By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: 51st AIOC UDUPI : योगगुरुणा स्वामीरामदेवेन तत्वनगर्य्याम् उडुपी-कृष्णमठे कृतम् ५१ तमस्य अखिलभारतीय- प्राच्यविद्यासम्मेलनस्य उद्घाटनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > 51st AIOC UDUPI : योगगुरुणा स्वामीरामदेवेन तत्वनगर्य्याम् उडुपी-कृष्णमठे कृतम् ५१ तमस्य अखिलभारतीय- प्राच्यविद्यासम्मेलनस्य उद्घाटनम्
प्रादेशिकवार्ताराष्ट्रीयवार्ताः

51st AIOC UDUPI : योगगुरुणा स्वामीरामदेवेन तत्वनगर्य्याम् उडुपी-कृष्णमठे कृतम् ५१ तमस्य अखिलभारतीय- प्राच्यविद्यासम्मेलनस्य उद्घाटनम्

डॉ मनोज शैल
Last updated: 2024/10/25 at 7:50 AM
डॉ मनोज शैल
Share
3 Min Read
SHARE

51st AIOC UDUPI : योगगुरुणा स्वामीरामदेवेन तत्वनगर्य्याम् उडुपी-कृष्णमठे कृतम् ५१ तमस्य अखिलभारतीय- प्राच्यविद्यासम्मेलनस्य उद्घाटनम्

अग्रिमयुग: संस्कृतस्य सनातनस्य च- योगगुरु: स्वामीरामदेव:

हिमसंस्कृतवार्ता: – उडुपी।

अखिलभारतीयप्राच्यविद्यासम्मेलनं पुणेद्वारा भारतीयविद्वत्परिषत् पर्यायश्रीपुत्तिगेमठ: केन्द्रीयसंस्कृतविश्वविद्यालय: नवदेहली इत्येतेषां संयुक्तोपक्रमे तत्त्वनगर्य्याम् उडुपी-कृष्णमठे ५१ तमस्य अखिलभारतीयप्राच्यविद्यासम्मेलनस्य उद्घाटनं योगगुरुणा स्वामीरामदेवेन कृतम्। दिल्लीनगरस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेडी इत्यनेन ५१तमे अखिलभारतीयप्राच्यविद्यासम्मेलने समागतानां सर्वेषां सत्पुरुषाणाम् आचार्याणां विदुषां शोधपत्रप्रस्तोतॄणां प्रतिनिधीनां च स्वागतम् विहितम्। प्रो. वरखेडी इत्यनेन अपि उक्तं यत् भारतस्य बौद्धिक-ऐतिहासिकस्थले उडुपीनगरे संस्कृतजगतः विविध- आध्यात्मिक- धार्मिकक्षेत्रेभ्यः विद्वांसः, भारतीयसंस्कृतेः, संस्कृतविषयाणां च विविधशाखानां विद्वांसः, तथैव संस्कृतविषयाणां च विभिन्नराज्यानां छात्राः समागता: सन्ति। अतः एतद् गौरवस्य विषय: वर्तते। उद्घाटनसत्रं सम्बोधयता कथितं यत् अग्रिमयुग: संस्कृतस्य सनातनस्य च अस्ति। स: काल: आयाति यदा जना: वदिष्यन्ति यत् संस्कृतेन सर्वं कर्तुं शक्यते। जना: वदन्ति स्म संस्कृतं पठित्वा किं करिष्यति। परञ्च अहं गुरुकुले पठित्वा संस्कृतं पठित्वा योगविद्यया पतञ्जलि- उद्योगेन च बहुकिमपि साधितवान्। अस्मिन् अखिलभारतीये प्राच्यविद्यासम्मेलने संस्कृतविदुषां छात्राणां समागमेन एतत् स्पष्टीभूतं एत् अग्रिमकाल: संस्कृतस्य काल: अस्ति।

 

पतञ्जलिविश्वविद्यालयस्य हरिद्वारस्य कुलपति: आयुर्वेदाचार्य: आचार्य: बालकृष्ण: अपि स्वीयान् विचारान् प्रकटितवान्, उक्तवान् च यत् अस्माभि: यद् साहित्यं पठ्यते सम्प्रति तस्य परिमार्जनस्य आवश्यकता अस्ति। अस्माकं भारतीये इतिहासे बहुकिमपि दूषितमस्ति यस्य अनुसन्धानम् आवश्यकम् वर्तते। सर्वकारः तु स्वकीयं कार्यं करोति परन्तु पतञ्जलिसंस्थानम् स्वीये स्तरे अपि इतिहासलेखनस्य अनुसन्धानस्य च कार्यं करोति। वैश्विकेतिहासस्य प्रायश: १० सहस्रस्थलानि अस्माभि: अन्वेषितानि। सम्मेलनं सरलस्य सम्भाषणात्मकस्य च संस्कृतस्य प्रवर्तकः शिक्षाविदः, भारतसर्वकारस्य भारतीय- भाषा- परिषदश्च अध्यक्षः पद्मश्री चमुकृष्णशास्त्री महोदय: अपि सम्बोधितवान्। केन्द्रीय- संस्कृत- विश्वविद्यालयस्य प्रकाशनविभागस्य पुस्तक- श्रृंखलानां सम्पादक: एवं संयुक्तनिदेशक: प्रो. सुज्ञान कुमार मोहन्ती एवं प्रो. गणेश टी. पण्डितः (उभौ) ज्ञापितवन्तौ यत् कुलपतिवर्यस्य दूरदर्शी मार्गदर्शनेन सरलमानकसंस्कृतं (SSS) जनानां कृते सुलभं कर्तुं, तस्य अग्रे प्रचारार्थं च तत्सम्बद्धानि बहूनि पुस्तकानि अपि सम्मेलने विमोचितानि। उल्लेखनीयं यत् कुलपतिः प्रो. श्रीनिवासवरखेड़ी इत्यनेन लिखितस्य संस्कृतभाषायां लिखितस्य अतीव महत्त्वपूर्णस्य स्वतन्त्रसमीक्षापुस्तकस्य ‘शास्त्रपद्धतिः’ इत्यस्यापि मुख्यातिथिना विद्वद्भि: गणमान्यजनैः साकं च विमोचनं कृतम्। यस्य हिन्दीभाषायां अनुवादः प्रो अजयकुमारमिश्र: केन्द्रीयसंस्कृतविश्वविद्यालय: अकरोत्। अखिलभारतीये प्राच्यविद्यासम्मेलने अस्मिन् पारम्परिकपरम्पराभि: सर्वेषाम् अभिनन्दनं विहितम्। अष्टौ मठानाम् उडुपिनगर्य्यां मठानाम् पूज्यानां स्वामिनाम् उपस्थितौ सम्मेलनस्य गौरवम् इतोऽपि वर्धितम्। सर्वै: पूज्यपादै: मुख्यातिथिना स्वामीरामदेवेन च संस्कृते एवं सम्बोधनम् कृतम्। सम्मेलने प्राच्यविद्याया: संस्कृतस्य विविधविषयाणां पक्षेषु प्राय: २५ स्थलेषु शोधपत्राणां प्रस्तुतय:, युवकविसङ्गोष्ठी, सांस्कृतिका: कार्यक्रमा:, युवपण्डितपरिषद्, वादकथाविनोद:, भारतीयज्ञानपरम्परा दशा दिशा च इत्यादय: विविधा: कार्यक्रमा: अपि भविष्यन्ति।

 

सम्मेलने योगगुरु बाबारामदेव द्वारा त्रिदिवसात्मकं योगशिविरम्

ध्यातव्यं वर्तते यत् सम्मेलने अस्मिन् पतञ्जलिविश्वविद्मालयस्य अपि सहयोग: वर्तते। योगगुरु बाबारामदेव: आचार्य: बालकृष्णश्च पूर्वदिने एव विशेषविमानेन उडुपीम् प्राप्तवन्तौ। अखिलभारतीये प्राच्यविद्यासम्मेलने सर्वेभ्य: त्रिदिवसात्मकस्य योगशिविरस्य प्रातःकालीन सत्रस्य आयोजनम् क्रियते।

 

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: AIOC, Himachal news, himsanskritnews headlines, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article राष्ट्रीयवार्ताः- ब्रिक्ससम्मेलने नरेन्द्रमोदी, प्रियङ्कागान्धिनः पूरितः नामाङ्कनम्
Next Article Himachal News : हिमाचलस्य प्रमुखा: संस्कृतवार्ता: – केन्द्रीयमन्त्रिणा नितिनगडकरिणा सह अमिलत् मुख्यमंत्री सुक्खुः
1 Comment 1 Comment
  • Seetharamaiah srinivas says:
    October 25, 2024 at 8:31 am

    🙏🙏

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?