By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कृषिविभागस्य अन्तर्गतं सर्वेषु स्तरेषु रिक्तपदानि शीघ्रमेव पूरयिष्यन्ते- मंगलः पाण्डेयः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > कृषिविभागस्य अन्तर्गतं सर्वेषु स्तरेषु रिक्तपदानि शीघ्रमेव पूरयिष्यन्ते- मंगलः पाण्डेयः
प्रादेशिकवार्ता

कृषिविभागस्य अन्तर्गतं सर्वेषु स्तरेषु रिक्तपदानि शीघ्रमेव पूरयिष्यन्ते- मंगलः पाण्डेयः

डॉ.अमनदीप शर्मा
Last updated: 2024/06/08 at 7:31 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

कृषिविभागस्य अन्तर्गतं सर्वेषु स्तरेषु रिक्तपदानि शीघ्रमेव पूरयिष्यन्ते- मंगलः पाण्डेयः
हिमसंस्कृतवार्ताः,राघव नाथ झा ,पटना 08 जून। माननीयः मन्त्री, कृषि विभागः, बिहारः श्रीमन्तः मंगलः पाण्डेयः अद्य कृषि भवनं, पटना स्थितं स्वीय कार्यालयकक्षे विभागीय उच्चाधिकारिभिः सह एकां बैठकां कृतवान्। अस्यां बैठकायां तेन विभागीय योजनानां समीक्षां कृतवती।
माननीयः मन्त्रिणा उक्तम् यत् माननीयः मुख्यमन्त्री महोदयस्य निर्देशस्य आलोकम् कृषि विभागस्य अन्तर्गतः सर्वेषु स्तरेषु रिक्तपदानि शीघ्रमेव पूरयिष्यन्ते। तेन रिक्तपदानां पूरणप्रक्रियायाः आरम्भः कर्तुं निर्देशः सम्बन्धिताधिकारिणे प्रदत्तः। विभागे स्वीकृतपदानां एवजि रिक्तपदानां विषये जानकारीं १५ जून पर्यन्तं उपलब्धां कर्तुमपि निर्देशः प्रदत्तः। सः उक्तवान् यत् कृषि विभागे नियमित रिक्तपदानां सह संविदाबद्ध रिक्तपदानां विषये अपि जानकारी दातव्या।
माननीयः कृषि मन्त्रिणा उक्तम् यत् राज्ये खरीफ ऋतुः आरब्धः। खरीफ ऋतौ बिहारस्य कृषकैः मुख्यतया धानः, मक्का, अरहर, मोटधान्यादीनां कृषिः क्रियते। उत्तरबिहारे यत्र कृषकाः रोहिणीनक्षत्रे (२५ मई) आरभ्य धानस्य बीजं वपनं कुर्वन्ति, तत्र दक्षिणबिहारे धानस्य बीजं प्रायः आर्द्रानक्षत्रे (२२ जून) वपन्ति। तेन उक्तम् यत् धानस्य विभिन्नप्रभेदानां बीजानां कृषकेभ्यः अनुदानितमूल्ये वितरणस्य कार्यं क्रियते। अस्मिन् खरीफऋतौ ७६२७२.५२ क्ंिवटल धानस्य बीजानां वितरणं करणीयं, यस्य विरुद्धं अद्यावधि १०९०१.२९क्ंिवटल धानस्य बीजानां वितरणं कृतमस्ति। तेन बीजवितरणकार्ये शीघ्रतां कर्तुं निर्देशः अधिकारिणे प्रदत्तः।
तेन उक्तम् यत् राज्ये बीजानां, उर्वरकाणां च पौधानां कृते कीट/व्याधिनियन्त्रणद्रव्याणि पर्याप्तमात्रायां उपलब्धानि सन्ति। अस्मिन् खरीफऋतौ जूनमासपर्यन्तं २२५००० मीट्रिकटन यूरियायाः आवश्यकताः अस्ति, यस्य विरुद्धं अद्यपर्यन्तं ३०८३३३ मीट्रिकटन यूरियायाः उपलब्धिः अस्ति, यः १३७ प्रतिशतः अस्ति। तथा च बिहारस्य जूनमासपर्यन्तं १०५००० मीट्रिकटन डी0ए0पी0, १०००० मीट्रिकटन एन0पी0के0 तथा १५००० मीट्रिकटन पोटाशस्य आवश्यकताः अस्ति, यस्य एवजि अद्यपर्यन्तं क्रमशः ४२८४६ मीट्रिकटन डी0ए0पी0, ८६८५० मीट्रिकटन एन0पी0के0 तथा ५८१८मीट्रिकटन पोटाशस्य उपलब्धिः अस्ति। तेन कृषकेभ्यः सन्तुलितमात्रायां उर्वरकाणां उपयोगः कर्तुं अपीलः कृतः, येन मृत्तिकायाः उर्वराशक्तिर्वर्तते।
माननीयः मन्त्रिणा उक्तम् यत् कृषकाणां सुविधायाः ध्यानं कृत्वा महान् कृषि यन्त्राणां सह लघु कृषि यन्त्राणामपि प्रोत्साहनं क्रियते। सर्वेषु प्रकारेषु कृषि यन्त्रेषु जिलास्तरे लक्ष्यं निर्धारितं कृतम्। विविधप्रकारेषु कृषि यन्त्रेषु कृषकेभ्यः अद्यावधि ७५ सहस्राणि ऑनलाइन आवेदनानि प्राप्तानि, यासु ४५ सहस्राणि आवेदनानां सत्यापनं कृतम्। २० जूनानन्तरं आवेदकानां कृषकेभ्यः कृषि यन्त्राणां वितरणं लॉटरीद्वारा करिष्यते।
श्रीमन्तः पाण्डेयः उक्तवान् यत् अक्षांशदेशान्तराधारेण प्रति एकरं एकः मृत्तिकापरीक्षणनमूनः स्वीकृतः अस्ति। अद्यपर्यन्तं 1 लक्षः ४५ सहस्राणि मृत्तिकापरीक्षणनमूनाः प्रयोगशालायां प्राप्ताः, यासु ४३ सहस्राणां परीक्षणं कृतमस्ति। मृत्तिकापरीक्षणनमूनानां परीक्षणकार्यं प्रगतौ अस्ति। तेन उक्तम् यत् बिहारस्य ४२ ग्राम्यस्तरीयमृत्तिकापरीक्षणप्रयोगशालाः, ३८ जिलास्तरीयमृत्तिकापरीक्षणप्रयोगशालाः, गया, मुंगेर तथा भागलपुरे ०३ अनुमण्डलस्तरीयमृत्तिकापरीक्षणप्रयोगशालाः कार्यरताः सन्ति। एवं राज्ये प्रमण्डलस्तरे ०९ चलन्तमृत्तिकापरीक्षणप्रयोगशालाः कार्यं कुर्वन्ति। अत्रिरिक्तं, बिहारकृषिविश्वविद्यालयः, सबौर, भागलपुर तथा डॉ0 राजेन्द्रप्रसादकेन्द्रीयकृषिविश्वविद्यालयः, पूसा, समस्तीपुरे अपि मृत्तिकापरीक्षणप्रयोगशालाः स्थापिताः। तेन १३ जूनरिमाणां सर्वेषु स्तरेषु मृत्तिकापरीक्षणप्रयोगशालानां प्रभारिभिः सह एकां बैठकां आयोजयितुं निर्देशः प्रदत्तः।
माननीयः मन्त्रिणा उक्तम् यत् बिहारस्य प्रधानमन्त्रिकृषकसम्माननिधियोजनायाः अन्तर्गतं ८०.६० लक्षाः कृषकाणां खातेषु प्रति वर्षं २-२ सहस्ररूप्यकाणि त्रिभिः किश्ताभिः अन्तरितानि भवन्ति। तेन उक्तम् यत् वर्षे २०१८-१९ तः २०२३-२४ पर्यन्तं कृषकाणां खातेषु २२३५३ कोटिरूप्यकाणि अन्तरितानि। तेन बिहारराज्यबीजनिगमेव मार्केटिंगबोर्डस्य कार्याणां च समीक्षां कृतवान् तथा आवश्यकनिर्देशान् अपि प्रदत्तवान्।
अस्यां सभाः कृषि निदेशकः श्रीमन्तः मुकेशकुमारलालः, प्रबन्ध निदेशकः, बिहारराज्यबीजनिगमः श्रीमन्तः आशुतोषकुमारवर्मा, निदेशकः उद्यानः श्रीमन्तः अभिषेककुमारः, अपर सचिवः श्रीमन्तः शैलेन्द्रकुमारः, संयुक्तसचिवद्वयः श्रीमन्तः मदनकुमारः तथा श्रीमन्तः मनोजकुमारः, उपनिदेशकः (प्रशासन) श्रीमन्तः मुकेशकुमाराग्रवालः, विशेषकार्यपदाधिकारी सुनीलकुमारः, अपरनिदेशः (शष्य) श्रीमन्तः धनञ्जयपतित्रिपाठीः, निदेशकः बसोकाः श्रीमन्तः सनतकुमारजयपुरियारः, निदेशकः भूमिसंरक्षणः श्रीमन्तः सुदामामहतो, संयुक्तनिदेशकः (रसायन), मृत्तिकापरीक्षणप्रयोगशाला श्रीमन्तः विनयकुमारपाण्डेयः सहिताः अन्याः पदाधिकारीगणः उपस्थिताः आसन्।

