By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ताः- ब्रिक्ससम्मेलने नरेन्द्रमोदी, प्रियङ्कागान्धिनः पूरितः नामाङ्कनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रीयवार्ताः- ब्रिक्ससम्मेलने नरेन्द्रमोदी, प्रियङ्कागान्धिनः पूरितः नामाङ्कनम्
राष्ट्रीयवार्ताः

राष्ट्रीयवार्ताः- ब्रिक्ससम्मेलने नरेन्द्रमोदी, प्रियङ्कागान्धिनः पूरितः नामाङ्कनम्

डॉ.अमनदीप शर्मा
Last updated: 2024/10/23 at 8:07 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
5 Min Read
SHARE

राष्ट्रीयवार्ताः-प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतिना शी जिनपिंग इत्यमुना साकं ब्रिक्ससम्मेलनावधौ कृतवान्

हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी रूसदेशस्यकजाननगरे ब्रिक्सइति शिखरसम्मेलनवधौ चीनदेशीयेन राष्ट्रपतिना शी जिनपिंग इत्यमुना साकं द्विपक्षीय सम्वादं कुर्वनस्ति। उपवेशनमिदं वास्तविक-नियन्त्रण-रेखायाः प्रहरित्वप्रबन्धनम् आधृत्य चीनभारतदेशयोर्मध्ये सजातनिर्णायस्य अनन्तरं महत्वपूर्णमस्तीति। प्रधानमन्त्रिणः श्रीमोदिनः चीनदेशस्य राष्ट्रपतेः मध्ये एतत् उपवेशनं विगतेषु पञ्चवर्षेषु प्रथमं सुनियोजितम् उपवेशनम् अस्ति। ह्यः श्रीपुतिनेन साकं जाते उपवेशने श्रीमोदी सबलं प्रतिपादितवान् यत् भारतं रूस-युक्रेन देशयोः सङ्घर्षस्य शान्तिपूर्णसमाधानाय साहाय्यं दास्यति। विदेशसचिवः विक्रममिस्री इत्येषः वार्ताहरान् सम्बोधितवान् यत् श्रीमोदी राष्ट्रपतिना श्रीपुतिन इत्यनेन साकं जातस्य सम्वादस्य विषये सूचना प्रदत्ता। प्रधानमन्त्री नरेन्द्रमोदी ब्रिक्सराष्ट्रेभ्यः आतङ्कवादं आतङ्कवित्तपोषणं च निवारणाय सम्भूय सहकार्यं कर्तुं आहूतवान्। सः अवदत् यत् एतादृशे गभीरविषये द्विगुणमनोभावस्य स्थानं नास्ति। कजाननगरे षोडशतमे ब्रिक्स शिखरसम्मेलनस्य समापनसत्रे श्रीमोदी यूनां मध्ये कट्टरतावादतां निवारयितुं सक्रियपदक्षेपानाम् आवश्यकतायाः उपरि बलं दत्तवान्। सः संयुक्तराष्ट्रसङ्घस्य अन्ताराष्ट्रिय-आतङ्कवाद-सम्बद्धस्य व्यापक-सम्मेलनस्य लम्बित-विषये एकत्र कार्यं कर्तुं आवाहनं कृतवान्।

सर्वोच्चन्यायालयेन उक्तं यत् वायुगुणवत्ताप्रबन्धनायोगस्य (CAQM) अधिनियमान्तर्गतं धान्यापशिष्टदहनदण्डस्य प्रावधानं कार्यान्वितं न भवति
हिमसंस्कृतवार्ताः। सर्वोच्चन्यायालयेनोक्तं यत् वायुगुणवत्ताप्रबन्धनायोगस्य (CAQM) इत्यस्य अधिनियमान्तर्गतं धान्यापशिष्टदहनदण्डस्य प्रावधानं कार्यान्वितं न भवति। सर्वोच्चन्यायालयेन उक्तं यत् वायुगुणवत्ताप्रबन्धनआयोगस्य (CAQM) इत्यस्य अधिनियमः वायुप्रदूषणं निवारणाय विधेः कार्यान्वयनाय आवश्यकयन्त्राणां निर्माणं विनैव निर्मितः। केन्द्रस्य प्रतिनिधित्वेन ऐश्वर्या भाटी न्यायालयाय आश्वासनं दत्तवती यत् दशसु दिवसेषु अधिनियमाः अन्तिमरूपेण निर्धारिताः पूर्णतया कार्यान्विता च भविष्यन्ति। पञ्जाब-हरियाणा राज्ययोः सर्वकारेण दोषिणः विरुद्धं धान्यअपशिष्टदहनस्य विषये किमपि कार्याचरणं न सम्पादितम् अस्मिन् विषये अपि सर्वोच्चन्यायालयेन उक्तम्।

