By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/06/25 at 8:57 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीयवार्ता: 

  • भारतीय-जनता-पार्टीति दलस्य वरिष्ठः सांसदः ओम् बिरला एनडीए इति राष्ट्रिय- जनतांत्रिक-संयुतेः लोकसभाध्यक्ष-पदाय प्रत्याशी भविष्यति। अपरत्र च विपक्षि- संयुत्या अपि लोकसभाध्यक्ष-पदार्थं कांग्रेस-दलस्य सांसदः के. सुरेशः प्रत्याशीकृतो वर्तते।
  • दिल्ल्याः मुख्यमन्त्री अरविन्दकेजरीवालः कारागृहे एव स्थास्यति। यतो हि दिल्ली उच्चन्यायालयेन धन- शोधनप्रकरणे तस्य मुक्ति याचिका निरस्तीकृता।
  • प्रधानमन्त्रिणा नरेन्द्रमोदिना पञ्च- सप्तत्युत्तर एकोनविंशतिःशततमे वर्षे आपत्कालप्रवर्तनस्य विरोधकर्तृभ्यः सर्वेभ्यः जनेभ्यः श्रद्धाञ्जलिः समर्पितः। एकस्मिन् सामाजिक- सञ्चारसञ्जालीये सन्देशे प्रधानमंत्रिणा व्यलेखि यत्-एतद् दिनं स्मारयति यत् कथंकारं कांग्रेसदलेन जनानाम् आधारिकस्वतन्त्रता नष्टं नीता आसीत्।
  • वित्तमन्त्री निर्मला सीतारमण  नवदिल्ल्यां व्यापारसेवाक्षेत्रस्य प्रतिनिधिभिः साकं सप्तमस्य वित्तसंकल्पनापत्रकस्य प्रस्तवनात् पूर्वं परामर्शोपवेशनम् आचरितवती। एतत् परामर्श-मन्त्रणोपवेशनं मन्त्रीवर्यया एव अध्यक्षितम् आसीत्।
  • केन्द्रीय- उपभोक्तृ- कार्य- खाद्य- वितरणमन्त्री प्रह्लादजोशी इक्षु-दण्डस्य स्थायितापूर्वकं विविधोत्पादनकृते वैश्विकसहयोगं समाहूतवान्। दिल्ल्यां अन्ताराष्ट्रिय- इक्षु- संघटन- परिषदः चतुष्षष्टितमे उपवेशनावधौ एकस्यां कार्यशालायां श्रीजोशी समुदीरितवान् यत् कस्याश्चिदपि योजनायाः कार्यान्वयने निष्पादने च उपभोक्तृणां- कृषकाणाम् उद्योगानां च कल्याणेषु सामञ्जस्य स्थापनम् अत्यावश्यकं वर्तते।
  • राष्ट्रिय-परीक्षा-अभिकरणस्य परीक्षासु पारदर्शिताम् निष्पक्षताम् च सुनिश्चेतुं शिक्षा- मन्त्रालयेन निर्मितायाः उच्च-स्तरीय-विशेषज्ञ-समित्याः प्रथमोपवेशनं परह्यः अभवत्।