You Might Also Like

KKSU Ramtek – ‘विश्वमन’-संकल्पनायाः विषये अधिकं शोधं करणीयम् – प्रो. मधुसूदन-पेन्ना

Pride Moment – परमवीरचक्रविजेता सूबेदार सञ्जयकुमारः सेनायां ‘कैप्टन’ (Captain) पदेन सुशोभितः 

KKSU Ramtek – महिलाभ्यः आर्थिकस्वायत्तता आवश्यकी– डॉ. मेधाकानेटकर।

लोकभवने उत्तरप्रदेश-त्रिपुरा-मेघालय-मणिपुर-राज्याणां स्थापनादिवसस्य आयोजनम् 

VASANT PANCHAMI 2026 – मातुः सरस्वत्याः आराधनायाः महापर्व: बसन्तपञ्चम्याः पुण्यकालः २३ जनवरी प्रातः ०२:२९ वादनात्- प्रो. बिहारीलाल: शर्मा

TAGGED: कृषि विभाग, कृषि विभाग बिहार, मंगलः पाण्डेयः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article धारावाहिकं गीताप्रश्नोत्तरम् -६१
Next Article भारतीयजनतापक्षस्य वरिष्ठनेता नरेन्द्रमोदी रविवासरे तृतीयवारं प्रधानमन्त्रीपदस्य शपथग्रहणं करिष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?