Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये
आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
वार्ताहर: – डॉ. नरेन्द्र राणा
गतदिवसे Online संस्कृतशिक्षणम् जनसंचार-आमुखपटलसमूहे राजस्थानत: संस्कृताध्यापक: कुलदीप चौरसियावर्यस्य जन्मदिवसोपलक्ष्ये आयोजिताया: एका-विशेषा-प्रतियोगिताया: आयोजनम् अभवत् । एषां संस्कृत-प्रश्नोत्तरी प्रतियोगितायाम् मध्यप्रदेशात् राहुल शास्त्री: प्रथम-स्थानं प्राप्तं कृतवान्, द्वितीयं स्थाने ओडिशात: नम्रता दोरा, तृतीय-स्थाने च उत्तरप्रदेशात् प्रशांत बिपिन सिंह वर्तते। प्रतियोगिताया: पुरस्कार-प्रायोजक: राजस्थानत: संस्कृताध्यापक: कुलदीप चौरसिया, आयोजकश्च गुजरातत: राष्ट्रीय संस्कृत प्रचारक: जगदीश डाभी आसीत्। ध्यातव्यं वर्तते यद् Online संस्कृतशिक्षणम् द्वारा प्रतिरविवासरे ऑनलाइन संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: आयोजनं क्रियते। पुरस्कार-प्रायोजक: राजस्थानत: संस्कृताध्यापक: कुलदीप चौरसियावर्य: सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति ।