By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News :  प्रधानमंत्री नरेन्द्र-मोदी जम्मूकश्मीरस्य द्विदिवसीययात्रायां अस्ति, योगदिवसस्य कार्यक्रमे भागं ग्रहीष्यति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > National News :  प्रधानमंत्री नरेन्द्र-मोदी जम्मूकश्मीरस्य द्विदिवसीययात्रायां अस्ति, योगदिवसस्य कार्यक्रमे भागं ग्रहीष्यति
प्रादेशिकवार्ताराष्ट्रीयवार्ताः

National News :  प्रधानमंत्री नरेन्द्र-मोदी जम्मूकश्मीरस्य द्विदिवसीययात्रायां अस्ति, योगदिवसस्य कार्यक्रमे भागं ग्रहीष्यति

डॉ मनोज शैल
Last updated: 2024/06/20 at 10:39 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

National News :  प्रधानमंत्री नरेन्द्र-मोदी जम्मूकश्मीरस्य द्विदिवसीययात्रायां अस्ति, योगदिवसस्य कार्यक्रमे भागं ग्रहीष्यति

देशस्य अथवा समाजस्य प्रगति:  अपाङ्गजनानाम् प्रति संवेदनशीलतया कर्तुं शक्यते- राष्ट्रपतिः द्रौपदीमुर्मू

हिमसंस्कृतवार्ता:।

(हिमसंस्कृतवार्ता: – प्रवीण कुमार:) राष्ट्रपति द्रौपदी मुर्मू  नव देहल्याम् स्थितस्य पंडित-दीनदयाल उपाध्याय-राष्ट्रीय शारीरिक-विकलांग-संस्थानस्य  भ्रमणम् अकरोत्।  राष्ट्रपतिः विकलाङ्गबालै: सह संवादं कृतवती, तेषां सांस्कृतिककार्यक्रमं च अवलोकितवती।  सा नवीनीकरणं कृतं कृत्रिमशरीर-आर्थोसिस-केन्द्रं अपि गत्वा रोगिभिः सह संवादं कृतवती ।अस्मिन् काले राष्ट्रपति-महोदया अवदत् यत् देशस्य अथवा समाजस्य प्रगति: जनै:  अपाङ्गजनानाम् प्रति संवेदनशीलतया माध्यमेन कर्तुं शक्यते।  सा अवदत् यत् संवेदनशीलता समावेशनश्च  अस्माकं संस्कृते: सभ्यतायाः च अभिन्नः भागौ स्त:।  राष्ट्रपतिः संस्थायाः सम्बद्धानां सर्वेषां जनानां प्रशंसाम् अकरोत् ये विकलाङ्गानाम् सामाजिक-आर्थिक-सशक्तिकरणं प्रति कार्यं कुर्वन् सन्ति ।

प्रधानमंत्री नरेन्द्र-मोदी जम्मूकश्मीरस्य द्विदिवसीययात्रायां अस्ति, अद्य योगदिवसस्य कार्यक्रमे भागं ग्रहीष्यति

प्रधानमंत्री नरेन्द्र-मोदी गतदिनात् जम्मूकश्मीरस्य द्विदिवसीययात्रायां अस्ति। श्रीमोदी पञ्चशताधिकैकसहस्रकोटि-रूप्यकाणां चतुरशीतिः प्रमुखासां विकासपरियोजनानां शिलान्यासं उद्घाटनं करिष्यति। परियोजनासु मार्ग-परिवहन-सरञ्चनाः जलापूर्तियोजनाः उच्चशिक्षायां सरञ्चनागतसम्बद्धाः परियोजनाः सन्ति। प्रधानमंत्री चेनानी पटनीटॉप-नाशरी-खण्डस्य संशोधनं प्रौद्योगिक संपदः विकासार्थं षड्-सर्वकारीय-स्नातकोपाधि-महाविद्यालयानां निर्माण सदृशानां परियोजनां आधारशिलामपि संस्थापयिष्यति। श्रीमोदी श्रीनगरे शेर-ए-कश्मीर-अन्ताराष्ट्रिय सम्मेलन-केन्द्रे यूनां सशक्तिकरणं जम्मूकश्मीरस्य परिवर्तनं इत्याख्ये कार्यक्रमे भागं भजिष्यति। जम्मूकश्मीरस्य लब्धप्रतिष्ठित – यूनैः सह वार्ता विधास्यति। द्विसहस्राधिकेभ्यः युवभ्यः नियुक्ति पत्रमपि वितरिष्यति। तदनु श्रीमोदी

एस.के.आई.सी.सी श्रीनगरे दशमं अन्तराष्ट्रिय-योग-दिवस-कार्यक्रमे अद्य भागं भजिष्यति।