केरले कांग्रेस-प्रत्याशिना प्रियंका-गान्धिना वायनाड-संसदीयक्षेत्रात् स्वीयनामाङ्कनं निवेदितम्
केरले कांग्रेस-प्रत्याशिना प्रियंका-गान्धिना गतबुधवासरे मध्याह्न वायनाड-संसदीयक्षेत्रात् स्वीयनामाङ्कनं निवेदितम्। अस्मिन् निर्वाचन क्षेत्रे उपनिर्वाचनं अग्रिममासस्य त्रयोदशदिनाङ्के चेलाक्कारा-पलक्कड़-विधानसभाक्षेत्रैः सह भविष्यति। निर्वाचनद्वन्द्वे प्रियंकागान्धिनः अयं प्रथमः पदक्षेपः भविष्यति। कलपेट्टानगरे तस्याः आगमने भव्यं स्वागतम् अभवत्। तत्र सहस्त्रशैः दलकार्यकर्तृभिः करताडनेन, ध्वजोत्तोलनेन सहैव जयद्योषेण सह तस्याः स्वागतं कृतम्। सा विपक्षनेत्रा राहुलगान्धिना, एआईसीसी, महासचिवेन सी वेणुगोपालेन सह, तथैव कांग्रेसस्य एवं यूडीएफगठबन्धनस्य सहयोगिभिः सह पथपदर्शने-भागं गृहीतवती । प्रियंका गान्धिना सह कांग्रेसस्य अध्यक्षः मल्लिकार्जुन खड्गे, लोकसभायां विपक्षनेता राहुलगान्धिः, कांग्रेससंसदीय- दलस्य नेतृ सोनिया गान्धी इत्येषपि आसीत्।

शिवसेनादलेन राष्ट्रवादी कांग्रेसदलेन च आगामिने महाराष्ट्र-विधानसभा निर्वाचनार्थं स्वप्रत्याशिनां नामोद्योषणं विहितम्
हिमसंस्कृतवार्ताः। शिवसेना दलेन राष्ट्रवादी कांग्रेसदलेन च आगामिने महाराष्ट्र-विधानसभा निर्वाचनार्थं स्वप्रत्याशिनां नामोद्योषणं विहितम्। राष्ट्रवादी-कांग्रेसदलेन बुधवासरे महाराष्ट्रविधानसभा- निर्वाचनार्थं अष्टत्रिंशत्-प्रत्याशिनां स्वीय-प्रथमा सूचिः निस्सारिता। तत्र उपमुख्यमन्त्री अजीत- पवारः बारामती-निर्वाचनक्षेत्रात् वर्तते। यस्य सः वर्तमाने प्रतिनिधित्वं कुर्वन्नस्ति। अपरत्र छगन- भुजबल इत्येषः येओलातः, दिलीप-वलसे-पाटिलः, अम्बेगांवक्षेत्रात्, हसन मुश्रीफः कागलतः, धनञ्जय-मुण्डे च परलीतः निर्वाचनद्वन्द्वे भागं भजिष्यति। विधानसभायाः उपाध्यक्षः नरहरि झिरवालः, धर्मराव आत्रामः, अदिति तटकरे इत्येते क्रमशः डिंडोरी-अहेरी-श्रीवर्धनक्षेत्रैः निर्वाचनद्वन्द्वे आगन्तुं सन्नद्धाः सन्ति। शिवसेनया स्वीय-पञ्चत्चत्त्वारिंशत् प्रत्याशिनां समुद्योषणा कृता। तत्र मुख्यमन्त्री एकनाथ शिंदे इत्येषः कोचरी-पचपाखड़ी क्षेत्रात् पुनः निर्वाचने भागं भजिष्यति। अस्य क्षेत्रस्य सः वर्तमानेऽपि प्रतिनिधित्वं कुर्वन्नस्ति। एतदतिरिरच्य राज्यमन्त्री अब्दुल सत्तारः सिल्तोऽक्षेत्रात्, सञ्जय राठौड़ः दिग्रसक्षेत्रात्, संतोष-बांगरः कलमनुरीतः, सहैव सञ्जय-शिरसाटः छत्रपति संभाजीनगर-पश्चिममतः निर्वाचने भागं ग्रहीष्यति। अत्रान्तरे महाराष्ट्र-नवनिर्माणसेनया अपि पञ्चच्चत्त्वारिंशत्-प्रत्याशिनां स्वीया द्वितीय सूचिः निस्सारिता। मनसे-प्रमुखस्य राज-ठाकरे इत्यस्य पुत्रः अमित ठाकरे माहिमक्षेत्रात् निर्वाचनार्थं सन्नद्धो वर्तते।

