By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुख्यमंत्रिण: पञ्चतारकहोटले निवासस्य अनन्तरं राजनीतिः तप्ता, सुक्खुसर्वकारस्य निवेशकमेलने भाजपाया: आक्रमणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > मुख्यमंत्रिण: पञ्चतारकहोटले निवासस्य अनन्तरं राजनीतिः तप्ता, सुक्खुसर्वकारस्य निवेशकमेलने भाजपाया: आक्रमणम्
राजनैतिकवार्ताहिमाचलवार्ता

मुख्यमंत्रिण: पञ्चतारकहोटले निवासस्य अनन्तरं राजनीतिः तप्ता, सुक्खुसर्वकारस्य निवेशकमेलने भाजपाया: आक्रमणम्

डॉ मनोज शैल
Last updated: 2024/04/08 at 3:50 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

मुख्यमंत्रिण: पञ्चतारकहोटले निवासस्य अनन्तरं राजनीतिः तप्ता, सुक्खुसर्वकारस्य निवेशकमेलने भाजपाया: आक्रमणम्

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

धर्मशालाविधानसभातः उपनिर्वाचने भाजपाप्रत्याशी सुधीरशर्मा चण्डीगढ़े सर्वकारेण आयोजितस्य निवेशकसम्मेलनस्य (इन्वेस्टर्स मीट) विषये प्रश्नान् उत्थापितवान्। सः मुख्यनिर्वाचन-आयुक्तं मनीषगर्गं प्रति उपालम्भं कृत्वा समुचितकार्याणि कर्तुम् अनुरोधं कृतवान् अस्ति। सुधीरः अवदत् यत् व्यवस्थापरिवर्तनस्य नामधेयेन सर्वकारः स्वव्यवस्थां समाधातुं प्रयतते।

भाजपा विधायकेन सुक्खो: विरुद्धं  आरोपा: स्थापिता:

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः चण्डीगढ-भ्रमणकाले हयात- पञ्चतारकहोटेले सर्वदा तिष्ठति, यदा तु अस्मात् पूर्वं राज्यस्य सर्वे मुख्यमन्त्रिणः केवलं हिमाचलभवने एव तिष्ठन्ति स्म एकतः मुख्यमन्त्री पञ्चतारकहोटेलेषु तिष्ठति स्म अपरतः राज्यस्य क्षीणतां गच्छन्त्याः अर्थव्यवस्थायाः विषये कथयति स्म। अधुना पर्यटनविभागः ९ एप्रिल दिनाङ्के अस्मिन् एव हयातहोटेले कार्यक्रमस्य आयोजनं कर्तुं गच्छति। अस्मिन् एडीबी-अन्तर्गतं परियोजनायाः कृते निवेशकाः आहूताः सन्ति।

सुधीरशर्मा इत्यनेन एषः प्रश्नः पृष्टः यत् एडीबी परियोजनायां निजीनिवेशकस्य भूमिका का अस्ति। सः आरोपितवान् यत् सर्वकारः हिमाचल फॉर सेल् इति घोषस्य प्रचारं करोति। निर्वाचनस्य मध्यं केभ्यः जनै: सह सर्वकारः गुप्ताभिसन्धिं करोति इति सः आशङ्कां प्रकटितवान्।

सुधीरः केन्द्रीय-अन्वेषणसंस्थाभ्यः एतत् आह्वानं कृतवान्

केन्द्रीय अन्वेषणसंस्थाः अस्य विषयस्य अन्वेषणं कुर्यात् मुख्यनिर्वाचन-आयुक्ताय प्रेषिते उपालम्भपत्रे सः अस्य कार्यक्रमस्य प्रतिबन्धं कर्तुं आग्रहं कृतवान् अस्ति। तस्मिन् एव काले राज्यपालात् शिवप्रतापशुक्लात् अपि अन्वेषणस्य आग्रहः कृतः अस्ति। सः अवदत् यत् सर्वकारः गुप्तरूपेण केषां जनानां लाभं प्राप्तुं प्रयतते इति अन्वेषणं करणीयम्।

भुट्टो मुख्यमन्त्रीं प्रति २ कोटिरूप्यकाणां मानहानिसूचनापत्रं प्रेषितवान्

कुटलेहड़विधानसभाक्षेत्रस्य पूर्वविधायकः भाजपाप्रत्याशी देवेन्द्रभुट्टोः शनिवासरे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुं प्रति द्विकोटिरूप्यकाणां मानहाने: वैधानिकं सूचनापत्रं प्रेषितवान् यस्मिन् सः स्पष्टतया आग्रहं कृतवान् यत् मुख्यमन्त्री सार्वजनिकरूपेण वदतु यत् सः तस्योपरि रुप्यकाणां ग्रहणस्य आरोपं कृतवान् अस्ति १५ कोटिः केन आधारेण आरोपः कृतः? यदि मुख्यमन्त्रिण: समीपे प्रमाणानि सन्ति तर्हि किमर्थं कार्यविधि: न कृता?

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, Congress, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal Congress, Himachal news, himachal update, Himsanskritnews, HPCM, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल कांग्रेस
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Lok Sabha Election 2024 : हिमाचलीजनाः अस्माकं समर्थनं करिष्यन्ति सत्यस्य च जयं भविष्यति  प्रियङ्का गान्धी विश्वासं प्रकटितवती
Next Article सोनियागान्धी इत्यनया सह मिलितवन्तौ विक्रमादित्यः प्रतिभासिंहः च, निर्वाचनस्य सज्जतायाः विषये सूचितवन्तौ
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?