By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National & International News :  अल्जीरिया-मॉरिटानिया-मलावी-इत्येतेषां यात्रायाम् अस्ति भारतस्य राष्ट्रपतिः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National & International News :  अल्जीरिया-मॉरिटानिया-मलावी-इत्येतेषां यात्रायाम् अस्ति भारतस्य राष्ट्रपतिः
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताः

National & International News :  अल्जीरिया-मॉरिटानिया-मलावी-इत्येतेषां यात्रायाम् अस्ति भारतस्य राष्ट्रपतिः

डॉ मनोज शैल
Last updated: 2024/10/13 at 10:02 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

National & International News :

अल्जीरिया-मॉरिटानिया-मलावी-इत्येतेषां यात्रायाम् अस्ति भारतस्य राष्ट्रपतिः

राष्ट्रपतिपदासीना द्रौपदी मुर्मुः त्रयाणां देशानां अल्जीरिया-मॉरिटानिया-मलावी-इत्येतेषां यात्रायाम् अस्ति। निज- यात्राप्रवासे राष्ट्रपतिः द्विपक्षीयोपवेशनानि विधास्यति। अपि च भारतीय-प्रवासिभिस्साकं सम्वादं समाचरिष्यति। इयं भारतस्य राष्ट्रपतेः त्रयाणां अफ्रीकीय-देशानां प्रथमायात्रा भवेत् इति। यात्रायाः प्रथमे चरणे राष्ट्रपतिः अल्जीरियां प्रति यास्यति। तदनु राष्ट्रपतिः द्रौपदीमुर्मुः पीपल्स-डेमोक्रेटिक रिपब्लिक ऑफ अल्जीरिया इत्येतस्य अध्यक्षेण अब्देलमजीद-तेब्बौने इत्यमुना साकं द्विपक्षीयोपवेशनं करिष्यति। तदनन्तरं राष्ट्रपतिः भारत-अल्जीरिया-आर्थिक मञ्चं सिदी-अबदेल्ला-विज्ञान-प्रौद्योगिकीय विश्वविद्यालयं च सम्बोधयिष्यति। यात्रायाः अन्तिम चरणे राष्ट्रपतिः मुर्मुः अक्टूबरमासस्य सप्तदशदिनाङ्कतः नवदशदिनांकपर्यन्तं मलावीदेशं प्रति यास्यति।

 

प्रधानमन्त्री नरेन्द्रमोदी गतिशक्तिराष्ट्रीयपरियोजनायाः वर्षत्रयाणां सम्पूर्तेः प्रशंसाम् अकरोत्

प्रधानमन्त्री नरेन्द्रमोदी प्रधानमन्त्री गतिशक्तिराष्ट्रीयपरियोजनायाः वर्षत्रयाणां सम्पूर्तेः प्रशंसाम् अकरोत् । सः अवदत् यत् एषा परियोजना भारतस्य आधारभूतसंरचनायां परिवर्तनं करोति, सममेव संपर्क च वर्धयति, येन विकसितभारतस्य परिकल्पनां साकारो भविष्यति। एकस्मिन् सामाजिकान्तर्जालीय संदेशमाध्यमेन श्रीमोदी प्रोक्तवान यत् देशे विकासस्य गतिशक्तिः बहुविधसंपर्क च वर्धितमस्ति तथा च विभिन्नक्षेत्राणां द्रुततरं विकासं सुनिश्चितम् अस्ति। सः अवदत् यत् विभिन्नानां हितधारकाणां एकीकरणेन सम्भारतंत्र व्यवस्था सुदृढा अभवत्, विलम्बेन कार्याचरणे न्यूनतागता, नैकेषां जनानां कृते नवीनाः जीविकावसराः सृज्यन्ते।

 

ओम-बिरला-लोकसभाध्यक्षः जिनेवानगरे सभायां संसदीय प्रतिनिधिमण्डलस्य नेतृत्वं समाचरिष्यति

हिमसंस्कृतवार्ताः। लोकसभाध्यक्षः ओमबिरलाः गतदिनाद् आरभ्य अस्य मासस्य सप्तदशदिना‌ङ्क यावत् जिनेवानगरे आयोक्ष्यमाणायां अन्तासंसदीय सङ्घस्य आई.पी.यू इत्याख्यस्य नवचत्वारिंशदुत्तरैकशततमायां सभायां संसदीय प्रतिनिधिमण्डलस्य नेतृत्वं समाचरिष्यति। श्रीबिरला इतोऽपि अधिकं शान्तिपूर्ण-सतत्-भविष्याय विज्ञान-प्रौद्योगिकी-नवाचाराणाम् उपयोगः इत्यस्मिन् विषये सभां सम्बोधयिष्यति। तदनु असौ अस्य मासस्य चतुर्दश-दिनाङ्‌के जिनेवानगरे भारतीयप्रवासिभिः समं वार्ता करिष्यति। अपरत्र असौ सभामध्ये अन्येषां संसदां स्वीयै समकक्षैः सहापि संवादं करिष्यति। अवधेयं वर्तते यत् भारतीयप्रतिनिधिमण्डले एतस्मिन् राज्यसभायाः उपराष्ट्रपतिः हरिवंशसिंहः उभयोः सदनयोः महासचिवः अन्ये च संसत्सदस्याः सम्मिलिताः सन्ति।

 

