By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Forest Department : वनविभागेन प्राप्ता: ५४ वनरक्षकाः, सुन्दरनगरे दीक्षांतसमारोहः सम्पन्नः, अभिषेक: चौधरी इत्यस्मै स्वर्णपदकम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Forest Department : वनविभागेन प्राप्ता: ५४ वनरक्षकाः, सुन्दरनगरे दीक्षांतसमारोहः सम्पन्नः, अभिषेक: चौधरी इत्यस्मै स्वर्णपदकम्
राजनैतिकवार्ताहिमाचलवार्ता

HP Forest Department : वनविभागेन प्राप्ता: ५४ वनरक्षकाः, सुन्दरनगरे दीक्षांतसमारोहः सम्पन्नः, अभिषेक: चौधरी इत्यस्मै स्वर्णपदकम्

डॉ मनोज शैल
Last updated: 2024/04/07 at 10:38 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

HP Forest Department : वनविभागेन प्राप्ता: ५४ वनरक्षकाः, सुन्दरनगरे दीक्षांतसमारोहः सम्पन्नः, अभिषेक: चौधरी इत्यस्मै स्वर्णपदकम्
हिमसंस्कृतवार्ता- मण्डी।
षड्मासात्मकं प्रशिक्षणपाठ्यक्रमं सम्पन्नं कुर्वतां वनरक्षकाणां ३४ तमस्य समूहस्य दीक्षांतसमारोहस्य आयोजनं शनिवासरे हिमाचलप्रदेशवन-अकादम्यां कृतम्। अस्मिन्नवसरे प्रधानमुख्यवनसंरक्षक: राजीवकुमार: मुख्यातिथि: आसीत्। सः वनरक्षकाणां पथप्रदर्शनस्य अभिवादनं स्वीकृतवान्। हिमाचलप्रदेश-वन-अकादम्या: निदेशक: प्रदीपठाकुर: मुख्यातिथे: स्वागतम् कृत्वा तस्य समक्षं प्रशिक्षणेन सम्बन्धितं विस्तृतं प्रतिवेदनं प्रस्तुतवान्। मुख्यातिथिः राजीवकुमारः अपि वनरक्षकप्रशिक्षुभिः संकलितां पत्रिकां “पहल” इति विमोचितवान् ।
षड्मासात्मके प्रशिक्षणपाठ्यक्रमे १२ वनवृत्तेभ्यः ५२ पुरुषाः २ महिलाः च वनरक्षकाः भागं गृहीत्वा सफलतया उत्तीर्णाः इति संयुक्तनिदेशकः सुभाषपराशनः अवदत्। दीक्षांतसमारोहे समग्रतया सर्वोत्तमस्य स्वर्णपदकं वनविभागस्य ऊनाया: अभिषेकचौधरी प्राप्नोत्। वानिक्यां ऊनाया: अभिषेक:, वन्यजीवे जोगिन्दरनगरस्य अर्जुनसिंह:, वनसर्वेक्षणे एवं अभियांत्रिक्यां में ऊनाया: के अभिषेक: चौधरी, वनसंरक्षणे एवं विधौ में कुल्लो: अजय: रजतपदकानि प्राप्तवन्त:। मैराथनधावने पालमपुरस्य रोहितकुमारः स्वर्णपदकं, वन्यजीव हमीरपुरस्य अमितकुमारः रजतपदकं, धर्मशालाया: साहिलचौधरी च कांस्यपदकं प्राप्तवान् । वरिष्ठवर्गे डलहौजीतः सुशीलकुमारः स्वर्णपदकं, करसोगतः तरुणकुमारः रजतपदकं, वन्यजीवकाजातः नरेन्द्रकुमारः कांस्यपदकं प्राप्तवान् ।

पुरुषवर्गे कुनिहारस्य विकासधीमान: सर्वोत्तमक्रीडकेन पुरस्कृतं तथा च महिलावर्गे डीएफओ रिसर्चतः शकुन्तला तथा वरिष्ठवर्गे डलहौजीत: तिलकबहादुर: मुख्यातिथिना स्वर्णपदकेन पुरस्कृता:। मुख्यातिथिः राजीवकुमारः स्वसम्बोधने ३४ तमस्य वनरक्षकवर्गस्य पासिंग आउटपरेड- इत्यस्य अनुशासनस्य च प्रशंसाम् अकरोत्। सः वनरक्षकान् आह्वयत् यत् ते स्वानुभवं अन्यैः सह प्रकटयन्तु वनानां रक्षणार्थं च अधिकतात्कालिकतापूर्वकं कार्यं कुर्वन्तु।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: Forest Guard, him sanskritam, himachal abhi abhi, Himsanskritnews, HP Forest Department, HP NEWS, वन रक्षक, वन विभाग, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल प्रदेश वन अकादमी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP News : हिमाचल राज्यसभा निर्वाचनं निरस्तं कर्तव्यम् – अभिषेक मनुसिंघवी उच्चन्यायालये याचिकां प्रविष्टवान्
Next Article HP News : नामाङ्कनानन्तरं प्रत्यागमिष्यन्ति भाजपाविद्रोहिणः, शीर्षनेतृत्वे दृष्टिः निहिताः, विधानसभानिर्वाचनेऽपि विघ्नः अभवत्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?