By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/09/19 at 10:36 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

 

राष्ट्रीयवार्ता: 

  • राष्ट्रपति-द्रौपदी-मुर्मुः प्रोक्तवती यत् गतदश-वर्षेषु स्वच्छता अभियानम् एकं राष्ट्रव्याप्यभियानम् अभवत्।

 

  • प्रधानमन्त्री नरेन्द्रमोदी त्रिदिवसीयायां संयुक्त राज्य अमेरिकादेशस्य यात्रायां मासस्यास्य एकविंशतितः त्रयोविंशति-दिनाङ्कपर्यन्तं गमिष्यति, चतुर्थे क्वाड्-सम्मेलने च भागं भजिष्यति।

 

  • एनडीए इति राष्ट्रिय-लोकतांत्रिक संघस्य तृतीये प्रशासने शतदिवसात्मक-शासनस्य पूर्तावधौ केन्द्रीयकृषि-मन्त्री शिवराजसिंहचौहानः घोषितवान् यत् प्रशासनम् अग्रिममासतः आकाशवाणी-दूरदर्शनाभ्यां कृषिचौपालाख्यः कार्यक्रमः समारप्स्यति।

 

  • अस्य वर्षस्य चाइना ओपन बैडमिंटन इति क्रीडा स्पर्धायां मालविका बंसोड इत्यनया महिला-एकल-वर्गे क्रिस्टी गिल्मर इत्येषा क्रीडिका पराजिता।

 

हिमाचलवार्ता: 

  • संजौली मस्जिदविवादे हिन्दुसङ्घटनानि नेरवायां विरोधप्रदर्शनं कृतवन्तः। तस्मिन् एव काले सम्पूर्णं क्षेत्रं घोषोद्घोषै: प्रतिध्वनितम्। साम्प्रदायिकसङ्घर्षस्य निवारणाय पुलिसैः ठोसव्यवस्था कृता। बुधवासरे एव नेरवाविपण्याम् अतिरिक्तपुलिसबलं नियोजितम् आसीत्।

 

  • न्यायमूर्ति: जी.एस.संधवालिया हिमाचलप्रदेशस्य उच्चन्यायालयस्य मुख्यन्यायाधीश: भविष्यति। सर्वोच्चन्यायालयस्य कालेजियम इत्यनेन केन्द्रसर्वकाराय तस्य नाम अनुशंसितम् अस्ति। सः पञ्जाब-हरियाणा-उच्चन्यायालयस्य वरिष्ठतमः न्यायाधीशः अस्ति ।

 

  • संजौली-मस्जिद-विवादः दिल्ली-नगरं प्राप्तवान् अस्ति । गुरुवासरे राज्यकाङ्ग्रेस-अल्पसंख्यकमोर्चा इत्यनेन शीर्षनेतृत्वाय एतस्य विषयस्य सूचना दत्ता। काङ्ग्रेसस्य अल्पसंख्यकमोर्चा इत्यस्य राष्ट्रीयाध्यक्ष: तथा सांसद इमरान प्रतापगढ़ी इत्यस्य नेतृत्वे राज्यकाँग्रेसस्य अल्पसंख्यकमोर्चा-इत्यस्य अध्यक्ष: इकबाल मोहम्मद: नवदेहल्यां कांग्रेसस्य राष्ट्रीयमहासचिवेन केसी. वेनुगोपालेन मिलितवान्।

 

  • आर्यसमाजस्य संस्थापकस्य स्वामी दयानन्दसरस्वती इत्यस्य २००तमं जन्मदिवसम् अस्मिन् वर्षे अन्ताराष्ट्रीयस्तरस्य महता हर्षोल्लासेन आचर्यते। स्वामीदयानन्दस्य चिन्तनपरम्परां निर्वाहयन् आर्यसमाजशिमलाया: १४२ वर्षाणां समापनसमये सामवेदपारायणमहायज्ञस्य आरम्भः कृतः, यस्य समापन २२ सितम्बरदिनाङ्के भविष्यति। 

 

  • हिमाचलप्रदेशस्य राजधानी शिमलानगरस्य जुब्बड़हट्टीक्षेत्रे विद्युत्प्रहारकारणात् एकस्य व्यक्ते: मृत्युः अभवत् । सूचनानुसारं मृतः व्यक्तिः हिमाचलप्रदेशसर्वकारस्य जलशक्तिविभागे पम्पसञ्चालकरूपेण कार्यं कुर्वन् आसीत् । बुधवासरे रात्रौ एव एषा घटना अभवत् इति कथ्यते।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: Himachal news, himsanskritnews headlines, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, आज के मुख्य समाचार, आज के संस्कृत समचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himachal News : हिमाचलस्य प्रमुखा: संस्कृतवार्ता: CM Sukhu: स्वास्थ्यविभागे २७०० पदानि पूरयितुं प्रक्रिया प्रचलति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Next Article Shimla News : आर्यसमाजस्य वार्षिकपर्वणि सामवेदपारायणमहायज्ञः प्रारब्धः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?