By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमसंस्कृतवार्ता: – National News अद्यतनीया: राष्ट्रीयवार्ता: 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > हिमसंस्कृतवार्ता: – National News अद्यतनीया: राष्ट्रीयवार्ता: 
राष्ट्रीयवार्ताः

हिमसंस्कृतवार्ता: – National News अद्यतनीया: राष्ट्रीयवार्ता: 

डॉ मनोज शैल
Last updated: 2024/06/25 at 9:04 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

हिमसंस्कृतवार्ता: – National News अद्यतनीया: राष्ट्रीयवार्ता:

  • वरिष्ठः सांसदः ओम बिरला एनडीए इति राष्ट्रिय- जनतांत्रिक-संयुतेः लोकसभाध्यक्ष-पदाय प्रत्याशी भविष्यति

हिमसंस्कृतवार्ताः। भारतीय-जनता-पार्टीति दलस्य वरिष्ठः सांसदः ओम् बिरला एनडीए इति राष्ट्रिय- जनतांत्रिक-संयुतेः लोकसभाध्यक्ष-पदाय प्रत्याशी भविष्यति। अपरत्र च विपक्षि- संयुत्या अपि लोकसभाध्यक्ष-पदार्थं कांग्रेस-दलस्य सांसदः के. सुरेशः प्रत्याशीकृतो वर्तते। ध्येयमस्ति यत् ओम बिरला विगते सत्रेऽपि लोकसभाध्यक्षः आसीत्। अद्य उभाभ्यामपि प्रत्याशिभ्याम् अध्यक्ष- पदार्थं निज-निज-नामांकनं पूरितम्। अध्यक्षस्य प्रचयनं अद्य बुधवासरे भविष्यति। अतः प्राक् प्रशासनं विपक्षश्च अस्मै पदाय सर्वसहमर्ति यावत् प्राप्तुं नैव पारितवन्तौ। संसदः बहिस्तात् सञ्चारं माध्यमैः साकं संवदता केन्द्रीयमन्त्रिणा पीयूष गोयलेन प्रोक्तं यत् अस्मिन् विषये केन्द्रीयमन्त्रिणः राजनाथसिंहः, अमित शाहः जगत् प्रकाशनड्डाश्च कांग्रेसदलस्य नेत्रा के. सी. गोपालेन, डी. एम. के. दलस्य नेता टी.आर. बालू इत्यमुना च साकम् उपवेशनं समाचरितवन्तः। विपक्षस्य नेतारः ओम बिडला वर्याय समर्थनप्रदानात् पूर्वम् उपाध्यक्षस्य नाम्नो घोषणार्थं बलं प्रयच्छन्तः आसन्। तेनोक्तं यत् ते विपक्षिणः संसूचिताः सन्ति यत् उपाध्यक्ष-पद-घोषणा-प्रकरणम् अध्यक्ष निर्वाचन-समये समाधास्यते। अमुना प्रतिपादितं यत् विपक्षिभिः ये समयाः उपस्थापिताः सन्ति ते समेऽपि समयाः सर्वकारेण पूर्वमेव निराकृताः सन्ति। अस्माकं वार्ताहरो वर्णयति यत् लोकसभायाः अध्यक्षस्य निर्वाचनं स्वाधीनता-कालादेव विनैव प्रतिस्पर्धया संपाद्यते, किन्तु ऐदम्प्राथम्येन अस्मै पदाय निर्वाचनं विधीयते। 

 

  • शपथग्रहणस्य द्वितीये दिवसे बहुभाषावादस्य प्रभावः दृष्टः

हिमसंस्कृतवार्ताः। अष्टादश्याः लोकसभायाः द्वितीय दिवसस्य शुभारम्भः सदने निर्वाचितानां नूतनानां सांसदनां शपथग्रहणेन साकं सञ्जातः। कांग्रेसदलस्य गोवालकागडापदवीत्यमुना हिन्दीभाषया शपथग्रहणं कृतम्। तत्रैव सांसदः बच्छव शोभा, मराठी भाषया शपथम् अभिस्व्यकरोत्। भारतीय जनता पार्टीति दलस्य सांसदया स्मिता उदया वाघ वर्यया मराठीभाषया शपथो गृहीतः। अपरत्र च अनूप सञ्जय धोत्रे, कांग्रेसस्य बलवन्त दौलत बारवे, शिवसेनादलस्य डॉ. श्रीकान्त एकनाथ शिन्दे, शिवसेनायाः नरेश गणपत महस्के सहिताः अन्येऽपि नैके सांसदाः शपथग्रहणं स्वीकृतवन्तः। ध्येयमस्ति यत् विगतदिनात् नवनिर्वाचितानां सांसदानां शपथग्रहणसमारोहः प्रवर्तमानः अस्ति। अत्रान्तरे गतदिने षट्षष्ट्युत्तर-द्वि-शत-मितैः सांसदैः, अन्यैश्च अद्य शपथः स्वीकृतः, अवशिष्टाः सांसदाः अद्य शपथवचनं स्वीकरिष्यन्ति।

 

  • केजरीवालः मुक्तिः-दिल्ली उच्चन्यायालयेन धन- शोधन- प्रकरणे केजरीवालस्य मुक्ति याचिका निरस्तीकृता

 

हिमसंस्कृतवार्ताः। दिल्ल्याः मुख्यमन्त्री अरविन्दकेजरीवालः कारागृहे एव स्थास्यति। यतो हि दिल्ली उच्चन्यायालयेन धन- शोधनप्रकरणे तस्य मुक्ति याचिका निरस्तीकृता। न्यायमूर्तिना सुधीरकुमारजैनस्य एकेन अवकाशपीठेन प्रवर्तननिदेशालयस्य तस्यां याचिकायां निजादेशः प्रख्यापितः यस्यां केजरीवालाय मुक्तिप्रदानस्य निम्न न्यायलयस्य आदेशं रोद्धम् अभ्यर्थनं कृतमासीत्। अवधेयं वर्तते यत् अरविन्द केजरीवालः दिल्ल्याः मद्यनीति-सम्बद्ध-प्रवञ्चनायां मार्चमासस्य एकविंशे दिनांके निगडितः आसीत्। मईमासे लोकसभानिर्वाचनप्रचाराय सर्वोच्चन्यायालयेन तस्य अल्पावधिक-मुक्तियाचिका स्वीकृतासीत्। तदनु असौ जूनमासस्य द्वितीये दिवसे कारागृहं प्रति प्रत्यावर्तितवान्।

 

  • प्रधानमन्त्रिणा आपत्काल- प्रवर्तनस्य विरोध-कर्तृभ्यः सर्वेभ्यः जनेभ्यः श्रद्धाञ्जलिः समर्पितः

हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना पञ्च- सप्तत्युत्तर एकोनविंशतिःशततमे वर्षे आपत्कालप्रवर्तनस्य विरोधकर्तृभ्यः सर्वेभ्यः जनेभ्यः श्रद्धाञ्जलिः समर्पितः। एकस्मिन् सामाजिक- सञ्चारसञ्जालीये सन्देशे प्रधानमंत्रिणा व्यलेखि यत्-एतद् दिनं स्मारयति यत् कथंकारं कांग्रेसदलेन जनानाम् आधारिकस्वतन्त्रता नष्टं नीता आसीत्। देशस्य संविधानञ्च पादतले विमर्दितम् आसीत्। अमुना प्रोदितं यत् तात्कालिककांग्रेसशासनेन समेऽपि लोकतान्त्रिकाः सिद्धान्ताः अवहेलिताः देशश्च कारागृहत्वेन परिवर्तितः। अमुना भणितं यत् इमे त एव जनाः सन्ति यैः नैकेषु अवसरेषु षट् पञ्चाशदुत्तरत्रिशततमः अनुच्छेदः प्रवर्तितः आसीत्। सञ्चारमाध्यमानां स्वाधीनतायाः अपहरणार्थं विधेयकानि प्रस्तावितानि संघवादश्च विनाशितः, संविधानस्य सर्वेऽपि नियमाः उल्लंघिताः।

 

  • विकिलीक्स इत्यस्य संस्थापकः जूलियन असांजे  ब्रिटेनदेशस्य कारावासतः विमोचितः

हिमससंस्कृतवार्ताः। विकिलीक्स इत्यस्य संस्थापकः जूलियन असांजे इत्येषः अमरीकादेशीयैः अधिकारिभिः सह पारस्परिक- सहभागित्वस्य अनन्तरं ब्रिटेनदेशस्य कारावासतः विमोचितः। असांजे इत्येषः राष्ट्रिय-रक्षा-सूचनायाः प्राप्तेः तस्याः च उद्घाटनस्य षडयन्त्रस्य आपराधिक-आरोपेषु दण्डितो जातः आसीत्। पञ्चवर्षाणां कारावासानन्तरम् अस्मै लंदनस्य उच्चन्यायालयेन मुक्तिः प्रदत्ता अस्ति।

 

