By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/09/18 at 10:45 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

 

राष्ट्रीयवार्ता: 

  • अमेरिकादेशे रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य प्रत्याशी डोनाल्ड ट्रम्पः आगामिसप्ताहे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मेलिष्यति। ट्रम्पमहोदयः भारतेन सह अमेरिकीव्यापारविषये मिशिगननगरे वदन् एतां घोषणां कृतवान्।

 

  • जम्मूकश्मीरे विधानसभा निर्वाचनस्य प्रथमचरणाय सप्त जनपदानां चतुर्विंशति आसनेभ्यः मतदानम् शान्तिपूर्णरीत्या सम्पन्नम्। सायं पञ्चवादनं यावत् अष्टपञ्चाशत् दशमलव- एकं नव प्रतिशतं मतदानं समनुष्ठितम्।

 

  • केन्द्रीयप्रशासनेन एकं राष्ट्रम् एकं निर्वाचनमिति विषयमभिलक्ष्य निर्मितायाः उच्चस्तरीयायाः समित्याः अनुशंसाः स्वीकृताः।

 

  • केन्द्रप्रशासनेन देशस्य विज्ञान-प्रौद्योगिक क्षेत्रयोः संवर्धनाय चन्द्रयानस्य चतुर्थाभियानाय वीनसआर्बिटर-इत्यस्मै अभियानायापि स्वीकृतिः प्रदत्ता।

 

  • भारतीय-ऋतुविज्ञान-विभागेन  मध्यप्रदेश-उत्तरप्रदेश, राजस्थानसहित ऐशान्यभारते च अत्यधिक वर्षायाः सम्भावना प्रकटिताऽस्ति ।

 

  • भारतीय-बैडमिंटन-क्रीडिकया मालविका-बसोड इत्यनया चाइना ओपन-बैडमिंटन- क्रीडास्पर्धायां महिला-एकल-वर्गस्य प्रथमे चक्रे ग्रेगोरिया-तुनजुंग इत्येषा पराजिता। 

 

हिमाचलवार्ता: 

  • मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे राष्ट्रियक्षय- उन्मूलनकार्यक्रमस्य अन्तर्गतं राष्ट्रियकार्यदलस्य द्विदिवसीयसमागमस्य अध्यक्षतां कृतवान्। अस्मिन् सत्रे देशस्य सर्वेभ्यः क्षयरोगविशेषज्ञाः भागं गृह्णन्ति। हिमाचलप्रदेशे द्वितीयवारं एतस्याः महत्त्वपूर्णायाः सभायाः आयोजनं भवति। मुख्यमन्त्री ‘मेरी टीबी की कहानी फेज-२’ इति उपक्रमस्य शुभारम्भं कृतवान्।

 

  • काङ्ग्रेसस्य शीर्षनेतृत्वेन जम्मूकश्मीरे उपमुख्यमन्त्री मुकेश अग्निहोत्री वरिष्ठपर्यवेक्षकरूपेण नियुक्त:। अस्मिन् विषये काङ्ग्रेसस्य महासचिवः के. सी. वेणुगोपालः आदेशान् कृतवान् अस्ति। एते आदेशाः तत्कालं प्रभावेण कार्यान्विताः सन्ति। 

 

  • शिमलापुलिसः उपरिशिमलाक्षेत्रस्य विभिन्नेषु क्षेत्रेषु विद्युत् विद्युत्परावर्तकाणां चौर्येण सम्बद्धस्य गणस्य बन्धनं कृतवान्। विद्युत्परावर्तकाणां  चौर्यसम्बद्धस्य गणस्य पञ्च सदस्याः पुलिसैः गृहीताः।

 

  • राजकीय- प्राथमिक- शिक्षकसङ्घस्य प्रतिनिधिमण्डलेन बुधवासरे राज्याध्यक्षस्य जगदीशशर्मा इत्यस्य नेतृत्वे राज्यसचिवालये शिक्षामन्त्री रोहितठाकुरेण सह समागमः कृतः। अस्मिन् अवसरे शिक्षामन्त्री उक्तवान् यत् २०२३ तमस्य वर्षस्य तुलनायां सर्वकारीयविद्यालयेषु छात्राणां संख्या ५१ सहस्रन्यूनीकृता अस्ति। सर्वकारीविद्यालयेषु छात्राणां संख्या न्यूना भवति।

 

  • हिमाचलः उत्तरक्षेत्रस्य एथलेटिक-मेलनस्य आतिथ्यं हारितवान् अस्ति। अस्य आयोजनं धर्मशालायाः सिंथेटिक-पट्टिकायां अक्तूबरमासस्य ७ तः ९ पर्यन्तं भवितुम् अर्हति स्म, परन्तु एथलेटिकमेलनं दिल्लीनगरे भविष्यति। कथ्यते यत् क्रीडाविभागस्य सहकार्यस्य अभावात्, प्रतियोगितायाः प्रायोजकानाम् अभावात् च राज्यस्य एथलेटिक्ससङ्घेन अस्य आयोजनस्य विषये चिन्ता प्रकटिता आसीत्।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: Himachal news, himsanskritnews headlines, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, आज के मुख्य समाचार, आज के संस्कृत समचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Himachal News : हिमाचलस्य प्रमुखा: संस्कृतवार्ता: CM Sukhu: स्वास्थ्यविभागे २७०० पदानि पूरयितुं प्रक्रिया प्रचलति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?