हिमाचलसंस्कृतअकादम्याः शिमलायाः नेतृत्वे ऊनाजिलायां जिलास्तरीयविद्यालयसंस्कृतप्रतियोगितानां आयोजनं राजकीयकन्या-उत्कृष्टविद्यालये ऊनानगरे सम्पादितम्। अस्य कार्यक्रमस्य अध्यक्षतां डॉ. जगदीशचन्द्रशर्मणः कृतवान्। उद्घाटनसत्रे मुख्यातिथिरूपेण प्रारम्भिकशिक्षोपदेशकः श्रीसोमनाथधीमानमहोदयः उपस्थितः आसीत् तथा समापनसत्रे मुख्यातिथिरूपेण उच्चतरशिक्षोपनिदेशकः श्रीराजेन्द्रकौशलमहोदयः सन्निहितः आसीत्। कार्यक्रमे विशिष्टातिथिरूपेण श्रीनरोत्तमशर्मा, तथा स्थानीयविद्यालयस्य प्रधानाचार्यः श्रीसुरेशकुमारशर्मा उपस्थिता आस्ताम्। जिलास्तरीयाः अयं प्रतियोगिताः हिमाचलसंस्कृतअकादम्याः सचिवस्य डॉ. केशवानन्दस्य निर्देशनस्य अन्तर्गतं सम्पादिताः। अस्मिन्सत्रे मातेव वैदिकमन्त्रानामुच्चारणस्पर्धा, संस्कृतश्लोकप्रतियोगिता, संस्कृतगीतकस्पर्धा, संस्कृतभाषणप्रतियोगिताच आयोजिताः। एषु प्रतियोगितासु समग्रः ऊनाजिलस्य सप्ततिः विद्यालयाः विभिन्नासु स्पर्धासु सहभागं कृतवन्तः। प्रतियोगितानां आयोजनं द्वयोः स्तरयोः सम्पन्नं यत्र षष्ठीतमकक्ष्यायाः छात्राणां कृते कनिष्ठवर्गे मन्त्राणामुच्चारणं तथा श्लोकानाम्प्रतियोगिता कारिता। वरिष्ठवर्गे संस्कृतगीतमञ्च तथा भाषणस्पर्धा आयोजिता। कनिष्ठवर्गे मन्त्रूच्चारणप्रतियोगायां डोहगीविद्यालयस्य सचिनशर्मा प्रथमं स्थानं, हटलीविद्यालयस्य समर द्वितीयं, कलरूहविद्यालयस्य वंशजसवाल तृतीयं तथा खादमसियानिविद्यालयस्य ध्रुवसिंह चतुर्थस्थानं प्राप्नोत्। संस्कृतश्लोकप्रतियोगायां मंदलीविद्यालयस्य हर्षकौण्डलः प्रथमं, ऊनाकन्यविद्यालयस्य भूमिकाबेदी द्वितीयं, अम्बविद्यालयस्य सनमखान तृतीयं तथा धनेटविद्यालयस्य आकांक्षा चतुर्थं स्थानं प्राप्तवती। वरिष्ठवर्गे संस्कृतभाषणस्पर्धायां डोहगीविद्यालयस्य ऋद्धिमाशर्मा प्रथमं, बडेढविद्यालयस्य मनीषाकुमारी द्वितीयं, बांगाणविद्यालयस्य कामिनीदेवी तृतीयं, मंदलीविद्यालयस्य सारिकाभारद्वाजः चतुर्थं स्थानं प्राप्तवती। संस्कृतगीतप्रतियोगायां विभिन्नाः विद्यालयेभ्यः छात्राः प्रथमं द्वितीयं तृतीयं च स्थानं प्राप्तवन्तः। अस्मिन्नेव अवसरस्मिन् डॉ. मनोजशैलः संयोजकः, गोपालशर्मा, सुरेन्द्रजोशी, अरुणशर्मा, सन्दीपशर्मा च मंचसंचालकाः आसन्। निर्णायकगणे डॉ. दीपकुमार, डॉ. धनीरामः, डॉ. नरेशमलोटिया, डॉ. राजेन्द्रशर्मा, डॉ. अमनशर्मा, डॉ. अमितशर्मा, डॉ. महेन्द्रगोपालः, डॉ. मनोजशैलः, डॉ. नरोत्तमदत्तशर्मा च सम्मिलिताः आसन्। समापनस्य आरम्भसत्रे डॉ. शिवकुमारः मंचसंचालकः अभवत्। अस्य अवसरस्य अन्ते अकादम्याः सचिवः डॉ. केशवानन्दकौशलमहोदयः उद्घोषयत् यत् हिमाचलसंस्कृतअकादम्या राज्ये संस्कृतभाषायाः प्रचारप्रसारे सर्वस्तरे यथाशक्ति प्रयत्नः क्रियते, विद्यालयस्तरे महाविद्यालयस्तरे च सामाजिकस्तरे संस्कृतस्य प्रचारप्रसाराय निरन्तरं संलग्नाः वयं भवन्तः। नूतनपीढ्याः संस्काराणां पतनमासन्नं दृष्ट्वा पुनः संस्कारयुक्तं भारतं निर्मातुं संस्कृताध्ययनं अत्यावश्यकमिति। संस्कृतभाषा न केवलं भाषारूपेण, अपितु विज्ञानस्य प्रत्येकस्तरे अपि उपयोगं प्राप्नोति। अतोऽयं प्रकारः प्रतियोगितानां आयोजनं छात्रेषु संस्कृतभाषायां रुचिं उत्पादनाय भविष्ये उत्तमानां संस्कृतज्ञानां निर्माणाय अत्यावश्यकमिति। अकादम्या एषा दिशा निरन्तरं कारिता आसीत् भविष्ये अपि कार्यं विधास्यति। अस्मिन्नेव अवसरस्मिन् प्रारम्भिकशिक्षोपनिदेशकः श्रीसोमनाथधीमानः, उच्चतरशिक्षोपनिदेशकः श्रीराजेन्द्रकौशलः च अपि संस्कृतस्य प्रचारप्रसारे छात्राणां प्रोत्साहनं कर्तुं मार्गदर्शनं च कृतवन्तौ। विद्यालयस्य प्रबन्धनस्य सहयोगेन कार्यक्रमस्य सफलतायाः सुनिश्चितं कृतम्।
हिमाचलसंस्कृतअकादम्याः शिमलायाः नेतृत्वे ऊनाजिलायां जिलास्तरीयविद्यालयसंस्कृतप्रतियोगितानां आयोजनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
