By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: आपदानिवृत्तिपरियोजनाभ्य: केन्द्रात् १११५ कोटिरूप्यकाणि अनुमोदितानि, हिमाचलाय १३९ कोटिरूप्यकाणि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > आपदानिवृत्तिपरियोजनाभ्य: केन्द्रात् १११५ कोटिरूप्यकाणि अनुमोदितानि, हिमाचलाय १३९ कोटिरूप्यकाणि
दिवसविशेषःराष्ट्रीयवार्ताःहिमाचलवार्ता

आपदानिवृत्तिपरियोजनाभ्य: केन्द्रात् १११५ कोटिरूप्यकाणि अनुमोदितानि, हिमाचलाय १३९ कोटिरूप्यकाणि

डॉ मनोज शैल
Last updated: 2024/11/27 at 4:13 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

आपदानिवृत्तिपरियोजनाभ्य: केन्द्रात् १११५ कोटिरूप्यकाणि अनुमोदितानि, हिमाचलाय १३९ कोटिरूप्यकाणि
हिमसंस्कृतवार्ता: – नवदेहली।

केन्द्रसर्वकारेण विभिन्नराज्यानां कृते आपदानिवारणस्य क्षमतानिर्माणपरियोजनानां च कृते १११५.६७ कोटिरूप्यकाणां राशिः स्वीकृता अस्ति। केन्द्रीयगृहमन्त्री अमितशाहस्य अध्यक्षतायां उच्चस्तरीयसमितिसभायां एषा राशिः अनुमोदिता। गृहमन्त्रालयेन उक्तं यत् वित्तमन्त्री, कृषिमन्त्री, नीति-आयोगस्य उपाध्यक्षस्य सभासदानां च समाविष्टा समितिः राष्ट्रिय-आपदाशमनकोषात् १५ राज्येषु भूस्खलनस्य संकटं न्यूनीकर्तुं प्रस्तावस्य वित्तपोषणं च तथा च राष्ट्रीय आपदाप्रतिक्रिया कोषत: सज्जता एवं वित्तपोषणस्य गवाक्षतः क्षमतानिर्माणस्य अन्तर्गतं सर्वेषु राज्येषु संघक्षेत्रेषु च नागरिकरक्षास्वयंसेविकानां प्रशिक्षणस्य क्षमतानिर्माणस्य च प्रस्तावानां विषये विचारः कृतः।

उच्चस्तरीयसमित्या अरुणाचलप्रदेश:, असम:, हिमाचलप्रदेश:, मणिपुरम्, मेघालय:, मिजोरम:, नगालैण्ड:, सिक्किम:, त्रिपुरा, उत्तराखण्ड:, कर्नाटकम्, केरलम्, महाराष्ट्रम्, तमिलनाडु: पश्चिमबंगाल: चेत्येतेषु १५ राज्येषु कुल १००० कोटिरूप्यकाणां मूल्येन राष्ट्रिय- भूस्खलनसंकटनिवृत्तिपरियोजनायाः अनुमोदनं कृतम् अस्ति। समितिना उत्तराखण्डाय १३९ कोटिरूप्यकाणि, हिमाचलप्रदेशाय १३९ कोटिरूप्यकाणि, ८ पूर्वोत्तरराज्यानां कृते ३७८ कोटिरूप्यकाणि, महाराष्ट्राय १०० कोटिरूप्यकाणि, कर्नाटकाय ७२ कोटिरूप्यकाणि, केरलाय ७२ कोटिरूप्यकाणि, तमिलनाडुप्रान्तस्य कृते ७२ कोटिरूप्यकाणि विनियोजितानि सन्ति, उत्तरप्रदेशस्य कृते ५० कोटिरूप्यकाणि, पश्चिमबङ्गस्य कृते ५० कोटिरूप्यकाणि च अनुमोदितानि।

उच्चस्तरीयसमित्या सर्वेषु राज्येषु केन्द्रशासितक्षेत्रेषु च नागरिकरक्षायाः प्रशिक्षणार्थं क्षमतानिर्माणार्थं च कुलव्ययस्य ११५.६७ कोटिरूप्यकाणां अन्याया: परियोजनायाः अनुमोदनं कृतम् अस्ति। ततः पूर्वं समितिः राष्ट्रिय- आपदानिवारणकोषात् सप्तनगरेषु ३०७५.६५ कोटिरूप्यकाणां कुलव्ययस्य ४ राज्येषु १५० कोटिरूप्यकाणां च नगरीय-जलोप्लवन-संकटनिवृत्तिपरियोजनानां अनुमोदनं कृतवती आसीत्।

देशे आपद: प्रभावी प्रबन्धनं सुनिश्चित्य गृहमन्त्रालयेन अनेके उपक्रमाः कृताः। भारते आपदा-संकट-निवृत्ति-व्यवस्थां सुदृढां कृत्वा आपदा-समये जीवन-सम्पत्त्याः च महतीं क्षतिं निवारयितुं अनेकानि पदानि गृहीतानि सन्ति । अस्मिन् वर्षे राज्येभ्यः २१,४७६ कोटिरूप्यकाधिकं धनं पूर्वमेव मुक्तम् अस्ति । अस्मिन् राज्य आपदाप्रतिक्रियाकोषात् २६ राज्येभ्यः १४,८७८.४० कोटिरूप्यकाणि, राष्ट्रिय आपदाप्रतिक्रियाकोषात् १५ राज्येभ्यः ४,६३७.६६ कोटिरूप्यकाणि, राज्यविपदाशमनकोषात् ११ राज्येभ्यः १३८५.४५ कोटिरूप्यकाणि, राष्ट्रियविपदाशमनकोषात् ६ राज्येभ्यः ५७४.९३ कोटिरूप्यकाणि च समाविष्टानि सन्ति ।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: amit shah, centre government, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, Home ministry India, HP NEWS, अमित शाह, केन्द्रीयगृहमन्त्री, गृहमन्त्रालय, दिव्य हिमाचल समाचार, भारत सरकार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article CM Sukhu : हरित हिमाचलस्य समृद्धस्य हिमाचलस्य च स्वप्नः साकारः भविष्यति, सर्वकारः निरन्तरप्रयत्नान् कुर्वन् अस्ति
Next Article प्रधानमन्त्री निःशुल्कसौरगृहविद्युत्योजनायाः अन्तर्गतं छदौ सौरप्रणालीस्थापने गुजरातराज्यं अग्रणीराज्यम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?