CM Sukhu : विकासस्य कारणेन राज्यस्य अर्थव्यवस्था सम्यक् दिशि गच्छति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – सिरमौरम्।
मुख्यमंत्री सुखविंदरसिंहसुक्खु: सिरमौरजनपदस्य पच्छाद- विधानसभाक्षेत्रस्य अन्तर्गतं भूरेश्वरमहादेवमन्दिरे प्रार्थनां कृत्वा मेलापकस्य उद्घाटनं कृतवान्। तेन मन्दिरपरिसरे भगवतः शिवस्य नवीनप्रतिमायाः अनावरणं कृत्वा वनवाटिका-भूरेश्वरस्य, क्वागधर हेलीपैड-इत्यस्य च उद्घाटनं कृतम्। अस्मिन् अवसरे जनसभां सम्बोधयन् मुख्यमन्त्री अवदत् यत् राज्यसर्वकारेण व्यवस्थापरिवर्तनद्वारा हिमाचलप्रदेशं स्वनिर्भरं कर्तुं संकल्पः कृत:। अनेकोन्नयनानां फलस्वरूपं राज्यस्य अर्थव्यवस्था सम्यक् दिशि गच्छति। सः अवदत् यत् राज्यसर्वकारः २०२७ वर्षपर्यन्तं हिमाचलप्रदेशं स्वनिर्भरं, २०३२ तमे वर्षे च सर्वाधिकं समृद्धं राज्यं कर्तुं प्रयतते। ग्राम्य-अर्थव्यवस्थायाः सुदृढीकरणाय अनेकानि सार्थकानि पदानि क्रियन्ते इति सः अवदत्।
मुख्यमंत्री सुखविन्दरसिंहसुक्खु: ल्वासाचौकीतः चण्डीगढमार्गस्य विस्तारं कर्तुं निर्देशं दत्तवान्। सः अवदत् यत् भूरेश्वरमहादेवक्षेत्रस्य विकासः इको-पर्यटनस्य दृष्ट्या भविष्यति, येन क्षेत्रस्य अर्थव्यवस्था सुदृढा भविष्यति, क्षेत्रस्य जनानां कृते रोजगारस्य, स्वरोजगारस्य च अवसराः प्रदास्यन्ति। सः अवदत् यत् राज्यसर्वकारः शिक्षायाः स्वास्थ्यस्य च क्षेत्रे बृहत् परिवर्तनं आनयति, सकारात्मकाः परिवर्तनाः उद्भवन्ति। सः अवदत् यत् वर्तमानराज्यसर्वकारेण ६००० शिक्षकपदानि स्वीकृतानि सन्ति। सः अवदत् यत् ३००० शिक्षकाणां वर्गश: नियुक्तिः कृता अस्ति तथा च ३००० पदानाम् नियुक्तिप्रक्रिया प्रचलति। सः अवदत् यत् वर्तमानसर्वकारः नूतनानां संस्थानां उद्घाटनस्य स्थाने पूर्वमेव उद्घाटितासु संस्थासु आधारभूतसंरचना, कर्मचारिणः च प्रदातुं प्राथमिकताम् अददात् येन बालकानां कृते सर्वकारीयविद्यालयेषु उत्तमं गुणात्मकं च शिक्षां प्रदातुं शक्यते।
मुख्यमन्त्री उक्तवान् यत् निर्वाचनलाभान् दृष्ट्वा पूर्वभाजपासर्वकारेण नूतनानां विद्यालयानां सूचनाः निर्गताः यत्र किमपि बजटप्रावधानं न कृतम् यस्मिन् सुविधानां नाम्ना किमपि न कृतम्। पूर्वसर्वकारस्य नीतीनां कारणात् गुणात्मकशिक्षायाः दृष्ट्या हिमाचलप्रदेशः देशे २१तमं स्थानं प्राप्तवान् इति सः अवदत्। सः अवदत् यत् वर्तमानराज्यसर्वकारः प्रत्येकस्मिन् क्षेत्रे विकासात्मकानि पदानि गृह्णाति, तस्मिन् आगच्छन्तः बाधाः जनसहकारेण पारिताः भवन्ति। अस्मिन्नवसरे विधायक: अजय सोलंकी, हिमाचलप्रदेशविधानसभाया: पूर्वाध्यक्ष गंगुराममुसाफिर:, कांग्रेसनेतृ दयालप्यारी आदय: गणमान्या: उपस्थिता: अभवन्।