यत् रेलयानेषु अनारक्षितानां शयनयानानां निराकरणस्य योजना नास्ति। रेलमन्त्री अश्विनीवैष्णवः लिखितरूपेण उक्तवान् यत् चलितेवित्तीयवर्षे एलएचबी-शयनयानैः सह संचालितैः मेल-एक्स्प्रेस्-रेलयानेषु षट्शताधिकाः अनारक्षिताः शयनयानानि योजितानि सन्ति। वर्धमानमागधां दृष्ट्वा भारतीयरेलवे अवातानुकूलितसामान्यवर्गस्य, शयनयानवर्गं सहितं दशसहस्राणि कोचयानानां निर्माणस्य योजनां करोति।
………………………………………..

उजालायोजनायाः अन्तर्गतं एलईडी गोलदीपानां (बल्ब) वितरणेन प्रतिवर्षं १९ सहस्राधिकं कोटिरूप्यकाणां रक्षणं भवति
उजालायोजनायाः अन्तर्गतं एलईडी गोलदीपानां (बल्ब) वितरणेन प्रतिवर्षं १९ सहस्राधिकं कोटिरूप्यकाणां रक्षणं भवति इति सर्वकारेण लोकसभायाम् एकस्मिन् उत्तरे उक्तम्। उर्जाराज्यमन्त्री श्रीपादनायकः लोकसभायां लिखितोत्तरे उक्तवान् यत् अस्य कारणात् सम्पूर्णे देशे प्रतिवर्षं ४८०० कोटि यूनिट् ऊर्जायाः रक्षणं भवति। एलईडी-गोलदीपानां उपयोगेन कार्बन-उत्सर्जनं ४ कोटि-टन-पर्यन्तं न्यूनीकर्तुं साहाय्यं कृतम् अस्ति । सः अवदत् यत् एलईडी गोलदीपस्य उपयोगेन प्रतिवर्षं प्रतिपरिवारं औसतेन १३०० तः १८०० यावत् रुप्यकाणां रक्षणं भवति। श्री नायकेन सूचितं यत् ऊर्जा दक्षता सेवा लिमिटेड-ईईएसएल इत्यनेन उजाला योजनायाः अन्तर्गतं प्रायः ३७ कोटि एलईडी गोलदीपाः, ७७ लक्षाधिकाः एलईडी दण्डदीपप्रकाशः, २४ लक्षं ऊर्जानुकूलाः विद्युतचक्राणि च वितरिताानि।
……………………………..

एशियाई विकासबैङ्क इत्यस्य बोर्ड ऑफ गवर्नर्स समित्या मसातो काण्डा इत्ययं ११ तमः अध्यक्षः निर्वाचितः
हिमसंस्कृतवार्ताः। एशियाई विकासबैङ्क इत्यस्य बोर्ड ऑफ गवर्नर्स समित्या सर्वसम्मत्या मसातो काण्डा इत्ययं ११ तमः अध्यक्षः निर्वाचितः। काण्डमहोदयः सम्प्रति जापानदेशस्य प्रधानमन्त्रिणः वित्तमन्त्रिणश्च विशेषपरामर्शकरूपेण कार्यं करोति । एशियाई विकासबैङ्केन उक्तं यत् काण्डमहोदयः आगामिवर्षस्य फरवरीमासे मसात्सुगु असकावा इत्यस्मात् कार्यभारं स्वीकरिष्यति।
………………….
भारतरुसान्तर्गतं सर्वकारीयायोगस्य कार्यसमूहस्य चतुर्थसंगोष्ठी रूसस्य मास्कोनगरे सम्पन्ना
हिमसंस्कृतवार्ताः। सैन्यस्य सैन्यतकनीकसहयोगे भारतरुसान्तर्गतं सर्वकारीयायोगस्य कार्यसमूहस्य चतुर्थसंगोष्ठी रूसस्य मास्कोनगरे सम्पन्ना अभवत्। रक्षामन्त्रालयेनोक्तं यत् इयं सगोष्ठी उभयोः देशयोः मध्ये दीर्घकालात् चाल्यमानस्य रणनीतिकसहयोगस्य
कृते महत्वपूर्णं पदमस्ति। संगोष्ठ्याम् उभयोः देशयोः मध्ये परिचालनसहयोगं सुदृढ़ं कर्तुम् संयुक्तसैन्य-अभ्यासानां विस्तारे सहमतिः प्रदर्शिता। भारत-रुसरणनीतिकसहयोगस्य घोषणापत्रे 2000 तमे वर्षे हस्ताक्षराणि कृतानि, यत् 2010 तमे वर्षे विशेषाधिकारप्राप्तरणनीतिकसहयोगस्य स्तरे वर्धितः आसीत्। भारतरूसरक्षा सहयोगार्थम् एकमहत्वपूर्णमंचः वर्तते।

जनरल् कीथ् केलॉग् रूस-यूक्रेन-देशयोः विशेषदूतत्वेन नामाङ्कितः
हिमसंस्कृतवार्ताः। अमेरिकीराष्ट्रपतिनिर्वाचितः डोनाल्ड ट्रम्पः सेवानिवृत्तं जनरल् कीथ् केलॉग् इत्ययं रूस-यूक्रेन-देशयोः विशेषदूतत्वेन नामाङ्कितः। ट्रम्पमहोदयः एकस्मिन् वक्तव्ये उक्तवान् यत् जनरल् कीथ् यूक्रेन-रूसयोः राष्ट्रपतेः विशेषदूतः भविष्यति। जनरल् कीथ् ट्रम्पमहोदयस्य प्रथमकार्यकाले राष्ट्रियसुरक्षासम्बद्धेषु संवेदनशीलपदेषु कार्यं कृतवान् ।
अन्यस्मिन् निर्णये ट्रम्पमहोदयेन भारतीयमूलस्य डॉ. जयभट्टाचार्यस्य राष्ट्रियस्वास्थ्यसंस्थायाः प्रमुखत्वेन नियुक्तिः कृता अस्ति। डॉ. भट्टाचार्यस्य जन्म कोलकातानगरे अभवत् । सः भौतिकशास्त्रज्ञः अर्थशास्त्रज्ञः च अस्ति तथा च कोविडलाकडाउन इत्यस्य विरोधकः अभवत् ।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

TAGGED: cmo himachal, Daily Sanskrit News, him sanskritam, Himachal government, Himachal news, Himachal Sanskrit Academy, Himsanskritnews, narendra modi, pmo, Sanskrit news, sanskrit news channel, sanskrit News pdf, Today Sanskrit Nerws, varta, vartah, आज के संस्कृत समाचार, दैनिक समाचार, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article ajaydevgan पुनः सिंघम अगेन चलच्चित्रस्य अनन्तरम् अजयदेवगनस्य ‘नाम’ चलच्चित्रम् अपि निष्फलम् अभवत्
Next Article करीनाया:, करिश्माया: च भ्रातुः आदर्शजैनस्य भविष्यति विवाहः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?