तमिलनाडुराज्यस्य कल्लाकुरिची जनपदेविषाक्त मद्यपानैः पंचत्रिंशत्-जनाः दिवंगताः

तमिलनाडुराज्यस्य कल्लाकुरिची जनपदेविषाक्त मद्यपानैः पंचत्रिंशत्-जनाः दिवंगताः नवाधिकैकशतं पडुचेर्याः कल्लाकुरिची-सेलम-जिपमर-क्षेत्राणां विभिन्नेषु चिकित्सालयेषु उपचाराधीनाः वर्तन्ते। घटनां निधाय कल्लाकुरिची जनपदस्य जनपदाधिकारी अन्ये च दश अधिकारिणः पदच्युताः अभवन्। घटनायाः प्रमुखारोपी बूटलेगर- चिन्नादुरई निगडितः तस्य पार्श्वे अधिगताः द्विशतलीटरमिताः मद्याः परीक्षणार्थं सम्प्रेषिताः। ह्यः रात्रौ कल्लाकुरिची जनपदे वार्ताहरान् तमिलनाडोः स्वास्थ्यमन्त्री एम्. सुब्रहण्यमः अकथयत् यत् विषाक्तप्राप्तमद्ये मेथॉनाल इत्यस्य अधिकामात्रा प्राप्तास्ति। घटनायाः उच्चस्तरीयनिरीक्षणार्थं आदेशः प्रदत्तः।

बिहार-आरक्षणम् : पटना-उच्चन्यायालयेन  बिहार-सर्वकारस्य निर्णयः निरस्तीकृतः

हिमसंस्कृतवार्ताः। पटना-उच्चन्यायालयेन बिहार-राज्ये प्रशासकीयवृत्ति-अवसरेभ्यः शैक्षणिक संस्थानेषु वंचित वर्गाणां, वंचित-वर्गाणां, अनुसूचित जाति अनुसूचितजनजात्योः कृते पञ्चाशत् प्रतिशतम् आरक्षणं वर्धित्वा पञ्चषष्ठीः प्रतिशतं कर्तुं बिहार-सर्वकारस्य निर्णयः निरस्तीकृतः। मुख्य न्यायाधीशः के. विनोद चन्द्रनः न्यायमूर्तिः हरीश कुमारः इत्यनयोः एकः पीठः आरक्षणं-पञ्चाशत्-प्रतिशतं वर्धित्वा पञ्चषाष्ठिः कर्तुं संवैधानिक-वैधतां-समाह्वान युतासु याचिकासु वादश्रवणस्य अनन्तरं अस्य वर्षस्य मार्च मासस्य एकादश दिनांके निर्णयः यथावत् स्थापितः आसीव्। तत्रैव झारखण्ड-राज्ये जाति-आधारित-सर्वेक्षणं भविष्यति। अयं निर्णयः मुख्यमन्त्रिणः चंपई सोरेनस्य अध्यक्षतायां मन्त्रिमण्डलस्य उपवेशने गृहीतः ।

मुम्बईनगरे नैरन्तर्येणवृष्टिः, देहल्यां उष्णप्रकोपात् हाहाकारः

मुम्बईनगरे अपि च अस्य उपनगरीय क्षेत्रेषु ह्यः आरभ्य नैरन्तर्येणवृष्टिः समेधमाना वर्तते। राष्ट्रिय राजधान्यां दिल्ल्यां उष्णप्रकोपात् शैथिल्यस्य सम्भावना दृश्यते। ऋतु-विभागेन मुम्बई नगराय वृष्टेः पीतवार्णिकी संचेतना पालघर जनपदाय रक्तवार्णिकी ठाणे जनपदाय च नारङ्गवार्णिकी संचेता प्रख्यापिता। रायगढ-रत्नागिरी-चन्द्रपुर-गढचिरौलीजनपदेभ्यः पीतवार्णिकी संचेतनापि प्रख्यापिता। राष्ट्रिय-राजधानी-दिल्लीं समेत्य उत्तर-भारतस्य विविधाः भागाः भीषणातिभीषण-उष्णप्रकोपस्य अङ्के सन्ति। दिल्ल्याः सफदरजंग-चिकित्सालये केवलं चतुर्विंशति होरायाः अवधौ एव ग्रीष्म सम्बद्धैः रोगैः त्रयोदश जनानां मृत्युः जाता। तत्रैव त्रयस्त्रिंशत्-रोगिणः उपचाररताः सन्ति। दिल्ल्याः एव राममनोहर लोहिया- चिकित्सालये ह्यः यावत् नवरोगिणः मृत्युं प्राप्तवन्तः। अन्येषु उच्च-धिकित्सालयेष्वपि ग्रीष्मप्रकोपस्य रोगीणां संख्या प्रवर्धत्येव। स्वास्थ्य मन्त्रालयेन ह्यः एकः दिङ् निर्देशः प्रख्यापितः यस्मिन् राज्यानां स्वास्थ्यविभागान् अकथयत् यत् ते भीषण-ग्रीष्म ऋतोः कारणेन सम्मुखागतानां रोगाणां त्वरितमेव निवारणाय तत्पराः भवेयुः अपि ससमयं उपचारसामग्रीम् उपलब्धपितुं व्यवस्थाः कुर्युः।