हिमाचलवार्ता 

  • विधानसभा अध्यक्षः कुलदीपसिंहपठानिया विधानसभाया: उपाध्यक्षस्य निवासस्य, पुरातनमेट्रोपोलस्य च स्थाने १६ तमस्य वित्त-आयोगस्य अध्यक्षाय परामर्शम् अयच्छत्। सः सिसिल-अतिथिगृहे १६ तमस्य वित्तायोगस्य अध्यक्षेन डॉ. अरविन्दपनगढिया इत्यनेन सह मिलितवान्।
  • अधुना हिमाचलस्य पर्यटनस्थलेषु यातायातस्य निरीक्षणं ड्रोन-यन्त्रेण भविष्यति। शिमला, मनाली, धर्मशाला, चम्बा इत्यादि पर्यटनस्थलेषु  मार्गेषु वाहनसम्मर्दस्य ज्ञापनार्थं हिमाचलप्रदेशस्य यातायातपर्यटक-रेल-पुलिसः (टीटीआर) ड्रोन-यानानां उपयोगेन कुर्वन् अस्ति। यत्र यातायातस्य सम्मर्द: अस्ति तस्मिन् क्षेत्रे सम्बन्धितयातायातनियन्त्रणकक्षे सन्देशः प्रेष्यते। तदनन्तरं पुलिस तत्क्षणमेव तत्स्थानं प्राप्नोति।
  • कालका-शिमला-रेलमार्गे त्रिदिवसानन्तरं सर्वाणि रेलयानानि मंगलवासरे शिमलानगरं प्राप्तानि। एतेन भारतात् विदेशात् च शिमलाभ्रमणाय आगच्छन्तः पर्यटकाः महदाश्रयं प्राप्तवन्तः। सोमवासरे सप्त अपि रेलयानानि समये एव शिमलानगरं प्राप्तानि। अस्य कारणात् शिमला-रेलस्थानके अपि बहु क्रियाकलापः दृष्टः। ग्रीष्मकालस्य कारणात् मंगलवासरे रेलयानेन बहुसंख्यकाः पर्यटकाः शिमलानगरं प्राप्तवन्तः।
  • हिमाचलप्रदेशस्य कुल्लूमण्डलस्य धार्मिकनगरे मणिकर्णे पञ्जाबप्रदेशस्य पर्यटकस्य निजीबसचालकस्य च मध्ये विवादः उत्पन्नः। विवादः एतावत् वर्धितः यत् पर्यटकः क्रुद्धः भूत्वा स्वस्य रिवाल्वरं बहिः कृतवान्। रिवाल्वरस्य बहिः निष्कासनस्य अनन्तरं बहु कोलाहलः अभवत्। सूचनां प्राप्य पुलिस अपि तत्स्थानं प्राप्तवती। पुलिस अस्य प्रकरणस्य अन्वेषणं कुर्वन् अस्ति।
  • राज्यसर्वकारः आदिवासीजनपदेषु वनाधिकारविधानम्-२००६ इत्यस्य प्रभावी कार्यान्वयनम् सुनिश्चितं करिष्यति येन पात्रजनाः उपेक्षिताः च वर्गाः लाभं प्राप्नुयुः। प्रथमं आदिवासीक्षेत्रेषु प्रभावी कार्यान्वयनानन्तरं राज्यस्तरस्य अपि कार्यान्वयनम् भविष्यति।
  • राज्यकाङ्ग्रेसस्य अध्यक्षा प्रतिभासिंहः कांगड़ा-हमीरपुर-सोलन-जनपदानाम्  अध्यक्षान् तथा पदाधिकारिण: देहरा- हमीरपुर- नालागढ़- खण्डाणां सर्वै: पदाधिकारिभि: सह पूर्णसमन्वयेन एवं परस्परसहयोगेन निर्वाचनं स्पर्धयितुम् आग्रहं कृतवती। सा अवदत् यत् दोषान् दूरीकर्तुं सम्पूर्णं क्षेत्रप्रतिवेदनं समये एव आगच्छेत्। प्रत्येकस्य मतदानस्य कठोरनिरीक्षणं करणीयम् इति सा अवदत्। भाजपा निर्वाचनप्रक्रियायां किमपि प्रकारेण प्रभावितं शक्नोति।

 

You Might Also Like

प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, himsanskritnews headlines, National News, national News Headlines, News Headlines, आज के मुख्य समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल के मुख्य समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिमसंस्कृतवार्ता: – ब्रह्मपञ्चाङ्गम्
Next Article हिमसंस्कृतवार्ता: – National News अद्यतनीया: राष्ट्रीयवार्ता: 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?