  • वित्तमन्त्री निर्मला सीतारमण नवदिल्ल्यां व्यापार- सेवा- क्षेत्रस्य प्रतिनिधिभिः साकं परामर्शोपवेशनम् आचरितवती

हिमससंस्कृतवार्ताः। वित्तमन्त्री निर्मला सीतारमण  नवदिल्ल्यां व्यापारसेवाक्षेत्रस्य प्रतिनिधिभिः साकं सप्तमस्य वित्तसंकल्पनापत्रकस्य प्रस्तवनात् पूर्वं परामर्शोपवेशनम् आचरितवती। एतत् परामर्श-मन्त्रणोपवेशनं मन्त्रीवर्यया एव अध्यक्षितम् आसीत्। उपवेशने केन्द्रीय वित्तराज्यमन्त्री पंकज चौधरी, मुख्य-आर्थिकपरामर्शदाता वी. अनन्त नागेश्वरन, वित्तसचिवः टी. वी. सोमनाथन, व्ययविभागीयः सचिवः, आर्थिक-कार्यविभागस्य च सचिवः वाणिज्योद्योग-मन्त्रालयश्च सहभागं कृतवन्तः। ध्येयमस्ति यत् सीतारमण वर्यया अतः पूर्वं व्यापारिकाणां श्रमिकाणां च संघानां प्रतिनिधिभिः साकमपि परिचर्योपवेशनम् आचरितम् असीत्।

 

  • केन्द्रीय-उपभोक्तृ-कार्य-खाद्य-वितरणमन्त्री प्रह्लादजोशी इक्षु-दण्डस्य विविधोत्पादनकृते वैश्विकसहयोगं समाहूतवान्

हिमससंस्कृतवार्ताः। केन्द्रीय- उपभोक्तृ- कार्य- खाद्य- वितरणमन्त्री प्रह्लादजोशी इक्षु-दण्डस्य स्थायितापूर्वकं विविधोत्पादनकृते वैश्विकसहयोगं समाहूतवान्। दिल्ल्यां अन्ताराष्ट्रिय- इक्षु- संघटन- परिषदः चतुष्षष्टितमे उपवेशनावधौ एकस्यां कार्यशालायां श्रीजोशी समुदीरितवान् यत् कस्याश्चिदपि योजनायाः कार्यान्वयने निष्पादने च उपभोक्तृणां- कृषकाणाम् उद्योगानां च कल्याणेषु सामञ्जस्य स्थापनम् अत्यावश्यकं वर्तते। वार्ताहरैः सह सम्भाषमाणः सः कथितवान् यत् भारतम् अन्ताराष्ट्रिय-इक्षु-संघटनस्य उपवेशनस्य आतिथ्यं द्वादशवर्षाणां दीर्घकालाद् अनन्तरं निर्वहति। एतस्मिन्नुपवेशने कृषकाणां, उपभोक्तृकल्याणे जलसंरक्षणे च प्रारम्भिकस्तरे विचार-विमर्शः भविष्यति। 

 

  • राष्ट्रिय-परीक्षा-अभिकरणस्य परीक्षासु पारदर्शितां  सुनिश्चेतुं शिक्षामन्त्रालयेन निर्मितायाः उच्च- स्तरीय- विशेषज्ञसमित्याः प्रथमोपवेशनम्

हिमससंस्कृतवार्ताः। राष्ट्रिय-परीक्षा-अभिकरणस्य परीक्षासु पारदर्शिताम् निष्पक्षताम् च सुनिश्चेतुं शिक्षा- मन्त्रालयेन निर्मितायाः उच्च-स्तरीय-विशेषज्ञ-समित्याः प्रथमोपवेशनं परह्यः अभवत्। नवदेहल्यां संचारमाध्यमैः सह वार्तालापं कुर्वन् समित्याः अध्यक्षः डॉ. के. राधा कृष्णन अवदत् यत् समित्याः प्राथमिकता छात्र अभिभावकानां च परामर्शाणां प्राप्तिः तेषां चिंता निराकरणं च अस्ति। छात्राणां मातृपितृणां च कृते समितिः तेन सह कार्यं करिष्यति। डा. राधाकृष्णन्-वर्यः अवदत् यत्, समितिः छात्राणां कष्टानि, चिंतां च न्यूनीकर्तुं दृढम्, अव्यवस्थितां च व्यवस्थां विकसयितुम् अपि विचारयति।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, National News, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article 16th Finance Commission : विधानसा-उपाध्यस्य निवासस्थानस्य पुरातनमेट्रोपोलस्य च प्रतिस्थापनार्थं वित्त-आयोगात् २५० कोटिरूप्यकाणां याचना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?