By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HPCM : पेखुबेला-सौर-ऊर्जा-परियोजनाया: लोकार्पणम्, प्रतिवर्षं ६.६१ कोटिमात्रकं विद्युतोत्पादनं भविष्यति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HPCM : पेखुबेला-सौर-ऊर्जा-परियोजनाया: लोकार्पणम्, प्रतिवर्षं ६.६१ कोटिमात्रकं विद्युतोत्पादनं भविष्यति
हिमाचलवार्ता

HPCM : पेखुबेला-सौर-ऊर्जा-परियोजनाया: लोकार्पणम्, प्रतिवर्षं ६.६१ कोटिमात्रकं विद्युतोत्पादनं भविष्यति

डॉ मनोज शैल
Last updated: 2024/06/20 at 10:43 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HPCM : पेखुबेला-सौर-ऊर्जा-परियोजनाया: लोकार्पणम्, प्रतिवर्षं ६.६१ कोटिमात्रकं विद्युतोत्पादनं भविष्यति

हिमसंस्कृतवार्ता: – ऊना। 

मुख्यमंत्री सुखविंदरसिंहसुक्खु: गुरुवासरे ऊनाजनपदस्य पेखुबेलायां हिमाचलप्रदेश- ऊर्जा- निगम- सीमित- (हिमाचलप्रदेश- पावर- कारपोरेशन- लिमिटेड) द्वारा निर्मिताया: ३२ मेगावाटक्षमताया: पेखुबेला- सौर- ऊर्जा- परियोजनाया: लोकार्पणं कृतवान्।  मुख्यमन्त्री २०२३ तमस्य वर्षस्य दिसम्बरमासस्य २ दिनाङ्के अस्याः सौरपरियोजनायाः आधारशिलाम् अस्थापयत्, प्रायः चतुर्मासाभ्यन्तरे अस्याः परियोजनायाः विद्युत्-उत्पादनं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के आरब्धम्। यस्य औपचारिकं उद्घाटनं गुरुवासरे मुख्यमन्त्रिणा कृतम्। पेखुबेलापरियोजना ४९ हेक्टेयर भूमिषु २२० कोटिरूप्यकाणां व्ययेन निर्मिता अस्ति। मुख्यमन्त्री उक्तवान् यत् अस्याः परियोजनायाः प्रतिवर्षं ६.६१ कोटि-मात्रकं विद्युतोत्पादनं भविष्यति तथा च राज्यसर्वकारस्य कृते प्रतिमात्रक २.९० रुप्यकाणां दरेन प्रतिवर्षं १९.१७ कोटिरूप्यकाणां राजस्वं प्राप्स्यते। अस्यां परियोजनायां ८२,६५६ सौरमापाङ्कनानि स्थापितानि सन्ति, परियोजनायाः उत्पन्नं विद्युत् रक्कड़- टाहलीवाल- संचरणरेखायाः माध्यमेन प्रसारितं भवति। पेखुबेला सौरपरियोजनया प्रतिवर्षं २५३२ टनकार्बन उत्सर्जनस्य न्यूनीकरणं भविष्यति। अस्या: परियोजनायाः निर्माणकार्यस्य कालखण्डे १९,२०० मनुष्यदिवसाः उत्पन्नाः इति सः अवदत्।

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशः देशस्य प्रथमं हरित ऊर्जाराज्यं भवितुं गच्छति, एतत् प्राप्तुं राज्यसर्वकारेण हिमाचलप्रदेश- विद्युत्निगमलिमिटेड इत्यस्मै ५०० मेगावाट सौरविद्युत्स्थापनस्य लक्ष्यं निर्धारितम् अस्ति। सः अवदत् यत् एतत् लक्ष्यं प्राप्तुं निगमेन ४७ मेगावाट् प्रत्येकं त्रयाणां सौरपरियोजनानां निर्माणकार्यं आवंटितम् अस्ति। तेषु एका सौर-परियोजना सम्पन्ना अस्ति, अन्ये द्वे सौर-प्रकल्पे निर्माणाधीने स्त:। मुख्यमन्त्री उक्तवान् यत् हिमाचलप्रदेशविद्युत्निगमलिमिटेडद्वारा ७२ मेगावाटस्य सप्तसौरपरियोजनानां निविदाः आमन्त्रिताः सन्ति तथा च ५४ मेगावाटप्रत्येकस्य चतुर्णां सौरविद्युत्परियोजनानां डीपीआर-निर्माणं क्रियते। सः अवदत् यत् ७७ मेगावाट प्रत्येकं १० सौरविद्युत्परियोजना: सन्ति येषां कृते पूर्वसाध्यताप्रतिवेदनं निर्मितं भवति। सः अवदत् यत् ५० मेगावाट् सौरविद्युत्परियोजनानां कृते एफसीए-अनुमतिः प्राप्यते, अन्ये २०० मेगावाट सौरविद्युत्परियोजना: अन्वेषणपदे सन्ति। एतासु परियोजनासु ऊनामण्डले स्थिताः १६० मेगावाट सौरपरियोजनाः, सोलनमण्डले स्थिताः ११० मेगावाट सौरपरियोजनाः, काङ्गड़ामण्डले स्थिताः १७० मेगावाटसौरपरियोजनाः, मण्डीमण्डले स्थिताः ५० मेगावाटसौरपरियोजनाः, बिलासपुरमण्डले स्थिताः १० मेगावाटसौरपरियोजनाः च सन्ति।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, HPCM, hpgovt, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article National News :  प्रधानमंत्री नरेन्द्र-मोदी जम्मूकश्मीरस्य द्विदिवसीययात्रायां अस्ति, योगदिवसस्य कार्यक्रमे भागं ग्रहीष्यति
Next Article HP Politics :  विपक्षस्य नेता जयरामठाकुरः अवदत्– मुख्यमन्त्री सुक्खुः अष्टहोरापर्यन्तं काङ्ग्रेसनेतारं बन्धकं कृतवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?