श्रीयादवः उत्तराखण्डस्य  सूरज-कुण्ड-क्षेत्रे ‘एक पेड माँ के नाम’ इत्यस्य कार्यक्रमे भागं ग्रहीतवान

हिमसंस्कृतवार्ताः। केन्द्रीय पर्यावरण-वन-जलवायु परिवर्तन-मन्त्री भूपेन्द्र यादवः गतदिवसात् उत्तराखण्डस्य दिवसीय यात्रायां अस्ति। सः गतदिने टिहरी क्षेत्रे नरेन्द्रनगर-वन प्रभागस्य वनाग्निना प्रभावित क्षेत्राणां यात्रां विधाय स्थितेः समांकलनं कृतवान, तथा च विभागस्य व्यवस्थायाः समीक्षामपि करिष्यति। श्री यादवः अद्य अन्ताराष्ट्रिय योग दिवसस्यावसरे देहरादून-स्थितायां इंदिरा गांधी-राष्ट्रीय-वन-अकादम्यां भारतीय-वन-सेवा- केन्द्रीय-राज्य-वनसेवा-अकादम्ययोः प्रशिक्षु अधिकारिभिः सह योगाभ्यासं करिष्यति। श्रीयादवः  सूरज-कुण्ड-क्षेत्रे ‘एक पेड माँ के नाम’ इत्यस्य कार्यक्रमस्य अन्तर्गतं मन्त्रालयस्य अधिकारिभिः कर्मचारिभिः च सह वृक्षारोपण कार्यक्रमे भागं भजितवान् अस्मिन् अवसरे श्री यादव प्रदर्शन्याः समांकलनम् अपि कृतवान्।

देहल्याः उच्चन्यायालयेन मद्यनीतिप्रवञ्चनायाः प्रकरणे स्वनिर्णयः सुरक्षितः स्थापितः

हिमसंस्कृतवार्ताः। दिल्ल्याः एकः न्यायालयः मद्य-नीति-प्रवञ्चनायाः सम्बन्धिते धनशोधन-प्रकरणे मुख्यमन्त्रिणः अरविंद केजरीवालस्य मुक्ति-याचिकायां  स्वस्य आदेशः सुरक्षितः स्थापितः। विशिष्टन्यायालस्य राउजएवेन्यू इत्यस्य अवकाश-न्यायाधीशेन न्याय-बिन्दू-इत्यनेन प्रवर्तन निदेशालय-पक्षतः अतिरिक्तोच्च-विध्याधिकारिणः एस.वी.राजू इत्यस्य याचिकां पूरित्वा निर्णयः यथावत् स्थापितः अस्ति।

विदेशमन्त्री  एस. जयशंकरः श्रीलंकायाः कोलंबोनगरं सम्प्राप्तवान्

विदेशमन्त्री एस. जयशंकरः श्रीलंकायाः निजाधिकारिकयात्रान्तर्गतं  कोलंबोनगरं सम्प्राप्तवान्। स्वीयात्रावधौ डॉ. जयशंकरः उभयोः देशयोः द्विपक्षीय सहभागित्वस्य व्यापकेषु प्रस्ङ्गेषु श्रीलंकादेशस्य आध्यक्षेण सह उपवेशनानि करिष्यन्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे नवीनमन्त्रिमण्डलस्य निर्माणानन्तरं विदेशमन्त्रिणः इयं प्रथमा द्विपक्षीययात्रास्ति । भारतस्य समावेशि- प्रथमनीतेः पुष्टिकुर्वन्ती इयं यात्रा श्रीलंकां प्रति भारतस्य निरंतरप्रतिबद्धतां रेखांकयति ।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, National News, PM Modi, pmo, President of India, अन्तर्राष्ट्रीय समाचार, नरेन्द्र मोदी, प्रधानमंत्री, राष्ट्रपति द्रोपदी मुर्मू, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HPCM : पेखुबेला-सौर-ऊर्जा-परियोजनाया: लोकार्पणम्, प्रतिवर्षं ६.६१ कोटिमात्रकं विद्युतोत्पादनं भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?