By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संविधानदिवसः- संस्कृतभाषायाम् अनुदितां संविधानप्रतिं विमोचितवती राष्ट्रपतिः द्रौपदीमुर्मुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > संविधानदिवसः- संस्कृतभाषायाम् अनुदितां संविधानप्रतिं विमोचितवती राष्ट्रपतिः द्रौपदीमुर्मुः
राष्ट्रीयवार्ताःदिवसविशेषः

संविधानदिवसः- संस्कृतभाषायाम् अनुदितां संविधानप्रतिं विमोचितवती राष्ट्रपतिः द्रौपदीमुर्मुः

डॉ.अमनदीप शर्मा
Last updated: 2024/11/27 at 7:02 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

संविधानदिवसः- संस्कृतभाषायाम् अनुदितां संविधानप्रतिं विमोचितवती राष्ट्रपतिः द्रौपदीमुर्मुः
हिमसंस्कृतवार्ताः। संविधानदिवसावसरे भारतसर्वकारेण एकवर्षपर्यन्तं प्रचल्यमानस्य समारोहस्य प्रारम्भः कृतः। अयं समारोहः समग्रदेशे आयोज्यते। अवधेयं वर्तते यत् संविधानसभया नवचत्वारिंशदधिक- नवदश- शततमे वर्षे नवम्बरमासस्य षड्विंशे दिनाङ्के संविधानं अङ्गीकृतम् तत्पश्चात् पञ्चाशदधिक- नवदश- शततमे वर्षे जनवरीमासस्य षड्विंशे दिनाङ्के क्रियान्वितं जातम्। अत्रावसरे राष्ट्रपतिः द्रौपदीमुर्मुः संविधान-सदनस्य केन्द्रीयकक्षे आयोजितं एकं भव्यं कार्यक्रम सम्बोधितवती यत् भारतीय-संविधानं एकं जीवितं प्रगतिशीलं च ग्रन्थरत्नं वर्तते। यस्य माध्यमेन भारतदेशेन सामाजिकन्याय- समावेशिविकासयोः लक्ष्याः प्राप्ताः। एतदनन्तरं राष्ट्रपतिः जनैः आग्रहं कृतवती यत्ते सांवैधानिक-आदर्शानाम् अनुपालनं कुर्युः इति। राष्ट्रपतिः अग्रे अवदत् यत् भारतीय संविधानस्य प्रस्तावनायां न्याय स्वतन्त्रता- समानता-बन्धुत्वानाम् आदर्शाः समङ्किताः। स्वकीये सम्बोधने राष्ट्रपतिः पञ्चदश महिला- सदस्यानां योगदानमपि स्मृतवती। एतासां महिलानां संविधानसभायां महत्वपूर्णभूमिकाः आसन्। तदनु उपराष्ट्रपतिः जगदीपधनखडः प्रोक्तवान् यत् अयं संविधानस्य पञ्चसप्ततितमः दिवसः भविष्याय बृहत्तमं सोपानं वर्तते। इयं विश्वस्य बृहत्तमाय गतिशीलाय लोकतन्त्राय महत्वपूर्णा उपलब्धिः विद्यते। अत्रान्तरे लोकसभा अध्यक्षः ओम् बिरलाः निजसम्बोधने अकथयत् यत् भारतीयसंविधानं देशस्य नागरिकाणां वर्षाणां तपसः योगदानस्य प्रतिभायाः शक्तेः च परिणामं विद्यते।
कार्यक्रमस्य वेलायां राष्ट्रपतिः एकस्याः स्मारकमुद्रायाः एकस्याः प्रैष्य-चिटिकायाः च अनावरणं कृतवती। अस्मिन् संविधान दिवसावसरे प्रधानमन्त्री नरेन्द्रमोदी केन्द्रीयमन्त्रिणः विपक्ष दलस्य नेतारः अन्ये च जनाः सम्मिलिताः अभवन्। प्रधानमन्त्री अस्मिन् अवसरे समेभ्यः नागरिकेभ्यः शुभकामनाः प्रदत्तवान्। उक्तवान् च यत् संविधानं राष्ट्रस्य मार्गदर्शकत्वेन अस्ति। तत्रैव नवदिल्ल्यां सर्वोच्चन्यायालये आयोजिते समारोहे भारतस्य मुख्यन्यायाधीशः सञ्जीवखन्नाः समारोहं सम्बोधितवान्। अवधेयं वर्तते यत् संविधानदिवसस्य पञ्चसप्ततितमे वर्ष- अवसरे राष्ट्रपतिः द्रौपदीमुर्मुः संस्कृतभाषायाम् अनुदितां संविधानप्रतिं विमोचितवती।

You Might Also Like

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

TAGGED: cmo himachal, him sanskritam, Himachal government, Himachal news, Himachal Sanskrit Academy, Himsanskritnews, narendra modi, pmo, Sanskrit news, sanskrit news channel, varta, vartah, आज के संस्कृत समाचार, दैनिक समाचार, संविधानं, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article mohinidey, arrahman मोहिनी डे अवदत् ए.आर.रहमानः मम पितुः इव अस्ति
Next Article HRTC BOD MEETING : १,००० नवीनानानि बसयानानि, १८९ नियुक्त्य:, क्षीरं शाकं च प्रेषयितुं भाटकं न स्वीक्रियते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?