By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines: विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Himsanskritnews Headlines: विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines: विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/08/29 at 11:57 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines: विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीयवार्ता: 

  • जम्मू-कश्मीरस्य विधानसभा निर्वाचनस्य द्वितीय-चरणस्य कृते प्रख्यापितया अधिसूचनया सह एव नामाङ्कनपत्राणां प्रस्तुतीकरणं समारब्धम्।

 

  • गुजरात-राज्ये जलप्लावनेन विनाशस्य अनन्तरं साहाय्योद्धारस्य कार्याणि द्रुतगत्या प्रचलन्ति। प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्रिणा भूपेन्द्रपटेलेन सह दूरभाष-माध्यमेन सम्वादं कृत्वा यथासम्भवं साहाय्यं कर्तुं वचनं दत्तवान् ।

 

  • जम्मू-कश्मीरस्य अवैधप्रवेश-विरूद्ध-अभियानयोः त्रयः आतङ्किनः मारिताः।

 

  • विशाखापत्तनम-गुप्तचर्या प्रकरणम् अधिकृत्य राष्ट्रिय-अन्वेषण विभागः ह्यः सम्पूर्ण देशे अनेकेषु स्थानेषु अन्वेषणाभियानं प्राचालयत् ।

 

हिमाचलवार्ता: 

  • हिमाचलसर्वकारस्य मुख्यमन्त्री, मन्त्रिणः, मुख्यसंसदीयसचिवा: (सीपीएस) च आगामिमासद्वयं यावत् वेतनं वृत्तिं च न ग्रहीष्यन्ति। एते विलम्बिताः अर्थात् पश्चात् मुक्ताः भविष्यन्ति। हिमाचलप्रदेश- विधानसभायां एतां सूचनां दत्त्वा मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यस्य आर्थिकस्थितिः उत्तमा नास्ति। एतादृशे सति सः स्वस्य, मन्त्रिणां, मुख्यसंसदीयसचिवानां च वेतन-वृत्ति-द्वयोः मासद्वयेन विलम्बं कर्तुं निश्चितवान् अस्ति। 

 

  • मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायाम् ऊर्जाविभागस्य वरिष्ठाधिकारिभिः सह विधानसभासचिवालये सोलनस्य नालागढे च निर्माणाधीनस्य १ मेगावाटक्षमतायुक्तस्य हरितहाइड्रोजनसंयंत्रस्य प्रगतेः समीक्षा अभवत्। मुख्यमन्त्री निर्माणप्रक्रियायाः त्वरिततां कर्तुम् अधिकारिभ्यः निर्देशं दत्तवान्। सः अवदत् यत् परियोजनायाः निविदां शीघ्रमेव आवंटनीया, संयंत्रस्य निर्माणकार्यं सम्पन्नं कर्तुं २०२५ वर्षस्य अन्ते यावत् समयसीमा निर्धारिता भवेत्।

 

  • विपक्षनेता जयरामठाकुरः आरोपितवान् यत् दिवसस्य आवासीयविद्यालयानाम् भूमिः निजीकम्पनीभ्यः अनुबन्धे दत्ता अस्ति, यत् सर्वकारेण सर्वथा नाङ्गीकृतम्। मुख्यमन्त्री उक्तवान् यत् पूर्वप्रधानमन्त्रिण: स्व. अटलबिहारीवाजपेयी एवं स्व. राजीवगान्धीनाम्ना राज्ये ये विद्यालया: उद्घाटिता: अथवा उद्घाटितानि वा भविष्यन्ति, ते सर्वे कार्यरताः एव तिष्ठन्ति। अटलस्य नाम्ना कोऽपि विद्यालयः पिहित: न भविष्यति तथा च अटल-आदर्शविद्यालयानां कृते बजटस्य प्रावधानं सर्वकारः करिष्यति।

 

  • हिमाचलविधानसभाया: प्रावृटसत्रे कांगड़ाया: विधायक: पवनकाजल: निर्वाचनविभागे उद्योगविभागे च अन्यपृष्ठवर्गस्य (ओबीसी) आरक्षणस्य अन्तर्गतं चयनप्रक्रियाया: प्रश्नस्य उत्तरस्य न प्राप्ते सति खिन्नतां प्रकटितवान्।अस्मिन् विषये विपक्षनेता जयरामठाकुरः क्रुद्धः भूत्वा अवदत् यत् एषः गतसत्रे पृष्टः प्रश्नः अस्ति, तस्य विषये सूचना अपि अस्मिन् सत्रे न आगच्छति। प्रश्नानां स्थगनविषये सूचना अग्रिमे सत्रे दीयते इति सर्वकारेण सुनिश्चितं कर्तव्यम्।

 

  • राज्यस्य उपमुख्यमन्त्री मुकेश अग्निहोत्री इत्यनेन उक्तं यत् केन्द्रसर्वकारेण हिमाचलप्रदेशस्य कृते नदीनाम्, उपनदीनां च तटीकरणस्य परियोजनासु निवेशस्य अनुमोदनं दत्तं किन्तु अद्यापि धनं न दत्तम्। सः अवदत् यत् २५३१ कोटिरूप्यकाणां ११ परियोजनाः लम्बिताः सन्ति, यदा तु ब्यास् नद्याः तटीकरणाय ०३ सहस्रकोटिरूप्यकाणां आवश्यकता वर्तते।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: Himachal news, himsanskritnews headlines, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, आज के मुख्य समाचार, आज के संस्कृत समचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article संस्कृतशिक्षा-उत्तराखंडशासनस्य निदेशकसचिवयोः केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिना सह उपवेशनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?