प्रधानमन्त्री-इन्टर्नशिप-योजनायाः पञ्जीकरणप्रक्रिया प्रारब्धा

हिमसंस्कृतवार्ताः। चतुर्विंशत्यधिक द्विसहस्रतम वर्षस्य प्रधानमन्त्री इन्टर्नशिप इति व्यवासायिक प्रशिक्षण-योजनायाः पञ्जीकरणप्रक्रिया गतसायं पञ्च वादनात् pminternship.mca.gov.in इत्यत्र आरभ्यत्। अस्मिन् वर्षे आय-व्यय संकल्पना-पत्रस्य प्रस्तुतेः पूर्वं घोषिता उपक्रमेण यूनां वास्तविकजीवने व्यापारवातावरणेषु हस्तगत अनुभवं प्राप्तुं सहयोगाय द्वादश मासस्य प्रशिक्षणं प्रदास्यति ।

 

 

पोलैंड-देशे अवैधप्रवासस्य निवारणाय केषाञ्चन् शरणाधिकाराणां अस्थायीनिलम्बनस्य घोषणां विहिता

हिमसंस्कृतवार्ताः। पोलैंड देशीयः प्रधानमन्त्री डोनाल्ड टस्कः देशे अवैधप्रवासस्य निवारणाय केषाञ्चन् शरणाधिकाराणां अस्थायीनिलम्बनस्य घोषणां विहितवान्। ह्यः वारसा नगरे सिविक प्लेटफार्म पार्टीति सम्मेलने प्रधानमन्त्री टस्कः यूरोपीयदेशैः एतस्य निर्णयस्य स्वीकरणस्य आवश्यकतायाः उपरि सबलं प्रतिपादितवान्। सः अवदत् यत् शत्रुदेशः मानवव्यापारिणः च तस्य दुरुपयोगं कुर्वन्ति। प्रधानमन्त्री श्रीटस्कः अवदत् यत् देशे आगतानां जनानां विषये सर्वकारस्य नियन्त्रणं भवेत्। सः आश्वासनं दत्तवान् यत् सर्वकारः अवैधप्रवासस्य निवारणं करिष्यति।

 

 

शरदपवारः-महाराष्ट्रस्य जनाः राजनैतिकपरिवर्तनार्थं उत्सुकाः सन्ति

हिमसंस्कृतवार्ताः। राष्ट्रवादीकांग्रेसदलप्रमुखः शरदपवारः उक्तवान् यत् महाराष्ट्रस्य जनाः राजनैतिकपरिवर्तनार्थं उत्सुकाः सन्ति तथा च आगामिराज्यविधानसभानिर्वाचनस्य परिणामे एषा भावना प्रतिबिम्बिता भविष्यति इति विश्वासमपि प्रकटितवान्। सः मुम्बईनगरे महाविकासअघाडीसंयुतेः संयुक्तवार्ताहरसम्मेलने अमुं भावं अवदत्। श्रीपवारः अवदत् यत् राज्य प्रशासनं देशस्य सर्वोत्तमम् प्रशासनम् आसीत् महायुतिशासने अस्य मनोबलं क्षीणं जातम्। महाविकास- अघाडीसंयुत्या विधिव्यवस्थायाः स्थितिः, महिलासुरक्षा, भ्रष्टाचारः, मादकद्रव्याणां समाह्वानं, कृषकाणां आत्महत्या, महाराष्ट्रात् उद्योगस्य स्थानान्तरणं च इत्यादिषु विविधविषयेषु सत्तारूढ महायुतिसर्वकारः प्रहारः कृतः।

 

ऋतु दशाजन्य-आपदाभ्यः बालान् संरक्षयितुं अन्ताराष्ट्रीयपरिकल्पनानां आह्वानं कृतवान् संयुक्तराष्ट्रसङ्घस्य महासचिवः

हिमसंस्कृतवार्ताः। गतदिने अन्ताराष्ट्रीयापत्शमनदिवसः आचरितः । आपत्निवारणे शिक्षायाः महत्त्वं प्रकाशयितुं अयं दिवसः आचर्यते । अस्मिन् अवसरे संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्येषः ऋतु दशाजन्य-आपदाभ्यः बालान् संरक्षयितुं अन्ताराष्ट्रीयपरिकल्पनानां आह्वानं कृतवान् । सः अवदत् यत् समाजं अर्थव्यवस्थां च विहाय आपदाः विशेषतया बालकानां उपरि विनाशकारकप्रभावं जनयति येन तेषां शिक्षा, स्वास्थ्यं, सुरक्षा च प्रभाविताः भवंति। गुटेरेस् इत्यनेन एतादृशानां विद्यालयानां निर्माणं कर्तुं जनेभ्यः आह्वानं विहितम् येन बालाः आपदाभ्यः सुरक्षिताः भवितुं शक्नुवन्ति।

 

टेबल टेनिस-भारतस्य अयिका मुखर्जी-सुतीर्था मुखर्जी इत्यनयोः शीर्ष-महिला-युगलेन ऐतिह्यं विनिर्मितमस्ति

हिमसंस्कृतवार्ताः। कजाकिस्तान-देशस्य आस्ताना-नगरे प्रचल्यमाणायां चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य एशियाई टेबल टेनिस इति प्रतियोगितायां देशस्य कृते प्रथमं पदकं भारतस्य अयिका मुखर्जी-सुतीर्था मुखर्जी इत्यनयोः शीर्ष-महिला-युगलेन ऐतिहां विनिर्मितमस्ति। अस्यां स्पर्धायां भारतीयमहिलायुगलं कांस्यपदकं लब्धम्।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article राममन्दिरस्य मुख्यशिखरस्य निर्माणे प्रथमस्तरस्य शिलाखण्डस्य कार्यं सम्पन्नम्
Next Article International Dussehra Festival Kullu : भव्यया रथयात्रया साकं दशहरामेलापकस्य शुभारम्भ:। कनाडादेशे अपि दशहरा-उत्सवस्य उल्लासः।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?