By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Election : ‘शुक्कर-पुङ्ग-उपनद्यो: वज्रचूर्णकस्थापनं कृत्वा खननतस्करै: खनिजसम्पदा चोरिता’- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Election : ‘शुक्कर-पुङ्ग-उपनद्यो: वज्रचूर्णकस्थापनं कृत्वा खननतस्करै: खनिजसम्पदा चोरिता’- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
राजनैतिकवार्ताहिमाचलवार्ता

HP Election : ‘शुक्कर-पुङ्ग-उपनद्यो: वज्रचूर्णकस्थापनं कृत्वा खननतस्करै: खनिजसम्पदा चोरिता’- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/05/23 at 11:51 AM
डॉ मनोज शैल
Share
3 Min Read
SHARE

HP Election : ‘शुक्कर-पुङ्ग-उपनद्यो: वज्रचूर्णकस्थापनं कृत्वा खननतस्करै: खनिजसम्पदा चोरिता’- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता- बिलासपुरम्। 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् पूर्वभाजपासर्वकारे राज्ये सार्वजनिकसम्पत्त्याः लुण्ठनम् अभवत्। बृहत् तस्करा: सज्जाः भूत्वा शुक्कर- पुङ्ग- उपनद्यो: वज्रचूर्णकस्थापनं कृत्वा सम्पूर्णं खनिजसम्पदां हरन्ति स्म। एतादृशाः बहवः जनाः परोपकारिणः भवन्ति, परन्तु भ्रष्टाचारद्वारा धनम् अर्जयितुं व्यस्ताः भवन्ति। एतादृशानां भ्रष्टजनानाम् उपरि पाशं कठिनं कृत्वा सर्वकारेण एकस्मिन् वर्षे २२०० कोटिरूप्यकाणां अतिरिक्तं राजस्वं प्राप्तम्। किं वयं न जानीमः यत् भाजपा काङ्ग्रेससर्वकारस्य पतनस्य षड्यंत्रं कुर्वन् अस्ति, मुख्यः शिल्पकारः जयरामठाकुरः आसीत्। षट् काङ्ग्रेसविधायकाः त्रयः निर्दलीयाः च भाजपायै विक्रीताः। इन्द्रदत्तलखनपालः अस्माभिः सह प्रातःभोजने स्वच्छं रसं पिबति स्म, मया मन्यते यत् सर्वं सुष्ठु अस्ति, प्रथमं मतदानं कर्तव्यम् इति वदन् बड़सरविधायकः प्रस्थितवान्, सर्वेषु दृष्टिः स्थापयिष्यामि इति। परन्तु, सः पूर्वमेव विक्रीतवान् आसीत्, तस्य नाम अधुना इन्द्रदत्तविक्रीत: अभवत्। दलस्य विरोधः अस्ति, अस्माकम् अपि आसीत्, परन्तु कदापि न विक्रीतम्। दलस्य मध्ये स्थित्वा युद्धं कृतवान्।

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः लोकसभाप्रत्याशिन: सतपालरायजादा इत्यस्य समर्थने बिलासपुरे, घुमरवीं विधानसभानिर्वाचनक्षेत्रस्य बद्धाघाटे, भराड़यां, झंडूत्ता विधानसभाक्षेत्रस्य च निर्वाचनजनसभासु एतद् उक्तवान्। सः अवदत् यत् यदा सः राज्ये सत्तां स्वीकृतवान् तदा कोषे एकसप्ताहस्य अपि व्ययस्य पूर्तये धनं नासीत्। आगामिमासस्य वेतनं कर्मचारिभ्यः दातुं न शक्ष्यन्ति इति अधिकारिणः अवदन्। अहं अवदम् यत् वेतनं दत्तं भविष्यति तथा च सर्वकारः अपि चालयिष्यते, भ्रष्टाचारस्य पृष्ठद्वाराणि पिधायितव्यानि भविष्यन्ति।

मुख्यमन्त्री उक्तवान् यत् जूनमासस्य चतुर्थे दिने एकः अपि विक्रयणयोग्यः पूर्वविधायकः विजयी न भविष्यति। तेषां स्थितिः दुर्गता भविष्यति, जनसमूहेन तान् स्वगृहं प्रेषयितुं निर्णयः कृतः। भाजपायाः कोऽपि निष्ठावान् कार्यकर्ता विक्रीतविधायकेभ्य: मतदानं न करिष्यति, यतः ते भाजपायाः कृते आवश्यकाः न सन्ति, ते बाध्यताः एव। भाजपाराष्ट्रियाध्यक्षः जेपीनड्डावर्यस्य बाध्यतायाः कारणात् तं दलस्य समावेशं कृतवान् अस्ति। जयरामठाकुरः वदति यत् जूनमासस्य चतुर्थे दिने द्वौ सर्वकारौ निर्मितौ भविष्यतः, एकः हिमाचले अपरः दिल्लीनगरे, परन्तु विपक्षस्य नेतु: गणितस्य अङ्काः न्यूनाः भविष्यन्ति। ते न जानन्ति यत् उभयत्र भाजपा- सर्वकाराः न निर्मीयन्ते। हिमाचले काङ्ग्रेससर्वकाराय कोऽपि संकट: नास्ति। सर्वकारस्य निरपेक्षबहुमतम् अस्ति, अतः एव तस्य विधायकौ मण्डी- शिमला- संसदीयक्षेत्रेभ्यः निर्वाचनं कुर्वतः सन्ति। सः अवदत् यत् न्यायालये अटन्तः नियुक्तय: वैधानिकक्लेशात् बहिः कृत्वा नियुक्तिपत्राणि दातुं सर्वकारेण आरब्धा। सर्वकारीयविभागेषु ४००००० रिक्तस्थानानि सन्ति। अस्माकं सर्वकारेण एकस्मिन् वर्षे २२ सहस्रनियुक्तयः कृताः। हिमाचलस्य पूर्वस्य डबलइञ्जिनसर्वकारेण सर्वकारीयकोषस्य रिक्तीकरणेन सह ५ वर्षेषु केवलं २० सहस्र एव नियुक्तय: कृताः। अस्माकं सर्वकारः केवलं मतार्थं राजनीतिं न करोति। अधिकारिणः अवदन् यत् २०२६ तमे वर्षे कर्मचारिभ्यः पुरातनवृत्ति: दातव्यं येन ते २०२७ तमस्य वर्षस्य निर्वाचने लाभं प्राप्तुं शक्नुवन्ति। परन्तु प्रथमे एव मन्त्रिमण्डले अहं ओपीएस दत्तवान्। अधुना अन्येषु बोर्डेषु निगमेषु च वृत्तिं दातुं सर्वकारः विचारयिष्यति।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, HP Election, HP NEWS, HP Politics, HPCM, Lok Sabha Election, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, लोकसभा चुनाव 2024, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Politics : हास्यकलाकारेण सह कङ्गनायाः तुलनां कृतवान् विक्रमादित्यः
Next Article HP Election Commission : हिमाचले आदर्श आचारसंहिताया: कार्यान्वयनात् अधुना यावत् १४०६ उपालम्भा: प्राप्ता: – मुख्यनिर्वाचनाधिकारी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?