एनडीआरएफ इत्यनेन दाना चक्रवातस्य आगमनात् पूर्वं ओडिशायां विंशतिदलानि नियोजितानि
एनडीआरएफ इत्यनेन दाना चक्रवातस्य आगमनात् पूर्वं ओडिशायां विंशतिदलानि तथैव पश्चिमबंगाले त्रयोदशदलानि नियोजितानि सन्ति। दाना-चक्रवातस्य आगमनात्पूर्वं ओडिशा- प्रशासनेन संचेतना-प्रसारिता शिक्षण-संस्थानानि च दिनत्रयं यावत् पिहितानि। नवदिल्ल्यां वार्ताहरैः सह संवादकाले एनडीआरएफ-इत्यस्य उपमहानिरीक्षकेन मोहसेन-शाहिदी इत्यमुना कथितं यत् पश्चिमबंगाले चत्वारि दलानि भिन्नतया स्थापितानि सन्ति। तेन प्रोक्तं यत् आन्ध्रप्रदेशस्य विजागस्थानेऽपि सन्नद्धता वर्तते। उपमहानिरीक्षकेन कथितं यत् छत्तीसगढेन सह झारखण्डेऽपि दलानि सन्ति।

देशे ऋतोः पूर्वानुमानं सम्प्रति ग्राम पंचायत-स्तरेषु अपि उपलब्धो भविष्यति
देशे ऋतोः पूर्वानुमानं सम्प्रति ग्राम पंचायत-स्तरेषु अपि उपलब्धो भविष्यति। ग्रामपञ्चायतानां कृते ऋतोः पूर्वानुमानं प्रदातुं प्रतिहोरासु ऋतोः पूर्वसूचनायाः निरीक्षणस्य सौविध्येन सह आरभ्य एकं महत्त्वपूर्ण परिवर्तनकारी च उपक्रमं सर्वकारेण प्रारभ्यते। पंचायती राजमंत्री राजीवरंजनसिंहः नवदिल्ल्यां अस्य उपक्रमस्य शुभारंभं करिष्यति।

पंजाबप्रान्ते आरक्षिदलेने धान्यापशिष्टदहनस्य दोषिणः विरुद्धं विध्याधारितं कार्याचरणम् कर्तुं वृहद् अभियानं समारब्धम्
हिमसंस्कृतवार्ताः। सर्वोच्चन्यायालयस्य वायुगुणवत्ताप्रबन्धनायोगस्य च निर्देशानां अनुपालनेन धान्यअपशिष्टदहन प्रकरणेषु न्यूनताऽनेतुं पंजाब-आरक्षिणः कृषकान् धान्यअपशिष्टदहनस्य हानिकारकप्रभावविषये शिक्षितुं तथा च दोषिणः विरुद्धं विध्याधारितं कार्याचरणम् कर्तुं वृहद् अभियानं समारब्धम् अस्ति । आरक्षी, विधि व्यवस्थायाः महानिदेशकाय अर्पित शुक्लवर्याय निरीक्षणाय समुचितकार्याचरणाय च नियुक्तः अस्ति।

क्रिकेटक्रीडावार्ता
क्रिकेटप्रतिस्पर्धायां, भारतन्यूजीलैण्डदलयोर्मध्ये द्वितीया क्रिकेट निकषस्पर्धा पुणेनगरस्य महाराष्ट्र-क्रिकेट-सङ्घ-क्रीडाङ्गणे गुरुवासरे प्रातः सार्धनववादनतो भविष्यति।

अक्टूबरमासस्य सप्तविंशे दिना‌ङ्के भविष्यति ‘मन की बात’ कार्यक्रमः
प्रधानमन्त्री नरेन्द्र मोदी इत्येषः अक्टूबरमासस्य सप्तविंशे दिना‌ङ्के आकाशवाण्याः ‘मन की बात’ इत्यस्मिन् कार्यक्रमे देश-विदेशस्थजनैः सह स्वविचारान् विनिमयीकरिष्यति। इदं मासिक- रेडियो – कार्यक्रमस्य पञ्चदशाधिकशततमं संस्करणं भविष्यति।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

TAGGED: राष्ट्रीय समाचार, समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article HP Cabinet Decisions – २०६१ वनमित्राणां नियुक्त्यर्थं स्वीकृति:, ईकोपर्यटननीति:-२०१७ इत्यत्र संशोधनस्य निर्णय:
Next Article 51st AIOC UDUPI : योगगुरुणा स्वामीरामदेवेन तत्वनगर्य्याम् उडुपी-कृष्णमठे कृतम् ५१ तमस्य अखिलभारतीय- प्राच्यविद्यासम्मेलनस्य उद्घाटनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?